Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एतदमारिघोषणं राजपुरुषाणां सामन्तानामन्येषां च जनानां निर्बलत्वं भीरुत्वं वाऽभासत । किन्तु कुमारपालः स्वनिर्णये दृढ एवाऽवर्तत । तस्याऽविचलं मतमासीद् यद् बल-पराक्रमौ अन्यद् वस्तु, दयाऽहिंसा चाऽन्यदेव वस्तु । दयाया अहिंसायाश्च पालनेन न कोऽपि निर्बलो भीरुर्वा भवेदिति ।
__ अथाऽणिहल्लपुरपत्तने चौलुक्यानां कुलदेव्याः कण्टकेश्वरीदेव्या मन्दिरमासीत् । तस्मिन् प्रतिवर्षमेकवारं शतशो महिषादिजीवानां बलिदानं कृत्वा नैवेद्यरूपेण देव्यै समर्प्यते स्म । बलिदाननियमः कुलपरम्परागत आसीत् । स कदाचिदपि परावर्तयितुं न शक्यते स्म । यदा तदवसरः समागतस्तदा कुमारपालो हेमचन्द्राचार्याणां मार्गदर्शनं प्राप्तुं तेषां पार्वे गतः । यदा स तत्र गतस्तदा जनैः सर्वैरप्यूहितमासीद् यदधुनाऽऽचार्याणां परीक्षा भविष्यति । यतो यदि स तन्निषेधं कुर्यात् तदा नृपस्य हानिर्भविष्यति, तथा ते तद्विधानानुमति दातुमपि नैव शक्ताः, स्पष्टतया हिंसात्वात् तस्य । किन्तु सर्वेषामाश्चर्यमध्ये तैः कुमारपालस्य कथितं – 'राजन् ! भवतः कुलदेव्याः कण्टकेश्वर्याः कृते बलिदानार्थं पशून् ददातु तस्यै' । एतच्छ्रवणेनाऽवाङ्मूका जाताः सर्वे यावत्, तावत् तैरुक्तं – 'किन्तु, तेषां पशूनां वधो नैव कर्तव्यः । अपि तु जीवन्त एव ते देव्यै समर्पयितव्याः । यदि तस्यास्तेषां मांसस्येच्छा स्यात् तदा सा स्वयमेव ग्रहीष्यति । यदि सा न ग्रहीष्यति तदा मन्तव्यं यत् सा सर्वेषां जन्तूनां मातृभूता कथं तेषां स्वसन्तानानां प्राणानपहृत्य मांसं गृह्णीयात् ?' इति ।।
सर्वेषां निषेधे विरोधे च जातेऽपि कुमारपालेन गुरुवचोऽङ्गीकृत्य तथैव जीवन्तः पशवः समर्पिता देव्यै । आरात्रि च मन्दिरे एव स्थापितास्ते । द्वितीयदिने च प्रातस्तान् तथैव जीवन्तो दृष्ट्वा सर्वेऽपि जना हृष्टाः अभवन् । यद्यपि देव्याः पुरोहितेन कुमारपालो बहु भायितो भत्सितश्च तथाऽपि स स्वनिर्णये दृढोऽविचलश्चैवाऽवर्तत जीवदयामहिंसां च पालितवान् । तस्येदृशीं दृढतां दया-ऽहिंसादौ च गाढश्रद्धां विलोक्य कविभिर्बहु प्रशंसितः स तद्गुरवश्च -
पूर्वं वीरजिनेश्वरे भगवति प्रख्याति धर्मं स्वयं प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधात् यस्याऽऽसाद्य वचस्सुधां स परमः श्रीहेमचन्द्रो गुरुः ॥ (कविः श्रीधरः)
तथा
आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वादरादब्दान्येव चतुर्दश प्रसृमरां मारिं निवार्योजसा । कीर्तिस्तम्भनिभांश्चतुर्दशशती-संख्यान् विहारांस्तथा क्लृप्त्वा निर्मितवान् कुमारनृपतिजैनो निजैनोव्ययम् ।।
(मन्त्री यशःपालः मोहराजपराजयनाटके)
६७

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153