Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्राप्यतेऽतो वृथा शोकं मा कृथाः' इति सान्त्वनमपि प्रदत्तम् ।
___ततः सिद्धराजेनैतत् प्रमाणीकर्तुं नैमत्तिका अप्येतदर्थं पृष्टाः । तैरपि च स्वीयनिमित्तबलेन तत् तथैव दृष्ट्वा राज्ञे निवेदितम् । एतेन सिद्धराजस्य महद् दुःखं जातम् । कुमारपालस्योपरि तस्य हृदये द्वेषभावो जागृतः । तेन चिन्तितं यद् 'यावदयं जीविष्यति तावन्मे पुत्रो नैव भविष्यति, अत एनमेव प्रथमं घातयामि' । ततस्तेन कुमारपालं मारयितुं बहवः प्रयत्नाः कृताः किन्तु भाग्यबलात् स सर्वदाऽपि रक्षितोऽभवत् ।
इतश्च चामुण्डरायशासनकालादेव चौलुक्यानां मालवदेशं जेतुं स्वप्न आसीत् । सिद्धराजजयसिंहो हि स्वपराक्रमेण तं स्वप्नं सफलीकतवान । तेन मालवेशो नरवर्मा भीषणयुद्धे जितो मालवदेशे च स्वशासनाधिकारो नियोजितः । यदा स स्वनगरं प्रतिनिवृत्तस्तदा समस्तप्रजाभिस्तस्य विजयं निमित्तीकृत्य महोत्सवः कृतः । सर्वैर्धर्मगुरुभिरपि तदवसरे तस्याऽऽशीर्वचनान्युक्तानि । यदा च राजा हेमचन्द्राचार्याणां पुरतः समागतस्तदा तैरपि तस्याऽऽशीर्वादरूपेण श्लोकोऽयमुक्तः -
भूमि कामगवीं स्वगोमयरसैरासिञ्च, रत्नाकरा ! मुक्तास्वस्तिकमातनुध्वमुड़प ! त्वं पर्णकम्भीभव । धृत्वा कल्पतरोर्दलानि सरलैदिग्वारणास्तोरणा
न्याधत्त स्वकरैविजत्य जगतीं नन्वेति सिद्धाधिपः । तच्छ्रवणेन सिद्धराजस्य हृदयेऽपार आनन्दो जातः । स आचार्यान् सादरं नमस्कृत्य स्वप्रासादं गतः । तत आस्थानमण्डपे तेन धारानगर्या आनीतानि सर्वाण्यपि वस्तूनि प्रदर्शितानि । तेषु चैको ग्रन्थसङ्ग्रहोऽप्यासीत् । तं निरीक्षमाणो राजा भोजव्याकरणं नाम ग्रन्थं दृष्ट्वाऽऽचार्यान् पृष्ट्वान् – 'प्रभो ! किमेत'दिति । आचार्येरपि तं ग्रन्थं विलोक्य भोजराजप्रशस्तिः कृता, कथितं च - 'भोजराजेन व्याकरणमेतद् विरचितमस्ति, अधुना च गूर्जरदेशे बहुत्रेदमेव व्याकरणं पाठ्यते' । एतन्निशम्य सिद्धराजेन चिन्तितं - 'मया यत् पराक्रमस्फोरणं कृत्वा मालवदेशो जितस्तत्तु पाशवं बलमासीत् । यद्यहं तस्य सरस्वतीधाम्नः संस्कारितां साहित्यसृष्टिं चाऽत्र प्रकटयेयं तडेंव मे वास्तविको जयः' ।
ततस्तेन सभायां स्थितान् पण्डितानुद्दिश्य कथितं – “किमस्माकं देशे नास्ति तादृशः कोऽपि पण्डितो यः स्वप्रतिभया नूतनं व्याकरणं विरचयेत्, तथा चाऽस्मद्देशेऽस्मदीयमेव व्याकरणं पाठ्येत ?'
विद्वान् कोऽपि कथं नास्ति देशे विश्वेऽपि गूर्जरे ।
सर्वे संभूय विद्वांसो हेमचन्द्रं व्यलोकयन् ।। सर्वैरपि पण्डितैः कथितं – 'राजन् ! व्याकरणादिग्रन्थसृष्टौ किल हेमचन्द्राचार्या एव प्रभविष्णवो नाऽन्यः कश्चित्' । सिद्धराजस्य मनसि तु तेषामेव नामाऽवर्तत किन्तु तेन सर्वेषां साम्मत्यमपि प्राप्तम् । तेनाऽऽचार्येभ्यो विज्ञप्तम् -
६२

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153