Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तथा ते हृदयेनाऽपि तवाऽधीना भवन्ति । क्रूराः शत्रवश्च जना अपि प्रेम्णा वात्सल्येन चाऽधीना भवन्ति । तथाऽपि न जाने किमर्थं वयं कांश्चिदपि जनान् प्रेम्णा नाऽऽह्वातुं शक्नुमः, न च मधुरवाक्यानि वक्तुं शक्नुमः । निरन्तरं क्लेश-सन्ताप-कटुतादिरूपाग्निदाहेन वयं प्रज्वलामः ।।
बन्धो ! कोकिलस्य काकस्य च मध्ये को भेदः? द्वयोर्न कोऽपि किमप्यस्मभ्यं ददाति । तथाऽपि कोकिलोऽस्मद्भ्यो रोचते, काकस्त्वप्रियो भवति । अत्र कारणमेतदेव यत्, कोकिल: प्रियकरं वचनं वदति, काकः सदाऽप्रियमेव वक्ति । एवं प्रियवचनेन प्रेम्णा चाऽशक्यमपि शक्यं भवति । अद्यैवैकः प्रसङ्गः श्रुतो मया । सत्यघटनाऽस्त्येषा ।
उन्नतपुरे (उनानगरे) एको बालो वसति । स सर्वानपि मुखेन दशति । ततो गृहसभ्याः प्रातिवेश्मिकाश्चाऽतीव त्रस्ता जाताः । किं करणीयमिति मुह्यन्ति स्म ते । आङ्ग्लवैद्यचिकित्सा - शान्तिकपौष्टिककर्म-भूतप्रेतपिशाचादिशमनम् - इत्यादिका बहवः प्रयत्नास्तस्य शान्त्यर्थं कृताः, किन्तु ते सर्वेऽपि निष्फला जाताः । अन्ते पितृभ्यां गृहस्य बहिर्भागे एकस्मिन् कोणे स बालको लौहशृङ्खलया बद्धः । दूरत एव जलमन्नं च ददन्ति तस्मै । सोऽपि तत्रैव स्नानं मूत्रादिकं चाऽपि करोति । त्रस्ता गृहजनाः सर्वेऽपि तमुपेक्षन्ते स्म, न च प्रेम्णा वात्सल्येन चाऽऽह्वयन्ति स्म ।
एकः सेवारसिकः शिक्षक उन्नतपुरे वसितुमागतवान् । तेनैका लघुशाला प्रस्थापिता । तत्र मन्दबुद्धीन् बालकान् प्रेम्णा विविधयुक्त्या चाऽभ्यासं कारयति, विना मूल्यं चाऽऽहारादिकमपि कारयति । बालकः स्वबुद्ध्या भोजनं, वस्त्रपरिधानं, स्नानं, योग्यस्थाने च मूत्रादिकं कर्तुं यथा समर्थो भवेत् तथा तस्मै शिक्षणं दीयते तत्र ।
एतेन शिक्षकेन लौहशृङ्खलया बद्धस्य बालकस्य वार्ता श्रुता । स तस्य बालकस्य समीपं गन्तुमुत्कण्ठितो जातः । किन्तु ग्राम्यजनैहजनैश्च निषेधः कृतः । तथाऽपि दिनत्रयानन्तरं सर्वमप्यविगणय्य बालकस्य निकटं गतवान् स शिक्षकः । तत्रत्यैर्जनैः सोपहासमुक्तम् - एकोऽस्तु मन्दबुद्धिरासीदेव, अद्य द्वितीय आगतवान् । सोत्साहं समीपं गत्वा तस्य बालकस्य शिरसि प्रेम्णा शिक्षकेन तु हस्तः प्रसारितः, खादितुं 'बिस्कीट-चाक्लेट' इत्यादिकं दत्तम् । बालकस्त्वतीव प्रसन्नो जातः । तेन बालकेन न दष्टं, न चाऽऽराटिः कृता । शिक्षकेण सहाऽऽनन्देन व्यवहारः कृतः । ततो बालकस्य पितृभ्यामनुमतिं स्वीकृत्य स बालको लौहशृङ्खलया मोचितः । तदा स बालको दशक्षणं यावत्तं शिक्षकमानन्देनाऽऽलिङ्गितवान् । पश्चात् शिक्षकं प्रणम्य रोदितवान् । अन्ते शिक्षकस्तं बालकं स्वशालायामानीतवान् । अद्य प्रायो वर्षत्रयं व्यतीतम् । स बालकः स्वहस्तेन स्नाति भक्षयति च । अथ कदाचिदेव दशति । प्रायः शान्त एव सञ्जातोऽस्ति ।
स शिक्षकोऽस्मत्समीपमागत्योक्तवान् - गुरुवर ! एतादृशास्त्रिंशद् बालका अत्र वसन्ति । सर्वानप्येतदरीत्यैव पालयामि। कदाचित्ते बालकाः क्रोधेन वस्तूनि त्रोटयन्ति, जनान् त्रासयन्ति चाऽपि,
११३

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153