Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
यदुक्तं तैरेव स्वविरचित - प्रमाणमीमांसाग्रन्थस्य टीकाया आरम्भे " अनादय एवैता विद्याः सङ्क्षेपविस्तार- विवक्षया नवनवीभवन्ति, तत्तत्कर्तृकाश्चोच्यन्ते ।"
एतन्मतेन यदि हेमचन्द्राचार्यविरचितग्रन्थानामेव परीक्षणं क्रियेत तदा तेषां मौलिकत्वमपूर्वत्वं चाऽक्षुण्णमेव सर्वथा । ततश्चाऽऽचार्याणां प्रतिभा साहित्यसर्जकत्वं चाऽप्यक्षुण्णमेव ।
अस्तु, प्रकृतं प्रस्तुमः । अत्रैकैकशस्तेषां ग्रन्थानां परिचयः प्रदत्तोऽस्ति ।
१. सिद्धहेमशब्दानुशासनम् (सिद्धहेमव्याकरणम् ) हेमचन्द्राचार्येभ्यः पूर्वं वर्तमानेषु व्याकरणेषु विस्तारः, काठिन्यं, क्रमभङ्ग आनुवृत्तिबाहुल्यं चेत्यादयो दोषाः सन्ति । तन्निवारणार्थं ह्याचार्यैः स्वपूर्ववर्तिव्याकरणानां सम्यग्ध्ययनं कृतम् । ततश्चैकं सर्वाङ्गपरिपूर्णमुपयोगि निर्दोषं च व्याकरणं विरचितम् । तदभिधानं च नृपस्य सिद्धराजजयसिंहस्य स्वस्य च नाम्नोऽर्धं भागं गृहीत्वा सिद्धहेमशब्दानुशासनमिति कृतम् । अत्र व्याकरणे तैः पूर्ववर्तिव्याकरणानां बहूनि सूत्राण्युदाहरणानि च यथातथमेवाऽत्र गृहीतानि सन्ति, किन्त्वेतावताऽपि तेषां निबन्धनक्रमवैशिष्ट्यं सर्वथा मौलिकमपूर्वं च । तथा बहुत्र तैः सूत्राणां भावमवगम्य ततो नूतनान्येव सूत्राणि विरचितानि । किन्तु सर्वाण्यपि सूत्राणि सुव्यवस्थितानि सुसम्बद्धानि च । तथा सूत्राणां प्रणयनमप्यावश्यकतानुरूपं कृतमस्ति । एकमपि सूत्रं तादृशं नास्ति यस्य कार्यमन्येन सूत्रेण क्रियेत । एवं च तेषां मौलिकता प्रतिभासम्पन्नता च सर्वथाऽक्षुण्णा वर्तते ।
-
किञ्च, पाणिनीयाऽष्टाध्यायी ह्यतीव विस्तृता दुर्बोधा च । तथा सा प्रक्रियानुसारिण्यपि नास्ति । इतरपक्षे कातन्त्रं व्याकरणं यद्यपि प्रक्रियानुसारि तथाऽपि परिपूर्णं नास्ति । अतो हेमचन्द्राचार्यैः कातन्त्रस्य प्रक्रियानुसारिणी परम्परा पुनरुज्जीविता, तथा पाणिनीयव्याकरणापेक्षया लघु स्पष्टं च, कातन्त्रापेक्षया च सर्वाङ्गपरिपूर्णं व्याकरणं विरचय्य व्याकरणक्षेत्रे नूतनस्य हेमसम्प्रदायस्य निर्माणं कृतम् । व्याकरणस्य साधारणबोधवानपि विद्यार्थी तेषां व्याकरणं सरलतया हृदयङ्गमं कर्तुं शक्नोति, संस्कृतभाषायाश्चसमस्तशब्दानामनुशासने पारङ्गतो भवति ।
अनेन परवर्तिनो वैयाकरणास्तथा प्रभाविता जाता यथा पाणिनीयवैयाकरणा अपि अष्टाध्याय्या अध्ययनमध्यापनं च प्रक्रियानुसारेणैव कर्तुमारब्धाः । षोडशशताब्द्या अनन्तरं (भट्टोजीदीक्षितेन सिद्धान्तकौमुदीप्रणयनानन्तरं) तु सर्वत्राऽपि प्रक्रियानुसारेणैव पाणिनीयव्याकरणस्य पठन-पाठनं भवति । सूत्रपाठक्रमानुसार्यध्ययनादि तु प्रायश उच्छिन्नमेव ।
आचार्यैर्हि व्याकरणेन सहैव तस्य लघुवृत्तिर्बृहद्वृत्तिर्बृहन्यासश्च विरचिताः । तथा उणादिसूत्राणि तद्विवरणं, धातुपाठो, धातुपारायणं तद्विवरणं, व्याकरणगतोदाहरणानां सिद्ध्यर्थं च द्वयाश्रयं महाकाव्यं चेति सर्वाण्यपि तदङ्गानि स्वयमेव विरचय्य पाणिनेः पतञ्जलेर्भट्टोजीदीक्षितस्य भट्टेश्च कार्याणि एकलेनैव कृतानि ।
अथ च पाणिनिमनुसृत्य हेमचन्द्राचार्यैरपि स्वीयव्याकरणमष्टस्वध्यायेषु विभक्तमस्ति । तत्र
८५

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153