Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 120
________________ ग्रन्थसमीक्षा 'वेदमहत्त्वम्' (हिन्दी-अनुवादसहितम्) डा. रूपनारायणपाण्डेयः प्रणेता : डा. राजेन्द्रप्रसादपाण्डेयः अनुवादकः डॉ. उदयशङ्करझाः प्रकाशकः शारदासंस्कृतसंस्थान, सी २६/५९, जगतगञ्ज, वाराणसी, २२१००२ प्र. सं. - २००९ ख्रि०, २०६५ वि.सं., पृ. सं. २८+२०८, मूल्यम् - रू. ४००/ वैदिकधर्मस्य संस्कृतेः परम्परायाश्च सर्वस्वभूताः सन्ति वेदाः । वेदावबोधाय महर्षिभिर्वे वेदाङ्गानि, दर्शनानि, पुराणानि च विरचितानि । विविधं वेदाः स्कन्दस्वामि-उद्गीथ-वेङ्कटमाधवआनन्दतीर्थ-आत्मानन्द-सायण-उनट-महीधर-हलायुध-अनन्ताचार्य-भट्टभास्करमिश्र-माधव-भरतस्वामिनीलकण्ठचतुर्धर-दयानन्द-सातवलेकर-अरविन्द-करपात्रस्वामिप्रभृतिभिराचार्यैर्व्याख्याताः । वेदस्य चरमे भागे जगद्गुरुशङ्कराचार्य-रामानुजाचार्यादीनां भाष्याणि नितरां राजन्ते । पाश्चात्यपण्डितैः ओल्डेनबर्गविल्सन-राथ-ऐसेन-रोअर-ग्रासमान-कीथ-ग्रिफिथ-मैक्समूलर-लुडविग-वेबर-ईग्लिङ्ग-स्टेवेन्सनकालण्ड-गार्बे-ग्रास्ट्रा-एटल-मैकडानलप्रभृतिभिरपि वेदस्य तात्पर्य स्वकीयविचारधारया विचिन्तितम् । अद्याऽपि वेदार्थावबोधने विद्वांसः प्रयतन्ते । प्रयत्नेऽस्मिन् पद्यमयो वेदार्थः डा० राजेन्द्रप्रसादपाण्डेयेन 'वेदमहत्त्वम्' इति ग्रन्थे प्रास्तूयत । अस्मिन् ग्रन्थे - शान्तिपाठः, स्वस्तिपाठः, शिवसङ्कल्पसूक्तम्, पुरुषसूक्तम्, संज्ञानसूक्तम्, प्रजापतिसूक्तम्, विश्वेदेवासूक्तम्, वाक्सूक्तम्, पृथ्वीसूक्तम्, उषस्सूक्तम्, सूर्यसूक्तम्, अन्नसूक्तम्(क), श्रद्धासूक्तम्, नासदीयसूक्तम्, रुद्रशान्तिसूक्तम्, सर्वार्पणसूक्तम्, सुजीवनसूक्तम्, वीरसूक्तम्, सत्कर्मफलसूक्तम्, अक्षसूक्तम्, ईशावास्योपनिषद्, अभयसूक्तम्, प्रदूषणमुक्तिसूक्तम्, दीर्घायुष्यसूक्तम्, विश्वकर्मसूक्तम्, वृष्टिसूक्तम्, ब्रह्मौदनसूक्तम्, अन्नसूक्तम्(ख), वायुहस्तस्पर्शसूक्तम्, स्त्रीमहिमा, पत्नीप्रेम, रतिसूक्तम्, वृषभकृषीवलसूक्तम्, ११५

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153