Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
श्रीहेमचन्दाचार्याणां शिष्यवृन्दम्
मुनिकल्याणकीर्तिविजयः
श्रीहेमचन्द्राचार्यसदृशानां महापुरूषाणां परिकरे येषा नितरां ज्ञानपिपासा स्यात् तादृशा विद्याप्रियाः शिष्या एव सम्मीलिता भवेयुरिति तु सहजमेव । तेषां शिष्या प्रायः सर्वेऽपि प्रशस्ता विद्वांसः साहित्यकाराश्चाऽऽसन् - इति इतिहासो वदति । तत्राऽपि तेषां मुख्यशिष्य आचार्यरामचन्द्रसूरिरासीत् । तादात्विक-विद्वत्सु च तस्य स्थानं स्वगुरूणामनन्तरमेवाऽऽसीत् । एनमतिरिच्याऽन्येऽपि गुणचन्द्रः, महेन्द्रसूरिः, वर्धमानगणिः, देवचन्द्रः, उदयचन्द्रः, यशश्चन्द्रः, बालचन्द्रः - इत्याद्यास्तेषां शिष्या आसन् । ते सर्वेऽपि विद्वांसो यथाशक्ति साहित्यरचयितारश्चाऽऽसन् । हेमचन्द्राचार्याणामनन्यसाधारणपाण्डित्यस्य छाया तेषु सर्वेषु दृश्यते स्म ।
अथ सर्वेषामपि तेषां परिचयं प्राप्नुमः १. महाकविरामचन्द्रसूरिः
बाल्ये एव दीक्षां गृहीत्वा हेमचन्द्राचार्याणां शिष्यत्वमङ्गीकुर्वाणस्य चारणज्ञातीयस्याऽस्य जन्मस्थान-मातापित्रादि न किमपि ज्ञायते । हेमचन्द्राचार्याणां मुख्यशिष्य एष एवाऽऽसीत् । बाल्यादेव तस्य काव्यशक्तिरनुपमा प्रतिभा चाऽसाधारण्यासीत् । एकदा सिद्धराजजयसिंहेन गुरुभ्यः पृष्टं - 'प्रभो ! को भवतां विद्वान् गुणी च शिष्यः ?' गुरुभिः स्मित्वा 'रामचन्द्र' इति कथिते राजा तत्परीक्षार्थं - 'केनाऽतिवृद्धं दिनम् ?' इति सहसा तं पृष्टवान् । तदात्वे च निदाघसमय आसीत् । रामचन्द्रेणाऽपि तत्क्षणमेव कथितं -
देव ! श्रीगिरिदुर्गमल्ल ! भवतो दिग्जैत्रयात्रोत्सवे धावद्धीरतुरङ्गनिष्ठुरखुरक्षुण्णक्षमामण्डलात् । वातोद्भूतरजोमिलत्सुरसरित्सञ्जातपङ्कस्थली
दूर्वाचुम्बनचञ्चुरा रविहयास्तेनाऽतिवृद्धं दिनम् ॥ श्रुत्वैतदतीव प्रसन्नेन राज्ञा तस्य कविकटारमल्लः - इति बिरुदं प्रदत्तम् ।
हेमचन्द्राचार्याणां स्वर्गमनाज्जातः कमारपालस्य शोकस्तेनैवोपशमित आसीत् । कुमारपालस्य मुख्य आस्थानकविरपि स एवाऽऽसीदिति सम्भाव्यते ।
____ तेन रघुविलासः, नलविलासः, यदुविलासः, सत्यहरिश्चन्द्रः, निर्भयभीमव्यायोगः, मल्लिका-मकरन्दप्रकरणं, राघवाभ्युदयं, रोहिणीमृगाङ्कप्रकरणं, वनमालानाटिका, कौमुदी
८०

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153