Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 77
________________ यो विश्वं वेद वेद्यं जननजलनिधेर्भङ्गिनः पारदृश्वा पौर्वापर्याविरुद्धं वचनमनुपमं निष्कलङ्कं यदीयम् । तं वन्दे साधुवन्द्यं सकलगुणनिधि ध्वस्तदोषद्विषन्तं बुद्धं वा वर्धमानं शतदलनिलयं केशवं वा शिवं वा ।। भवबीजाङ्करजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ यत्र तत्र समये यथा तथा, योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद् भवान्, एक एव भगवन्नमोऽस्तु ते ॥ इत्यादि ।। एतदवसरानन्तरं भावबृहस्पत्यादीनां सर्वेषामपि हेमचन्द्राचार्यान् प्रति हार्दो बहुमानभावः सञ्जातः । अथ च ततः प्रतिनिवृत्ताः सर्वेऽपि यथाकालं पत्तनं समागताः । ततो राज्ञा आचार्येभ्यो विज्ञप्तं - 'प्रभो ! अहं योगमार्गमभ्यसितुमिच्छामि । यदि मयि योग्यता स्यात् तर्हि कृपयोपदिशन्तु' । तदा गुरुभिरपि तत्प्रार्थनं स्वीकृत्य योगशास्त्रं विरचितं स्वयमेव च समग्रमपि तद् राज्ञः शिक्षितम् । द्वादशप्रकाशमयेऽस्मिन् योगशास्त्रे मार्गानुसारितागुणाः यम-नियमादियोगाङ्गानि श्रावकयोग्यद्वादशव्रतानि च सविस्तरं वर्णितानि सन्ति । ततस्तथैव तस्य भक्तिमार्गारार्धनार्थं विंशतिप्रकाशमयो वीतरागस्तवोऽपि विरचित आचार्यः । एतान् द्वात्रिंशदपि प्रकाशान् प्रत्यहं प्रातःकाले भणित्वैव कुमारपालोऽन्न-जलादिकं गह्णाति स्म । एवं च योगशास्त्रस्य सततमभ्यासेन योगमार्गे सोऽग्रेसरोऽभवत् स्ववंशपरम्पराक्रमागतं (Heridity) लूतारोगमपि च योगाभ्यासेन शमितवान् । गुरुमुखाद् धर्मशास्त्राणां निरन्तरं श्रवणेनाऽन्यदा कुमारपालस्य हृदये श्रावकयोग्यानि द्वादशव्रतानि ग्रहीतुं भावना जागृता । तेन चाऽऽचार्येभ्यस्तदर्थं निवेदनं कृतम् । तैरपि तदुचितं मत्वा शुभदिने चतुर्मुखजिनेश्वरप्रतिमासम्मुखं तस्मै विधिपूर्वकं व्रतानि प्रदत्तानि सहैव परमार्हत-इति बिरुदमपि प्रदत्तम् । ततस्तस्योद्यापनरूपेण तेन गुरूपदेशात् स्वनगरे कुमारविहारनामकं जिनमन्दिरं कुमारपालेश्वरमहादेवमन्दिरं चाऽपि निर्मापितं तत्प्रतिष्ठा च कारिता । एकदा गुरुभ्यः केनचिन्निर्धनश्रावकेण हार्दभावनया हस्तव्यूतमेकं स्थूलवस्त्रं प्रदत्तं, तच्च परिहितं गुरुभिः । तदा तत्राऽऽगतेन कुमारपालेन तद् दृष्ट्वा गुरुभ्यो विज्ञप्तं - 'प्रभो ! किमित्येतादृक्वस्त्रधारणम् ?' गुरुभिरुक्तं - 'राजन् ! अस्माकं त्वयमेव धर्मो यद् निर्दोषं वस्त्रान्न-पानादि यत्र यतो वा प्राप्यते तद् ग्रहीतव्यम् । परमत्र भवता किञ्चिच्चिन्तनीयं वर्तते यद् भवद्राज्ये एतादृशो निर्धनाः कियन्तः सन्तीति । एकतो धनवतां पार्वे कियद् धनमस्ति तस्य गणनैव नास्ति, अन्यतश्चैतादृशा जना अपि सन्ति ये प्रायो दिने एकवारमेव भोक्तुं कष्टेन लभन्ते । ईदृशां दुर्गतानां धारण-पोषणादि राज्ञः कर्तव्यं भवति । भवता स्वकर्तव्यं सम्यङ् निभालनीयम्' गुरूपदेशं श्रुत्वा करुणाभृतचेतसा नृपेण दीन-दुर्गतानां ७२

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153