Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 81
________________ ते तु सर्वथा समत्ववन्तः स्थितप्रज्ञा विरागिनो ज्ञानिनश्चाऽऽसन्, ततश्च तेषां जीवने तादृश्येकाऽपि प्रवृत्तिर्न विलोक्यते यया स्वल्पमपि चित्तदौर्बल्यं प्रकटीभवेत् । तेषां जीवनसार्थक्यं त्वेकमेवाऽऽसीत् - स्वपरौन्नत्यम् । तीर्थकराणामुपदेशमनुसृत्य स्वयं परे च जना स्वजीवनमुन्नतं कुर्युस्तेन च तीर्थकरमार्ग तीर्थकरशासनं च प्रोज्ज्वलं कुर्युरित्येव तेषां हार्दोऽभिलाष आसीत् । एतादशेनाऽऽन्तरगणवैभवेन कबेरायमाणानां तेषां बाह्यः शारीरवैभवोऽपि प्रशस्तो योगसाधनया तपसस्तेजसा च देदीप्यमान आबाल-वृद्धानां च सर्वेषामाकर्षणकारणमासीत् । अत्राऽर्थे च तेषामेव समकालीनाः श्रीसोमप्रभाचार्यास्तान् यथादृष्टं यद् वर्णयन्ति तदेव पर्याप्तम् - *तुलियतवणिज्जकंती सयवत्तसवत्तनयणरमणिज्जा । पल्लवियलोयलोयण-हरिसप्पसरा सरीरसिरी ॥१॥ आबालत्तणओ वि हु, चारित्तं जणियजणचमक्कारं । बावीसपरिसहसहण-दुद्धरं तिव्वतवप्पवरं ॥२॥ मुणियविसमत्थसत्था निम्मियवायरणपमुहगंथगणा । परवाई पराजयजायकित्ती मई जयपसिद्धा ॥३॥ धम्मपडिवत्तिजणणं अतुच्छमिच्छत्तमुच्छिआणं पि । महु-खीरपमुहमहुरत्तनिम्मियं धम्मवागरणं ॥४॥ इच्चाइगुणोहं हेमसूरिणो पेच्छिऊण छेयजणो । सद्दहइ अदिढे वि हु तित्थंकरगणहरप्पमुहे ॥५।। इत्यादि । ततश्च ये जनाः सर्वथा नास्तिकतया तीर्थकर-गणधरादिमहापुरुषाणामस्तित्वमासीत् पुरा - इति न मन्यन्ते स्म तेऽपि हेमचन्द्राचार्याणां भव्यव्यक्तित्वस्य दर्शनं कृत्वा सर्वथाऽऽस्तिका भवन्ति स्म - 'अस्मिन् कलिकालेऽपीदृशा महापुरुषा यदि विद्यन्ते तर्हि पूर्वं तीर्थकर-गणधरादयो महापुरुषा अवश्यं सञ्जाता एवे'ति श्रद्दधति स्म च ।। अथाऽत्र जगति जातानां केषाञ्चिज्जन्म भव्यं भवति, श्रेष्ठतया जीवितानां केषाञ्चिज्जीवनमपि भव्यं भवति, सहजतया च सर्वमपि त्यक्त्वा परलोकं सञ्चरतां केषाञ्चिन्मृत्युरपि महोत्सवायते । किन्तु त्रयेऽपि जन्म-जीवन-मृत्यवः केषाञ्चिद् विरलानामेव भव्या भवन्ति । हेमचन्द्राचार्या ह्येतेषां विरलानामन्यतमा आसन् । उत्तमतया जन्म गृहीत्वा स्वपरकल्याण एव च जीवन व्यतीत्य चतुरशीतिवर्षायुष्काणां तेषां स्वर्गमनकालः सन्निहित आसीत् । तैर्हि पूर्वमेव स्वमरणसमय: शिष्याणां कुमारपालस्य च कथित * तुलिततपनीयकान्तिः, शतपत्रसपत्ननयनरमणीया । पल्लवितलोकलोचन-हर्षप्रसरा शरीरश्रीः ॥१॥ आबालत्वतोऽपि खलु, चारित्रं जनितजनचमत्कारम् । द्वाविंशतिपरीषहसहनदुर्धरं तीव्रतपःप्रवरम् ॥२॥ ज्ञातविषमार्थसार्था, निर्मितव्याकरणप्रमुखग्रन्थगणा । परवादिपराजयजातकीर्तिः मतिर्जगत्प्रसिद्धा ॥३॥ धर्मप्रतिपत्तिजननमतुच्छमिथ्यात्वमूच्छितानामपि । मधु-क्षीरप्रमुखमधुरत्वनिर्मितं धर्मव्याकरणम् ॥४॥ इत्यादिगुणौघं हेमसूरेः प्रेक्ष्य छेकजनः । श्रद्धधाति अदृष्टानपि खलु तीर्थकर-गणधरप्रमुखान् ॥५।। (कुमारपालप्रतिबोध:) ७६

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153