Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 133
________________ कथा | कथात्रयी सा. ऋजुमतिश्री: (१) यदि मस्तकं त्रोटयेत्, तर्हि इष्टधनं प्राप्नुयात् । कुशलपुरनगरस्य समीपं भादरनद्या मुखाग्रे शंकरस्य देवालयो बभूव, तस्मिन्देवालये बलीवर्दस्य पुत्तल आसीत्, तस्य पुत्तलस्य सन्मुखमेको लेखो लिखित आसीत. "यदि मस्तकं त्रोटयेत. तर्हि इष्टधनं प्राप्नुयात्", ततो जनास्तस्मिन्देवालये पशु-विहगानां शिरांसि अत्रोटयन्, वधं चाऽकुर्वन् । अन्यदैक आभीरस्तत्राऽऽगतः, स विचारयति - अस्य बलीवर्दस्य कारणेनाऽत्र बहवः जन्तवः नियन्ते, यावदस्य बलीवर्दपुत्तलस्य नाशो न भवेत्तावदन्धश्रद्धालुजना इदमकार्यं करिष्यन्ति, तदस्य १२८

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153