Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 78
________________ जीवनस्तरमूर्वीकर्तुं पूर्णतया प्रयतितं तत्र च साफल्यमपि प्राप्तम् । एवं चाऽनेकानेकसुकृत्यकरणेन कुमारपालस्य पुण्यानि तादृक्प्रबलानि जातानि यत् तस्य शासनकाले समग्र देशे न कदाऽपि दुर्भिक्षादीनि व्यसनानि सञ्जातानि नाऽपि च मार्यादि रोगा उत्पन्ना नैव च कोऽपि दुःखितः स्थितः । एतच्च हेमचन्द्राचार्याः स्वयमेव स्वविरचितायामभिधानचिन्तामणिनाममालायां कथयन्ति यथा - कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः । मृतस्वमोक्ता धर्मात्मा मारि-व्यसनवारकः ॥ ३/३७६) तथा सोमप्रभाचार्या अप्याहुः - स्वचक्रं परचक्रं वा नाऽनर्थं कुरुते क्वचित् । दुर्भिक्षस्य न नामाऽपि श्रूयते वसुधातले ॥ मोहराजपराजयनाटके मन्त्री यशःपालोऽप्याह - पद्मासद्म कुमारपालनृपतिर्जज्ञे स चन्द्रान्वयी जैन धर्ममवाप्य पापशमनं श्रीहेमचन्द्राद् गुरोः । निर्वीराधनमुज्झता विदधता द्यूतादिनिर्वासनं येनैकेन भटेन मोहनृपतिजिग्ये जगत्कण्टकः ॥ इत्यादि ।। अथाऽन्यदा गुरूपदेशेन कुमारपाल: पादचारेण तीर्थयात्राः कर्तुकामो यात्रासङ्घमायोजितवान् । सहस्रशो जना अत्र सङ्के समागताः । गुरवोऽपि स्वीयसाधुवृन्देन सह समागताः । प्रथमं तैः शत्रुञ्जयतीर्थस्य यात्रा कृता । तत्र च गुरुभिः प्रथमतीर्थकृतः श्रीऋषभदेवप्रभोः सम्मुखं स्थित्वा महाकविधनपालविरचिता ऋषभपञ्चाशिका स्तुतिरूपेण गीता । तदा कुमारपालेनोक्तं - 'प्रभो ! भवन्तः स्वयमेव विरचितानि स्तुत्यादीनि किमर्थं न गायन्ति ?' तदाऽऽचार्यैरुक्तं - 'राजन् ! धनपालसदृशं सद्भक्तिगभितं स्तवनं नाऽस्माभिविरचयितुं शक्यम्' । तेषामीदृशीं विनम्रतां दृष्ट्वा कुमारपालोऽन्ये च सर्वथाऽभिभूताः सञ्जाताः । तैरनुभूतं यन्नेदमौपचारिकं नम्रत्वमपि तु वास्तविकमेव । ततस्ते भक्तिभृतचेतसा उज्जयन्तगिरेः प्रभासादिक्षेत्राणां च यात्राः कृत्वा स्वनगरं समागताः । अथ 'काव्यशास्त्रविनोदेन कालो गच्छति धीमता'मिति सुभाषितानुसारं प्रायशो राजानः स्वप्रशस्तिकाव्यानां श्रवणेन शृङ्गारिकश्लोकानां पठनादिभिश्च विनोदं प्राप्य कालं गमयन्ति । किन्तु कुमारपालनपाय नैतत् सर्वं रोचते स्म । इतो हेमचन्द्राचार्या अपि स्वाध्याय-साहित्यसर्जनादिषु मग्ना कालं वृथा यापयितुं सज्जा नाऽऽसन् । अतः कुमारपालेन तेभ्यो विज्ञप्तं – 'प्रभो ! भवद्भिर्मयि बहूपकृतमस्ति । * अन्यत्राऽपि ते वदन्ति – क्व सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला क्व चैषा? || तथा - क्वाऽहं पशोरपि पशुर्वीतरागस्तव: क्व च । उत्तित्तीर्घरण्यानी पद्भ्यां परिवाऽस्म्यतः ॥ सिद्धहेमव्याकरणेऽपि कथयन्ति ते - अनुसिद्धसेनं कवयः, उपोमास्वाति सङ्ग्रहीतारः - इत्यादि। ७३

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153