Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
- ऋते रामान्नाऽन्यः किमुत परकोटौ घटयितुं
रसान्नाट्यप्राणान् पटुरिति वितर्को मनसि मे ।। (नलविलासे) - प्रबन्धा इक्षुवत् प्रायो, हीयमानरसाः क्रमात् ।
कृतिस्तु रामचन्द्रस्य, सर्वा स्वादुः पुरः पुरः ॥ (कौमुदीमित्राणन्दे)
स्वातन्त्र्यप्रियताऽपि तस्य विशिष्टमप्रतिमं च लक्षणम् । एतदर्थं तेन प्रदर्शिता उद्दामभावना अद्याऽपि प्रस्तुता एव । स्वीयकृतिष्वपि तेन यथासम्भवं स्वातन्त्र्यं मौलिकत्वं च प्रकटितमस्ति । कानिचिदुदाहरणानि पश्यामः
स्वतन्त्रो देव ! भूयासं, सारमेयोऽपि वर्त्मनि ।
मा स्म भुवं परायत्तस्त्रिलोकस्याऽपि नायकः ॥ - सूक्तयो रामचन्द्रस्य, वसन्तः कलगीतयः ।।
स्वातन्त्र्यमिष्टयोगश्च, पञ्चैते हर्षवृष्टयः ॥ (सत्यहरिश्चन्द्रनाटके) - स्वातन्त्र्यं यदि जीवितावधि, मुधा स्वर्भूर्भुवो वैभवम् ॥ (नलविलासे, २-२) - न स्वतन्त्रो व्यथां वेत्ति, परतन्त्रस्य देहिनः ॥ (नलविलासे ६-७) - अजातगणनाः समाः परमतः स्वतन्त्रो भव ॥ (नलविलासे प्रान्ते) - प्राप्य स्वातन्त्र्यलक्ष्मीमनुभवतु मुदं शाश्वती भीमसेनः ॥ (निर्भयभीमव्यायोगे)
एतादृशविलक्षणप्रतिभावतोऽस्य कवेर्मरणं स्वगुरुभ्रातुर्बालचन्द्रस्येjया कुमारपालान्वये जातस्याऽजयपालनृपस्य द्वेषाद् बभूव । २. मुनिगुणचन्द्रः
अनेन विदुषाऽऽचार्यरामचन्द्रसूरिणा सह नाट्यदर्पणं द्रव्यालङ्कारश्चेति ग्रन्थद्वयं सवृत्तिकं विरचितम् । तथा स्वस्याऽन्याभ्यां गुरुभ्रातृभ्यामाचार्यमहेन्द्रसरि-वर्धमानगणिभ्यां सहाऽऽचार्यसोमप्रभसूरिविरचितः कुमारपालप्रतिबोधग्रन्थः साद्यन्तः श्रुतः संशोधितश्च । ३. आचार्यमहेन्द्रसूरिः
अनेन विदुषा स्वगुरुरचिताऽनेकार्थसङ्ग्रहोपरि अनेकार्थकैरवाकरकौमुदी नाम टीका वैक्रमे १२४१तमे संवति लिखिताऽस्ति । ४. वर्धमानगणिः
कुमारविहारप्रशस्तेर्व्याख्यां निर्मायाऽनेन विदुषा तस्या एकस्य पद्यस्य षोडशाधिकशतमर्थान् लिखित्वा स्वीयमद्भुतं पाण्डित्यं प्रकटितमस्ति । यद् वदति स्वयमेव सः - "श्रीहेमचन्द्रसूरिशिष्येण वर्धमानगणिना कुमारविहारप्रशस्तौ काव्येऽमुष्मिन् पूर्वं षडर्थे कृतेऽपि कौतुकात् षोडशोत्तरं व्याख्यानं चक्रे ॥"

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153