Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 108
________________ काव्यकालसर्वज्ञस्य योगसिद्धिः मुनिविश्रुतयशविजयो गणिः अनेकेषु विषयेषु लब्धप्रतिष्ठस्य कलिकालसर्वज्ञस्य कस्मिन् विषये सिद्धिर्नासीद् ? तेषां योगसिद्धेः प्रावीण्यं तु वायामगोयरम् । योगिकुले जातत्वाद् आजन्मत एव ते योगसिद्धाः आसन् । एतत्समर्थनाय कतिपयोदाहरणानि दीयन्ते । ___ एकदा बहुदिनेषु गतेष्वपि यदा कुमारपालः सूरिवर्याणां पार्वे नाऽऽगतस्तदा तैः श्राद्धाः पृष्टाः - 'किं कारणेन राजा न दृश्यते?' । तदा श्रावकवर्गः सर्वं विज्ञाय कथितं यदधुना राजा अन्यस्य कस्याऽपि योगसिद्धस्य पार्वे गच्छति । तदा आचार्यवर्यानुरोधात् श्राद्धैः प्रवचने राजा आमन्त्रितः । आचार्यवर्याः सप्तपट्टकानामुपरिष्टात् पट्टकोपरि व्याख्यानार्थमुपविष्टाः । श्रावकैः पूर्वनिर्देशानुसारं क्रमश एकैकं कृत्वा सप्ताऽपि पट्टकानि निसारितानि । आचार्यवर्यास्तु निरालम्बमाकाश एव स्थित्वा व्याख्यानं ददति स्म । कुमारपालोऽत्यन्तमाश्चर्यचकितो बभूव । 'कीदृशी योगसिद्धिः कलिकालसर्वज्ञस्य' इति चिन्तयन् विस्मितो जातः । एकदा ते राज्ञा पृष्टा- 'अद्य का तिथि: ?' अन्यमनस्कतया गुरुवर्यैरमावस्यायाः स्थाने पूर्णिमा इति प्रोक्तम् । पश्चाद् स्वीयस्खलनं विज्ञातम् । किन्तु समग्रसभाजनेषु 'अद्य पूर्णिमा इति जैनाचार्याः कथयन्ती'ति वार्ता प्रसृता । अत आचार्यवर्यैः स्वयोगशक्त्याऽऽकाशे पूर्णचन्द्रो दर्शितः । द्वादश गव्यूतान् यावत् सर्वत्र राज्ञा जनाः प्रेषिताः । सर्वत्र चन्द्रो दृष्टः, सर्वे च सभासदो विस्मिता बभूवुः । आचार्यैस्तु पश्चात् सङ्घसमक्षं स्वस्खलनां प्रकटीकृत्य 'केवलं जैनशासनस्याऽवर्णवादं रो« मयैतत् कृतम्' इत्युक्त्वा प्रायश्चितं याचितम् । अनया रीत्या योगस्य सिद्धयः कलिकालसर्वज्ञस्य जीवने अनेका दृश्यन्ते । १०३

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153