Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 128
________________ - भवतु, एतत् वरस्य भावचित्रम्, एतत् वैयक्तिकविवरणम् च । भवती दृष्ट्वा विचार्य मां वदिष्यति । अहं गच्छामि अधुना । केवलम् एतद् अवश्यं स्मारयामि, कन्या अधुना विवाहयोग्या अभवत् इति । अतः साक्षात्समये समीचीनं कार्यं करणीयमेव । इत्युक्त्वा प्रतिनिवृत्तः निरञ्जनबावुः । सहसा तूष्णीं जाता ममता । अवकाशदिवसः इति विशेषकार्यं नासीत् । तस्याः मनःस्थितिम् अवगत्य अनामिका अपृच्छत् - - अम्ब ! अद्य भवत्याः किं जातम् ? इति । - कुत्र, किमपि तु नास्ति ! माता उक्तवती । - परन्तु भवत्याः मनः भाराक्रान्तम् इति दर्शनामात्रेण कोऽपि वदिष्यति । मया लक्षिता एव भवती, क्लान्ता परिश्रान्ता इति प्रतिभाति । यथा कोऽपि शतकिलोमितं प्रस्तरं भवत्याः मस्तके स्थापितवान् । किम् अभवत् भवत्याः ? - नहि, रे मातः,.... अहम् अस्य गृहस्य एव चिन्तयामि ।। - कुत्र, गृहस्य किमपि असौविध्यं तु न पश्यामि अहम् । - नहि, रे, वर्षद्वयात् परम् अंशुमतः पाठः समाप्तः भविष्यति, सः नियुक्ति प्राप्स्यति, तदनु तदर्थं वध्वन्वेषणं भविष्यति, वधूः अत्र आगमिष्यति, लघुकं गृहम् इदं....? - अहो ! भ्राता नियुक्तिं प्राप्स्यति, तस्य वेतनेन उपरि एकं गृहं निर्मास्यते, का हानिः ? - तदनु पुनः ते परिणयः ... ... । - अहो ! कारणम् अत्र, अहं वदामि अम्ब ! स्नातकोत्तरोपधिप्राप्तेः पूर्वं मम परिणयस्य वार्ताम् अपि न करिष्यति ... ... ... | - तत्तु सत्यमेव, किन्तु पूर्वव्यवस्था करणीया खलु... .... । अनामिका विरक्तभावेन मातुः समीपात् पलायिता । ममता मनसा अवदत्, उन्मादिनीयम् ... । अनामिकायाः विवाहविषयचिन्तनसमये महेशस्य स्मृतिः बलात् प्रविशति अदिनवात्यासारः इव । ये प्रस्तावं नीत्वा आगमिष्यन्ति, ते प्रथमतः पितृपरिचयं प्रक्ष्यन्ति । उत्तमगृहं नास्ति चेत्, उत्तमवरोऽपि न लभ्यते । किमुत्तरं दास्यति सा...? सामान्यम् अपि दोषं विना सा अद्य दोषिणी ... । अनेकटीकाटिप्पणीः श्रुतवती सा अतीतकाले । समयेन सह तत्सर्वम् अपि अतीतम् । निरञ्जनबाबुना आश्वस्ता सा । तद्विषये चिन्ता मास्तु इति । वरपक्षस्य आवश्यकी सुन्दरी कन्या, अन्यत् किमपि नास्ति । यौतुकविषये अपि ते किमपि न वदिष्यन्ति । वस्तुतः यौतुकनामश्रवणेन ममता शङ्काग्रस्ता भवति । सा जानाति एव - यौतुकेन एव नारी यन्त्रणाग्रस्ता भवति । श्वशुरालये नाना कथां नाना व्यथां च प्राप्नोति वधूः । अन्ततो आत्महत्यां तथाविधं किमपि वा आचरति । तथा उदाहरणानि सन्ति बहूनि ।। निरञ्जनबाबुः उक्तवान्, दिनत्रयात् परं ते आगमिष्यन्ति । वरपिता कश्चन अधिकारी । पुत्रः १२३

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153