Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 74
________________ रामचन्द्राचार्या अपि - अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः । त्वं तु सन्तोषतो मुञ्चन् सत्यं राजपितामहः ॥ इति तं स्तुवन्ति स्म । प्रजाकल्याणार्थं तेन विहितानामीदृशानां कार्याणां सर्वेऽपि जना हार्दा प्रशंसां कृतवन्तः । किन्तु बहवः सामन्ता राजपुरुषाश्च तं निर्बलहृदयं भीरुवृत्तिकं च मन्यन्ते स्म । एतच्च कुमारपालस्य ज्ञातमासीत् । अत एकदा राजपाट्यां व्रजन् स एकस्मिन् शस्त्राभ्यासक्षेत्रे सप्त कटाहान् क्रमशः उल्लम्बितान् दृष्ट्वा सहैव समागतान् सामन्तादीन् उद्दिश्य कथितवान् – 'किं कोऽप्यस्त्यत्र य एतान् सप्ताऽपि कटाहान् एकेनैवेषुणा समकमेव विध्यात् ?' तदा तैरुक्तं - 'प्रभो ! पूर्वं भवतः प्रपितामहो भीमदेवस्तन्महामात्यश्च विमलनामेति द्वावेवाऽऽस्तां यौ एतान् सप्ताऽपि कटाहान् स्वाप्रतिमबलेन विध्यतः स्मैकेनैवेषुणा । ततः परं न कोऽपि सञ्जातस्तादृशो बलवान् य एतत् कर्तुं समर्थो भवेत् । तदा कुमारपालेन समीपस्थसैनिकहस्तात् शर-धनुषी गृहीत्वा कथितं - ‘एवं वा? तहि पश्याम्यहं तावत्' । ततो वीरासनेनोपविश्य शरसन्धान कृत्वा विस्फारितनेत्राभ्यां सर्वेषु पश्यत्सु तेन तथा शरो मुक्तो यथा समकमेव सप्ताऽपि कटाहान् विद्ध्वा बहिनिर्गतः । एतद् दृष्ट्वा तं निर्बलं भीरुकं वा मन्यमानानां सर्वेषामपि मतं परावृतम् । एवंस्थिते कुमारपालं दयावत्त्वात् अहिंसापालकत्वात् व्यसनत्याजकत्वाच्च प्रायः सर्वे जना जैनाश्चाऽपि मन्यन्ते स्म सगौरवं यद् राजा जैनधर्मी जातोऽस्ति । किन्तु हेमचन्द्राचार्या ह्यत्र सर्वथा तटस्था आसन् । तेषां दृढं मतमासीद् यद् - यदि कश्चिदपि धर्मो राज्याश्रितो भवेत् तथा राजाऽपि तद्धर्मरक्तो भूत्वाऽन्यधर्माणामुपेक्षां कुर्यात् तदा यद्यपि प्रथमं स धर्मः सुतरां विस्तरेत् । परन्तु गच्छता कालेन सर्वनाशस्य पथ्येव तस्य गतिः । वस्तुतो धर्मस्याऽऽधारो जनताहृदयमस्ति न तु राजसिंहासनम् । एतत् तथ्यं यदि न स्वीक्रियेत तदा केवलं घर्षणमेवाऽवशिष्यते । राजभिराश्रयणीयो हि एक एव मूलधर्मः । स चाऽयं - अहिंसालक्षणो धर्मो, मान्या देवी सरस्वती । ध्यानेन मुक्तिमाप्नोति, सर्वदर्शनसम्मतम् ।। यो राजेमं धर्मं सम्यक्तयाऽऽचरेत् तस्य न कस्याऽपि विरोधः सम्मुखीकर्तव्यो भवेत् कदाऽपि, प्रत्युत सर्वा एव प्रजास्तत्साह्यमेवाऽऽचरेत् । यथा हेमचन्द्राचार्याणां चिन्तनमासीत् तथैव तेषां वाण्यपि अद्भुताऽऽसीत् । ते यदा वदेयुस्तदा कोऽपि विरोधं कर्तं समर्थो नाऽऽसीत । तेषां कथने कदापि क्षद्रवस्तनां महत्त्वमेव न क्रियेत स्म । अथैकदा तेषां मुख्यशिष्यै रामचन्द्राचार्याभिधैस्तेभ्यः सूचितं – 'प्रभो ! महाराजः कुमारपालोऽधुना किञ्चिदिव जैनधर्मं प्रत्याकृष्टोऽस्ति । यद्येतस्याः परिस्थितेलाभं वयं गृह्णीयामस्तदा जैनानां तद्धर्मस्थानादीनां च प्रभूतानि कार्याण्युत्तमतया भविष्यन्ति' । एतन्निशम्य हेमचन्द्राचार्यैः कथितं - 'भोः ! मनुष्यस्य -

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153