Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 76
________________ वचनं श्रोतुं सकर्णीभूता आसन् । तावता गुरवो मधुरवचोभिरुक्तवन्त: - 'राजन् ! भवतः प्रपितामहस्य भीमदेवस्य शासनकाले प्रभासतीर्थे स्थितस्य सोमनाथमहादेवमन्दिरं म्लेच्छैर्विनाशितमस्ति । समग्रदेशवासिनो हि तथाऽपि सोमनाथमहादेवस्य दर्शन-पूजाद्यर्थं पूर्णश्रद्धया निरन्तरं तत्र समागच्छन्ति सदाऽपि । यदि भवान् पुण्यमुपार्जितुममरत्वं प्राप्तुं पातकानि च नाशयितुमिच्छति तदा सोमनाथमहादेवमन्दिरस्य जीर्णोद्धारं कृत्वा नूतनमुत्तुङ्गं विशालं चैकं महादेवालयं निर्माय तत्र महामहेन सोमनाथमहादेवं प्रतिष्ठितं करोतु । भवतः सर्वोऽपि अभिलाष: पूर्णीभविष्यति सहैव कोटिशः श्रद्धालूनां भक्तिभावस्य पुण्यमपि प्राप्स्यते' | गुरूणामुपदेशं श्रुत्वा कुमारपालोऽतीव प्रसन्नो जातः, सभासदश्च सर्वेऽपि नितरां विस्मिता जाता:। सोमनाथस्य मुख्यार्चकोऽन्ये च येऽपि जना आचार्यान् जैनेतरद्वेषिणो मन्यन्ते स्म मात्सर्यं च धरन्ति स्म तेऽपि ससन्तोषमाचार्याभिमुखा जाताः । आचार्यैश्च राजामात्य -सेनापति-नागरजनप्रमुखेभ्यः सर्वेभ्योऽपि यावत् सोमनाथमहादेवस्य प्रतिष्ठा न सम्पद्येत तावन्मद्य - मांसादीनां त्यागस्य प्रतिज्ञा कारिता । कुमारपालेन सपद्येव तदङ्गीकृत्य सोमनाथ-महादेवमन्दिरस्य मूलशिल्पिनोऽन्वये जातः शिल्पी अन्वेषितस्तस्य च प्रभासतीर्थक्षेत्रे यथाशीघ्रं नूतनं सोमनाथमहादेवमन्दिरं निर्मातुमनुरुद्धवान् । मन्दिरनिर्माणार्थं च कुमारपालेन राज्यकोशाद् विपुलं धनमर्पितम् । यदा च देशजनैर्जीर्णोद्धारवृत्तमिदं ज्ञातं तदा तैरपि पूर्ण श्रद्धया भक्त्या च यथाशक्ति धनमर्पितम् । शिल्पिनाऽपि राज्ञो देशजनानां च भक्त्या श्रद्धया च प्रोत्साहितेन शीघ्रमेव नूतनं रमणीयं विशालं च मन्दिरं निर्मितम् । ततो राज्ञा मन्दिरस्य मुख्यार्चकादिभिश्चर्चयित्वा ज्यौतिषिकैः प्रतिष्ठादिन-मुहूर्त-लग्नादि निर्णीतमुद्धोषितं च सर्वत्र 'सोमनाथमहादेवप्रतिष्ठार्थं सर्वैरपि प्रभासतीर्थे समागन्तव्य'मिति । ततस्तेन हेमचन्द्राचार्येभ्योऽपि प्रतिष्ठायामागमनार्थं विज्ञप्तिः कृता तैश्च सहर्षं स्वीकृत्य कथितं – ‘भवान् सपरिवारस्तत्र प्राप्नोतु वयं तु शत्रुञ्जयादितीर्थयात्रां कृत्वा समागमिष्यामः' । एतज्ज्ञात्वा तु सर्वेभ्योऽपि तद्विरोधिभ्योऽधिकमाश्चर्यं सञ्जातम् । ततो यथाकालं सर्वेऽपि राजामात्यादयः सपरिवारास्तत्र प्राप्ताः । आचार्या अपि पादचारेण तीर्थयात्रां कुर्वाणाः प्रतिष्ठाकाले तत्रोपस्थिताः । एतेन भावबृहस्पति - विश्वेश्वरकवि-प्रमुखा अतीव प्रसन्ना जाता: । वैक्रमे १२११तमे संवति महामहेनैषा प्रतिष्ठा जाता । तदा च हेमचन्द्राचार्यैर्भावबृहस्पत्यादिभिः सह शिवपुराणवर्णितविधिना महादेवस्य आह्वाना - ऽवगुण्ठन-मुद्रान्यास - विसर्जनादि कृत्वा तत्प्रतिष्ठा कृता। ततो *महादेवद्वात्रिंशिकयाऽन्यैश्च स्तोत्रैर्भावपूर्णा स्तुतिरपि विहिता - यथा - त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं साक्षाद् येन यथा स्वयं करतले रेखात्रयं साङ्गुलि । राग-द्वेष-भयामयान्तक-जरा-लोलत्वलोभादयो नाऽलं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥ * महादेवद्वात्रिंशिकाऽत्रैव ग्रन्थेऽन्यत्र प्रदत्ताऽस्ति । ७१

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153