Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मित्राणन्दं, यादवाभ्युदयं चेति एकादश नाटकानि विरचितानि; सुधाकलश: इतिनाम्ना च सुभाषितकोशो विरचितोऽस्ति । स्वगुरुभ्रात्रा गुणचन्द्रेण सह तेन नाट्यदर्पणं नामा नाट्यशास्त्रग्रन्थोऽपि विरचितोऽस्ति तथा द्रव्यालङ्कारनामा तर्कशास्त्रग्रन्थोऽपि रचितः । ग्रन्थद्वयमपि स्वचितवृत्त्यलङ्कृतमेव राजते । एतदतिरिच्य तेन सिद्धहेमव्याकरणस्य बृहद्वत्तेासोऽपि विरचितोऽस्ति । तथाऽन्यान्यपि कुमारविहार-शतकम्, उदयनविहारप्रशस्तिः, ऋषभद्वात्रिंशिका-प्रभृतीनि काव्यानि च विरचितानि सन्ति । तत्समकालीनानां सर्वेषामपि विदुषां साहित्यतोऽस्य साहित्यप्रवृत्तिरधिकाऽस्ति, विशाला विविधाऽपि चाऽस्ति । गूर्जरदेशस्य विद्वद्भिः प्रायो द्वाविंशतिर्नाटकानि विरचितानि, किन्तु तेषामेकादश नाटकानि श्रीरामचन्द्रसूरिणा रचितानि । गूर्जरदेशस्य भारतस्य च संस्कृतसाहित्यक्षेत्रे तस्य प्रदानं वैविध्यपूर्ण श्रेष्ठगुणवत्तायुत्तं चाऽस्ति । तद्विरचितस्य सत्यहरिश्चन्द्रनाटकस्य इटलीदेशीयभाषायां रूपान्तरमपि सञ्जातम् (ई. सं. १९१३) ।
एवं सत्यपि तस्य मुख्यप्रदानं तु नाट्यशास्त्रे एवाऽस्ति । यतो नाट्यशास्त्रस्य ग्रन्था एव अत्यल्पाः सन्ति । तेषां च रामचन्द्रसूरेर्नाट्यदर्पणं वैशिष्ट्ययुतमस्ति । विविधविषयकान्युदाहरणानि प्रस्तोतुं तेन चतुश्चत्वारिंशतो नाटकेभ्योऽवतरणानि सन्दृब्धानि । तदुल्लिखितनाटकानां कानिचन त्वद्याऽप्राप्याणि । यथा विशाखदत्तरचितं देवीचन्द्रगुप्तनाटकं न प्राप्यतेऽद्य । किन्तु तस्य बहून्यवतरणानि नाट्यदर्पणे विद्यन्ते । तैश्च मौर्यकालीनेतिहासस्य बहूनि तथ्यानि प्रकटीभवन्ति । किञ्च नाट्यदर्पणे तेन रसशास्त्रमभिनयकलां चाऽऽश्रित्य कानिचन महत्त्वपूर्णानि तादात्विकरूढिभञ्जकानि च विधानानि कृतानि ।
अथ च पश्चात्कालीनग्रन्थेषु तस्य प्रसिद्धिः प्रबन्धशतकर्तृतया कृताऽस्ति साहित्यकारैः । स स्वयमपि स्वीयग्रन्थे विशेषणमिदं स्वकृते प्रयुनक्ति, यथा"श्रीमदाचार्यहेमचन्द्रशिष्यस्य प्रबन्धशतकर्तृमहाकवे रामचन्द्रस्य भूयांस: प्रबन्धाः ॥"
(निर्भयभीमव्यायोगः, प्रस्तावनायाम्) तथा "इति श्रीमदाचार्यहेमचन्द्रस्य शिष्येण प्रबन्धशतविधाननिष्णातबुद्धिना नाट्यलक्षणनिर्माणपातावगाढसाहित्याम्भोनिधिना विशीर्णकाव्यनिर्माणतन्द्रेण श्रीमता रामचन्द्रेण विरचितं..... द्वितीयं रूपकम् ॥"
(कौमुदीमित्राणन्दे) किन्तु प्रबन्धशतनामा ग्रन्थो न प्राप्यते नाऽपि च शतं प्रबन्धाः प्राप्यन्तेऽद्य ।।
स्वभावेन स स्वातन्त्र्यप्रियो मानी च । स्वकृते स विविधानि विशेषणानि प्रयुङ्क्ते आत्मश्लाघां चाऽपि कुरुते, यथा
- कविः काव्ये रामः सरसवचसामेकवसतिः । (नलविलासे) - पञ्चप्रबन्धमिषपञ्चमुखानकेन, विद्वन्मनःसदसि नृत्यति यस्य कीर्तिः । विद्यात्रयीचणमचुम्बितकाव्यतन्द्रं कस्तं न वेद सुकृती किल रामचन्द्रम् ॥ (रघुविलासे)
* ग्रन्थाग्रं - ५३०००श्लोकप्रमाणम् ।

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153