Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वैश्विकसंस्कृत-साहित्यक्षेत्रेऽपि वैयाकरणतया कोशकारतया काव्यशास्त्रप्रणेतृतया छन्दःशास्त्रकारतया
च तेषां विशिष्टं स्थानमस्ति । (-एम्. विन्टरनित्झ्, जर्मनविद्वान्) १४. शब्दविज्ञानक्षेत्रे हेमचन्द्राचार्याणां प्रदानमतिविशालं विस्मयप्रेरकं च । तेषां पाण्डित्यं ह्यगाधमप्रतिरूपं
चाऽस्ति, तथा विद्वज्जनानां कृतेऽद्यावधि ते कलिकालसर्वज्ञाः - कलियुगे सर्वस्याऽपि ज्ञेयस्य ज्ञातारः - सन्ति, यच्च विशेषणं ते सर्वथाऽर्हन्ति । मध्यकालीनभारते तेषां परिमाणं धारयन्तो
विद्वांसो प्रायो न सन्ति । (-एस्. सेनगुप्ता, महावैयाकरणः) १५. नमोऽस्तु हेमचन्द्राय, विशदा यस्य धीप्रभा । विकासयति सर्वाणि, शास्त्राणि कुमुदानीव ॥
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यान् पाश्चात्या विद्वांसो ज्ञानमहार्णवः (Ocean of knowledge) इति सादरं वर्णयन्ति, तथैव तेषां कृते अतिशायिप्रज्ञः (Intellectual Giant) इति विशेषणं प्रयुञ्जन्ति । तेषां प्रतिभायाः प्रभा न केवलं धर्माध्यात्मक्षेत्रेषु अपि तु साहित्य-भाषा-तर्कादिक्षेत्रेष्वपि समानतया विस्तीर्णाऽस्ति । तेषां व्यक्तित्वे समकालमेव वैयाकरणस्य, आलङ्कारिकस्य, साहित्यकारस्य, दार्शनिकस्येतिहासकारस्य, पुराणकारस्य, कोशकारस्य, छन्दोनुशासकस्य, धर्मोपदेशकस्य, महतो युगकवेश्च समन्वयो दृश्यते । तेषां व्यक्तित्वं सार्वकालिकं सर्वदेशिकं विश्वजनीनं चाऽस्ति सहैव तेषां कार्याणि सम्प्रदायातीतानि सार्वजनीनानि च । अत एव तेऽन्येभ्य आचार्येभ्यो विद्वद्भयः कविभ्यश्चाऽत्यधिकं श्रद्धा-सम्मानाधिकारिणः । तेषां जीवने प्रतिपदं विविधता, सर्वदेशीयता, पूर्णता, सत्यं, समन्वयिता च दृश्यते । ते हि निर्भया, राजनीति-विचक्षणा, गुरुसेविनो, वादिमानमर्दकाः, सत्योपासकाः, संस्कृतिपोषका, देशोद्धारकाश्चाऽऽसन् । एवं सत्यपि कस्मिंश्चिदपि जागतिकपदार्थे तेषां मोहो ममत्वं वा नाऽऽसीत् ।
समग्रेऽपि भारतवर्षस्येतिहासे यदि परं सर्वथाऽपि मद्य-मांसयोनिषेधो हि राज्ञः कुमारपालस्य काले एव जातः । तस्य च सम्पूर्ण श्रेयो निःसन्देहतया हेमचन्द्राचार्याणामेव । सिद्धराजजयसिंहकुमारपालश्चेत्युभयोर्नुपयोः सत्ताकाले विराजमानानां तेषां युगो हैमयुगः इति नाम्नेतिहासस्य सुवर्णपृष्ठेष्वङ्कितोऽस्ति ।
(-वि.भा.मुसलगांवकरः, दार्शनिको महाविद्वान्) १६. हेमचन्द्राचार्या नामाऽद्वितीयाः साहित्यस्रष्टारोऽनुपमयुगद्रष्टारः, समर्थाश्च धर्माचार्याः, हेमचन्द्राचार्या
नाम सर्वतोमुखपरिणतप्रज्ञा, साङ्गोपाङ्गं सम्पूर्णमध्ययनं, स-रसा सर्वोत्कृष्टसर्जकता, तथा हेमचन्द्राचार्या नाम ज्ञानमहार्णवः, जङ्गमो ज्ञानकोशः, विद्याम्भोधिमन्थनमन्दरगिरिः । कियद् वा कथयामः ?
तत्सदृशस्य महोर्जस्विनः सुपुत्रस्य कृते गूर्जरदेशो देशवासिनश्च यावन्तं गर्वं गौरवं च वहेयुस्तावन्तमल्पमेव ।
कलिकालसर्वज्ञानां तेषां कुशाग्रप्रज्ञाया अगोचरा न काऽपि विद्याशाखा । सर्वग्राहिण्या
९९

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153