Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 115
________________ राजा श्रुत्वाऽऽह तत् सत्यं वक्ति जैनषिरेष यत् । अत्र ब्रूतोत्तरं तथ्यं यद्यस्ति भवतां मते ॥२७।। अत्र कार्ये हि युष्माभिरेकं तथ्यं वचो ननु । अजल्पि यद विचार्यैव कार्यं कार्य क्षमाभृता ॥२८॥ उत्तरानुदयात् तत्र मौनमाशिश्रियंस्तदा । स्वभावो जगतो नैव हेतुः कश्चिन्निरर्थकः ॥२९।। राज्ञा सत्कृत्य सूरिश्चाऽभाष्यत स्वागमोदितम् । व्याख्यानं कुर्वतां सम्यग् दूषणं नास्ति वोऽण्वपि ॥३०॥ (श्रीप्रभाचन्द्रसूरिविरचिते प्रभावकचरिते हेमचन्द्राचार्यचरित्रे श्लो. १४१-१६९, १७१) चारिसञ्जीवनीचारदृष्टान्तम् पुरा कश्चिद् व्यवहारी पूर्वपरिणीतां पत्नीं परित्यज्य (नूतनां परिणीय) संग्रहणीसात्कृतसर्वस्वः सदैव (आस्ते । तदा) पूर्वपत्न्या पतिवशीकरणाय तद्वेदिभ्यः कार्मणकर्मणि पृच्छ्यमाने कश्चिद् गौडदेशीयो 'रश्मिनियन्त्रितं तव पति करोमी'त्युक्त्वा किञ्चिदचिन्त्यवीर्यं भेषजमुपनीय 'भोजनान्तर्देय'मिति भाषमाणः स गतः । कियद्दिनान्ते समागते क्षयाहनि तस्मिंस्तथाकृते स प्रत्यक्षां वृषभतां प्राप । सा च तत्प्रतीकारमनवबुध्यमाना विश्वविश्वाक्रोशान् सहमाना निजं दुश्चरितं शोचन्ती कदाचिन्मध्यन्दिने दिनेश्वरकठोरतरनिकरप्रसरतप्यमानाऽपि शाड्वलभूमिषु तं पतिं वृषभरूपं चारयन्ती, कस्याऽपि तरोर्मूले विश्रान्ता निर्भर विलपन्ती, आलापं नभस्यकस्माच्छुश्राव । तदा तत्राऽऽगतो विमानाधिरूढः पशुपतिर्भवान्या तदुःखकारणं पृष्टो यथावस्थितं निवेद्य तस्यैव तरोश्छायायां पुंस्त्वनिबन्धनमौषधं तन्निर्बन्धादादिश्य तिरोदधे । सा तदनु तदीयां छायां रेखाङ्कितां निर्माय तन्मध्यवर्तिन औषधाङ्करानुच्छेद्य वृषभवदने क्षिपन्ती, तेनाऽप्यज्ञातस्वरूपेणौवधाङ्करेण वदनन्यस्तेन स वृषभो मनुष्यतां प्राप । ___ यथा तदज्ञातस्वरूपोऽपि भेषजाङ्करः समीहितकार्यसिद्धिं चकार तथा कलियुगे मोहात् सम्यगपरिज्ञानेऽपि सर्वदर्शनाराधनेनाऽविदितस्वरूपोऽपि धर्मो मुक्तिप्रदो भवतीति निर्णयः । (प्रबन्धचिन्तामणिः) ११०

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153