Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 125
________________ वात्यासारः कथा ओडिआमूलम् - श्रीचन्द्रशेखरदासवर्मा अनुवादकः - डॉ. नारायणदाशः बहुवारं स्मृतेर्वातायनानि उन्मोचितानि भवन्ति । वृष्टिसिक्ते गभीरनिशीथे, शिशिरार्दै प्रातःकाले, रौद्रातपाञ्चिते सुमध्याह्ने ममताया मनोभूमि सहसा प्रविशति महेशः । मुहूर्तं यावत् चञ्चला भवति ममता । तत: संज्ञां प्राप्नोति सा । महेशस्य गमनात् परं बहूनि वर्षाणि अतीतानि । पुरातन-स्मृतिततिस्तां विचालयति, पीडयति । शिशूनां कोमलमुखानि दृष्ट्वा सर्वं विस्मर्तुम् इच्छति सा । त एव तस्या विश्वासास्पदानि । तथापि रात्रावेकलशयनसमये मनसि आगच्छति तस्याः कालरात्रेः कथा । । तदा विवाहात् परं पञ्च वर्षाणि एवाऽतीतानि । वैवाहिकजीवने महेशस्तस्यै प्राददात् अशेषतृप्ति विशेषानन्दं च । पुरस्काररूपेण अयच्छत् अमूल्यरत्नद्वयम् - अंशुमन्तम् अनामिकां च । शिशुद्वयं पितेव सौम्यदर्शनम् । सुखेनाऽऽनन्देन च परिपूर्णे तस्याः परिवारे हठात् आविर्भूता श्यामली । श्यामली कार्यालये महेशस्य सहकर्मिणी । वर्षद्वयात् सम्पर्कः । तेन सम्पर्केण महेशो विस्मरति आत्मानं, स्वपरिवेशं, स्वीयां रूपवती पत्नीं ममताम् । अस्मिन् विषये इतस्ततो बहुवारं श्रुत्वा एकदा रात्रावन्ततः पृष्टवती महेशम्......। - यदहं शृणोमि, तत्सत्यं वा... ? - अपि त्वं श्यामलीविषये वदसि ? आम्, तया सह मम अतिनिविडसम्पर्कः वर्तते । - किं दम्पत्योः पवित्रसम्बन्धात् अपि ? पृष्टवती ममता । - आम्, तस्यै प्रतिश्रुतवान्, आवां विवाहपञ्जीकरणं करिष्यावः इति । परन्तु विवाहविच्छेदपत्रके भवत्या हस्ताक्षरात् परम् । सहसा गृहमध्ये अप्रत्याशितभावेन विस्फोरणम् अभवत् । एवं श्रोष्यति इति कदापि न कल्पितवती ममता । - त्वं निस्सर इतः, अस्मात् गृहात्, अस्मिन् मुहूर्ते । – तथा दोषम् अपि न करिष्यामि, यतो हि अत्र यथा तव अधिकारः तथा मम अपि । - तर्हि म्रियस्व अत्र एव, अहं निर्गच्छामि । तदा मध्येरात्रम् एव महेशः स्वीयद्रव्याणि धृत्वा निर्गतः, न कदापि प्रत्यागतः । १२०

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153