Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
यशो मम तव ख्यातिः पुण्यं च मुनिनायक ! |
विश्वलोकोपकाराय कुरु व्याकरणं नवम् ॥* हेमचन्द्राचार्यैरपि तस्य विज्ञप्तिः स्वीकृता काश्मीरादिदेशेभ्यश्च विविधव्याकरणग्रन्था आनायिताः । ततस्तेषां गभीराध्ययनावलोकन-विवेचनादिपुरस्सरं तैरल्पेनैव कालेनाऽष्टाध्याय-द्वात्रिंशत्पादमयं सलघुबृहद्वृत्तिकं साङ्गोपाङ्गं च व्याकरणं सिद्ध-हेमचन्द्रशब्दानुशासनं नाम विरचितम् । तेन सह धातुपाठः, धातुपारायणं, शब्दकोशोऽभिधानचिन्तामणिनाममालाभिधानः, अनेकार्थसङ्ग्रहः लिङ्गानुशासनं, काव्यानुशासनमलङ्कारचूडामणि-विवेकवृत्तियुतं, छन्दोनुशासनं, निघण्टुः, देशीनाममालाभिधो देश्यशब्दानां कोशः, व्याश्रयमहाकाव्यं चाऽपि विरचितम् ।।
__ सर्वोऽप्येष ग्रन्थसमूह: सिद्धराजस्य राजपुरोहितेन सभापण्डितैश्च त्रिः सूक्ष्मेक्षिकया पठितो 'विशुद्ध एष' इति च कथितम् । एतेनाऽतीवाऽऽनन्दितेन राज्ञा व्याकरणमन्ये च ग्रन्था समहोत्सवं गजस्कन्धमारोप्य समग्रेऽपि नगरे शोभायात्रा विहिता, तत्सत्कार-सम्मानादि च कृतम् । ततस्तेषां ग्रन्थानां शतशः प्रतयो लेखयित्वा देशविदेशेषु प्रहिता, गूर्जरदेशे च सर्वत्र काकल-कायस्थनामानं व्याकरणपण्डितं नियोज्य तेषामध्ययनाध्यापनादि प्रारब्धम् ।
__ सिद्धराजस्य स्वदेशे साहित्यसृष्टेः संस्कारदानस्य च स्वप्ना हेमचन्द्राचार्यद्वारा फलिता जाता इति तद्धृदयं सर्वथा सन्तुष्टं जातम् । तन्मनसि तदास्थाने च हेमचन्द्राचार्याणां स्थानं प्रथमं जातम् । आचार्याणां दर्शनेनैव स चित्तनिर्वृतिं लभते स्म । पदे पदे स हेमचन्द्राचार्याणां मार्गदर्शनमपेक्षते स्म । आचार्या अपि निरपेक्षबुद्ध्यैव तस्य निरवचं मार्गदर्शनं कुर्वते स्म । सहैव साहित्यसर्जनं प्रजाभ्यश्च निरवद्यजीवनपद्धतेः शुद्धधर्म-संस्काराणां चोपदेशं कुर्वते स्म । अद्य या गूर्जरादिभाषोपयुज्यते तस्याः मूलं याऽपभ्रंशभाषाऽस्ति तस्या व्याकरणं पूर्णस्वरूपं च तैरेव प्रस्तुतम् । तेन सा भाषा, तत्फलत्वेन च गूर्जरभाषा सुनिबद्धा जाता । गूर्जरदेशस्य स्वीया भाषा प्राप्ता, भाषामाध्यमेन चैव संस्काराणां पोषणं प्राप्तम् । [अतो गूर्जरदेशः सर्वदाऽपि च तेषां कृतज्ञ ऋणी चैवाऽस्ति ।] एतत् सर्वं विलोक्य सिद्धराजः सर्वथा समाधानं प्राप्तवान् । वारं वारं चाऽऽचार्यान् प्रति कार्तश्यं प्रकटितवान् ।
किञ्च, अत्रेदं चिन्तनीयम् -
हेमचन्द्राचार्यैहि स्वगुणानुरक्तसिद्धराजपाबें - जैनधर्मो राज्याश्रितो भवेत्, राजा च जैनधर्मोपासको भवेत् – इत्येतदर्थं न कदाऽपि प्रयतितं न वा तदर्थं राजकीयचातुर्यमुपयुक्तम् । तथा सिद्धराजं तत्सभासदो वा प्रभावितान् कर्तुं तैः समन्वयवादित्वं नैव प्रकटितं साधितं वा किन्तु तेषां सहजप्रकृतिरेव समन्वयिताया आसीत् । स्वसम्प्रदायस्योन्नतिर्भवेत्, जैनानां च श्रेष्ठत्वं भवेदित्यादि तैः स्वप्नेऽपि नैव विचारितमासीत् । * तेनाऽतिविस्तृत-दुरागम-विप्रकीर्ण-शब्दानुशासनसमूहकदथितेन ।
अभ्यथितो निरवमं विधिवद् व्यधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः ॥ (सिद्धहेमव्याकरणप्रशस्ति:) + एतेषामन्यानां च ग्रन्थानां परिचयोऽत्रैव पुस्तकेऽन्यत्राऽऽलेखितोऽस्ति । कृपया तत्रैव विलोक्यताम् ।

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153