Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 94
________________ सहाऽत्र सर्वत्र जैनदर्शनमपि व्याप्तमस्ति । विंशतिप्रकाशमयेऽस्मिन् भक्तिस्तवे शान्तरसो निरालम्बं प्रवहति, आनन्दः सर्वत्रोज्जागरोऽस्ति, स्वीयाराध्यतत्त्वे च लयप्राप्तेः प्रवृत्तिरपि सहजाऽस्ति । महाराजकुमारपालस्यैवकृते विनिर्मितमिदं भक्तिकाव्यं हेमचन्द्राचार्याणां श्रेष्ठसर्जकत्वं द्योतयति । ११. अन्ययोगव्यवच्छेदद्वात्रिंशिका केवलं द्वात्रिंशवृत्तमयेऽस्मिन् वर्धमानजिनस्तुतिरूपे काव्यग्रन्थे हेमचन्द्राचार्य: सर्वेषामपि दर्शनानां सिद्धान्तान् विषयीकृत्य विशदा चर्चा कृताऽस्ति । चिन्तनस्य भक्तेश्चाऽत्यन्तं सुन्दरः समन्वयोऽत्र काव्येऽस्ति यदेष ग्रन्थो दार्शनिकदृष्ट्या काव्यकलादृष्ट्या चेत्युभयथाऽप्यत्यन्तमुत्कृष्टोऽस्ति । अस्मिन् ग्रन्थे आचार्यश्रीमल्लिषेणसूरिभिरत्यन्तं प्रासादिक-रोचक-शैल्या सरसया च भाषया स्याद्वादमञ्जरीनाम वृत्तिविरचिताऽस्ति । १२. अयोगव्यवच्छेदद्वात्रिंशिका वर्धमानजिनस्तुतिरूप एवाऽयमपि काव्यग्रन्थः केवलं द्वात्रिंशद्वत्तमय एवाऽस्ति । अत्र च जैनदर्शनस्य तत्सिद्धान्तानां च महत्त्वं प्रस्थापितमस्ति । अयमपि ग्रन्थो दार्शनिकदृष्ट्या काव्यत्वदृष्ट्या चोत्कृष्ट एवाऽस्ति । १३. महादेवस्तोत्रम् हेमचन्द्राचार्याणामुदात्तसमन्वयभावनाया उत्कृष्टं फलमस्त्येतन्महादेवस्तोत्रम् । चतुश्चत्वारिंशद्वृत्तमयेऽस्मिन् स्तोत्रेः तैर्विविधान् दृष्टिकोणानुपयुज्य महादेवस्य स्तुतिर्विहिताऽस्ति । (अस्य स्तोत्रस्य विशेषपरिचयस्त्वस्मिन्नेव ग्रन्थेऽन्यत्र प्रदत्तोऽस्ति ।) अथाऽऽचार्याणां मुख्यसाहित्यसृष्टेः परिचयोऽत्र प्रदत्तोऽस्ति । अन्येऽपि तेषां वेदाङ्कशादयो ग्रन्थाः सन्ति, किन्तु विस्तरभयादत्र नाऽत्र परिचायिताः ।। विद्वांसो हि महाभारतकारान् व्यासमहर्षीन् तेषां विशालग्रन्थरचनदृष्ट्या सर्वश्रेष्ठग्रन्थकारतया मन्यन्ते, तेषां च सर्वग्राहित्वं दर्शयितुं 'व्यासोच्छिष्टं जगत् सर्वम्' इति समुद्घोषयन्ति । एवमेवाऽत्राऽऽचार्याणां विशालकायं विपुलग्रन्थसमूहं दृष्ट्वा यदि “हेमोच्छिष्टं तु साहित्यम्" इति कथयेम तदा नाऽत्युक्तिः । तेषां साहित्यस्य वास्तविकं मूल्यं विविधता सर्वदेशीयता च स्तः । तैहि न काऽपि विद्याशाखोपेक्षिता प्रत्युत विशिष्टतया सेवितैव । तेषां प्रतिभा सार्वत्रिकी, अध्ययनं परिपूर्णं, विषयसंशोधनं च सर्वावयवि वर्तते । तेषां सङ्ग्राहकताऽप्यनन्यसाधारणाऽनुपमेया चाऽस्ति । तेषां साहित्ये तत्तद्विषसम्बन्धिनां तत्कालज्ञातानां च प्रायः सर्वेषामपि ग्रन्थानामुद्धरणानि सन्ति । अस्मिन् क्षेत्रे तेषां प्रतिस्पर्धी न कोऽप्यस्ति । अथैवं सत्यपि तेषां मौलिकताऽक्षुण्णैव वर्तत इति तु महाश्चर्यजनकम् । अस्तु ॥ सदा हृदि वहेम श्रीहेमसूरेः सरस्वतीम् । सुवत्या शब्दरत्नानि ताम्रपर्णी जिता यया ।। (कीर्तिकौमुद्यां महाकविः सोमेश्वरभट्टः)

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153