Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 122
________________ वेदार्थप्रतिपादने स सनातनी श्रुतिसूत्रपरम्परां पाश्चात्त्यपण्डितानां नवीनां वा पद्धतिमपि न गृह्णाति । एकमुदाहरणमत्र द्रष्टव्यं विद्वद्वर्यैः चिन्तानीयाऽस्ति व्याख्येयम् । 'ब्राह्मणोऽस्य मुखमासीद बाह संरक्षकः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥' (ऋ० १०।९०।१२, शु.प. ३११११, अथर्व० १९।६।६, तै० आ० ३।१३।५) इति मन्त्रस्य व्याख्याने तस्य नवीना सामाजिकी दृष्टिरित्थं विराजते - 'चिन्तकोऽस्य मुखं जातः, बाहू संरक्षकः कृतः । व्यापारी चोरूरूपोऽभूत्, सेवकश्चालके पदे ॥' (वे०, पु. पृ० ४३) एवमन्यत्राऽपि तस्य वैदिकानां शब्दानां नवा अर्था विराजन्ते । एते अर्थाः वेदं प्रति तस्याऽऽधुनिकी विचारधारां प्रस्तुवन्ति । अनेन वेदानामध्ययनस्याऽभिनवा वाञ्छा समुत्पाते । ग्रन्थस्य मुद्रणं यद्यपि भव्यतरं विद्यते, तथापि कानिचित् स्खलितानि व्यथयन्ति । तदयथा - अग्निसूक्ते (वे०, पृ. ५९) 'पूर्वेषां सदृषीणां या वन्दनीयाग्निदेवता । नवानामपि कन्याऽस्ति, सा देवानत्र चाऽऽनयेत् ॥' अत्र 'कन्या' इति पदं चिन्तनीयमस्ति । मम मतौ 'वन्द्या' इति पाठः स्यात् । ऋग्वेदे कथमपि 'अग्निदेवता' ऋषीणां कन्या भवितुं न शक्नोति । यस्य मन्त्रस्य रूपान्तरमत्र वर्तते, तस्यार्थे 'कन्या' इति पदस्याऽवकाशो नास्ति । (द्र० ऋ० १।१।२) 'अग्नि: पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत । स देवा इह वक्षति ।।) अस्य ग्रन्थस्य हिन्दीरूपान्तरं रम्यं वर्तते, किन्तु सन्दर्भेऽस्मिन् रूपान्तरकारेणाऽपि किमपि चिन्तनं न कृतम् । एवमन्यत्र मुद्रणत्रुटिश्चिन्त्येत । ग्रन्थान्तेऽनूदितं वैदिकं राष्ट्रगीतं नितरामभिनन्दनीयमस्ति, ग्रन्थकृतश्च प्रकृष्टां राष्ट्रभक्तिं प्राकाश्यं नयति । ग्रन्थोऽयं न केवलं संस्कृतज्ञानाम्, अपि तु समेषां राष्ट्रभक्तानां चिन्तकानां लोकहितनिरतानां च सङ्ग्राह्या सम्पत्तिरस्ति-वेदस्य गौरवस्य विज्ञानाय । यद्यत्र ते मन्त्रा अपि संकलिता भवेयुः, येषामर्थोऽत्र शोभते, तर्हि ग्रन्थस्याऽस्य विशिष्टो महिमा स्यात् । जयतु संस्कृतं संस्कृतिश्च । मनीकापूरा, सोरामः, प्रयागः, उ०प्र०, २१२५०२ ११७

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153