Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सिद्धराजसदसि गन्तव्यं स्यात् । नाऽहं कुतोऽपि बिभेमि' । उदयनमन्त्रिणाऽपि तं भृशं सान्त्वयित्वा साञ्जलि कथितं - 'श्रेष्ठिवर्य ! भवतः पुत्रो भवदुत्सङ्ग एवोपविष्टोऽस्ति । भवान् हि तं गृहे नेतुमपि शक्तस्तथाऽत्राऽऽचार्यभगवतां चरणयोः समर्पयितुमपि शक्तः । यदि स गृहे स्थास्यति तदा भौतिकदृष्ट्या कदाचित् भवत्कुटुम्बस्य किञ्चिच्छ्रेयः साधयिष्यति । यदि धर्मशासनाय तं समर्पयिष्यति भवांस्तदा स स्वेन सह समग्रं देशमपि धर्मपरायणं कृत्वा दिगन्तव्यापिनी कीर्तिमर्जयिष्यति । किञ्च, पश्यतु भवान्, भवानस्ति वणिक् । वाणिज्यं कृत्वा धनं प्राप्नोति । भवाननुभवति यदधिकाधिकधनप्राप्त्याऽपि सन्तोषो नैव भवति । ततोऽप्यधिकं प्राप्तुं लालसा भवत्येव । नाऽयं केवलं भवदनुभवः । ममाऽपि कोटिशो धनमर्जयित्वाऽप्ययमेवाऽनुभवः । तथ्यमिदं पुत्रादिस्वजनमोहविषयेऽपि समानमेव । कियन्तमपि कालं सहाऽवस्थित्याऽपि प्रेम मोहो वा निवारयितुं न शक्यः । प्रत्युत घृतेनाऽग्निरिव वर्धत एव । प्रान्ते च काल एव वियोजनेन बलादपि तं निवारयेत् । एतच्च संसारस्य सनातनं सत्यम् । भवानपि चैतज्जानात्येव । अन्यच्च, यच्छ्रेयस्करं कार्यं कर्तुमस्मादृशां शरीराणि मनांसि च न प्रभवेयुस्तत्राऽस्य बालस्य शरीरं मनश्चाऽवश्यं प्रभवेत् । एवं स्थितेऽपि केवलं शरीरमोहेन भवांस्तं यदि रोधयिष्यति तदा सत्पथात् तं च्यावयिष्यति केवलम् । तथा कुर्वंश्च भवानस्याऽकल्याणमेव साधयिष्यति' ।
एतच्छ्रुत्वा किञ्चिदनिश्चितमनस्को जातश्चच्च श्रेष्ठी सहसाऽवदत् - 'भवदुक्तं सत्यं स्यात् । किन्तु धनार्थं पुत्रमपि विक्रीणीयामित्येतादृशोऽधमोऽहं नास्मि' ।
'मा मैवं वदतु चिन्तयतु वा । नाऽहं मूर्योऽस्मि यद् भवन्तं तादृशं परिगणयेयम् । किन्तु भवानेव चिन्तयतु - पत्तनस्याऽग्रगण्यजनानामन्यतमत्वेन शोभिष्यमाणं रत्नमिदं धन्धुक्कनगरे धूलीधूसरं भवितुं कथं वा मंस्यते भवान् ? अपि च, देशस्य गौरवं न केवलं लक्ष्म्यां वाणिज्ये युद्धविद्यायां वा परन्तु धर्मसंस्कारप्रचार-प्रसारेणाऽपि भवति । पत्तनस्थप्रसिद्धजैनाचार्यश्रीशान्तिसूरिविषये तु भवताऽपि श्रुतं स्यादेव । एवं स्थितेऽपि केवलं लौकिककार्यार्थमेव यदि भवांस्तं गृहे नेष्यति तदाऽहं भवन्तं नैव वारयिष्ये, किन्त्वेतावत् तु भवन्तं कथयाम्येव यत् तस्य जीवनसमृद्धि प्रकटीभवन्तीं रोधयन् भवांस्तस्य स्वस्य च जीवनं महापातकयुतमेव करिष्यति । अतः परं भवदिच्छैव प्रमाणम्' - उदयन उक्तवान् ।
चच्चस्य चित्तं किञ्चिदिव विचारयितुं प्रवृत्तम् । शान्तिसूरेः कथास्तु तेनाऽपि श्रुता आसन् । 'मम पुत्रो महान् धर्मप्रभावको भविष्यति, कदाचित् स धन्धुक्कनगरे आगमिष्यति, तदा च तस्य चरणयोः सहस्रशो जना लोठिष्यन्ति, तस्याऽऽशिषो ग्रहीतुं नरा अहमहमिकयाऽऽगमिष्यन्ति । नरपतयश्च तस्य नामग्रहणेन धन्यतामनुभविष्यन्ति । देश-विदेशेषु तस्य यशः प्रसरिष्यति........' स्वप्नं पश्यन्निव चच्चः सहसा जागृतो जातो निर्णयं च गृह्णन् स उदयनमन्त्रिणमवदत् - 'मन्त्रीश्वर ! भवदुक्तं मम सम्मतम् । एषोऽहं भवते मत्पुत्रं समर्पयामि' । मन्त्रिणोक्तं - 'मा मैवं वदतु भवान् । भवता हि गुरुपादेभ्यः समर्पयितव्यः सः । धन्योऽस्ति भवान् । रत्नत्रय्याः पथि स्वपुत्रस्य समर्पणेन भवता महत् पुण्यमुपाजितमस्ति । नूनं धन्योऽस्ति भवान्' ।

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153