Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 124
________________ 5 | को मित्रधर्म: ? मुनिधर्मकीर्तिविजयः एकस्यां शालायां द्वौ विद्यार्थिनौ सहाध्यायिनौ आस्ताम् । तयोर्मध्ये बाढं मैत्र्यासीत् । गते काले तत्रैको जातश्चिन्तकः अन्यश्च राजप्रधानो जातः । एकदा प्रधानस्य पत्नी चिन्तकस्य गृहे आगतवती । तया पृष्टम् - भवान् कथं भवतो मित्रं मेलितुं गृहं नाऽऽगच्छति ? चिन्तक उवाच - साम्प्रतं तु बहवो जनास्तं मेलितुमागच्छन्ति । ततोऽहं यदि नाऽऽगच्छेयं तर्हि न काऽपि बाधाऽस्ति, अहं तु तदैवाऽऽगमिष्यामि यदा स निर्वाचने पराजितो भविष्यति । प्रधानपत्नी जगाद - कथमेवं भवान् वदति ? चिन्तकेन कथितं - तस्मिन् काले नमस्कारं कुर्वन्तः सर्वेऽपि विमुखा भविष्यन्ति, ततो मे सुहृद् हताशयाऽभिभूतो भविष्यति ! तदोत्साहस्यौषधम्, आश्वासनरूपं वेदनोपशामकं पट्टकं च गृहीत्वा मम मित्रस्य पीडां दूरीकर्तुमागमिष्यामि । सानन्दं प्रधानपत्नी आह - सत्यं, सत्यम् । मित्रस्य धर्मो न कोलाहलवर्धनम्, अपि तु अर्तिपीडाशमनमेव । ११९

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153