Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 64
________________ विश्वामित्र - पराशरप्रभृतयो ये चाऽम्बु - पत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । आहारं सघृतं पयो- दधियुतं ये भुञ्जते मानवा स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥' एतन्निशम्य सिद्धराजजयसिंहेन सादरमाचार्याः पृष्टाः 'प्रभो ! किमत्र तत्त्वम् ?' आचार्यैरपि स्वस्थतया कथितं - 'राजन् ! एतस्य कथनमुचितमेव, किन्तु तत् पामरानाश्रित्य । सिंहसदृशपराक्रमाणां त्वन्यदेव विलसितं यदुक्तम् - सिंहो बली द्विरदशूकरमांसभोजी संवत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि कामी भवत्यनुदिनं बत कोऽत्र हेतुः ? || ' एतच्छ्रवणेन प्रसन्नो नृपस्तमीर्ष्यालुं कथितवान् 'भोः ! त्वयाऽत्र किमपि वक्तव्यं वा ?' तदा स एतत्प्रत्युत्तरं दातुमक्षमोऽधोमुख उपविष्टः । राजाऽपि च तं सभाजनांश्चोद्दिश्य कथितवान् - 'प्रत्युत्तरं दातुं यदि सामर्थ्यं न स्यात् तदा राजसभायां यथाकथञ्चित् कथनेन स्वीयलघुतैव प्रकटीभवति' । एतेन स लज्जितो जातः । - अथैकदा केनचिदन्येनेर्ष्यालुना राजसभायां कथितं राज्ञे - 'स्वामिन् ! एते जैना: सर्वथा नास्तिकाः सन्ति, ते प्रत्यक्षदैवतमपि सूर्यं न मन्यन्ते, तत्पूजादिकं च नैव कुर्वते' । एतच्छ्रुत्वा राज्ञाऽऽचार्याभिमुखमवलोकितम् । तदा हेमचन्द्राचार्यैः प्रत्युत्पन्नमतितया कथितं - 'राजन् ! वयं जैना यथा सूर्यमाराधयामस्तथा तु न केऽप्याराधयन्ति । तस्मिन् नभस्तलस्थित एव वयं जलाशनादि गृह्णीमो नाऽन्यथा । अन्ये तु न परमार्थतः सूर्याराधकाः, यतः अधाम धामधामेदं वयमेव हृदि स्फुटम् । यस्याऽस्तव्यसनं प्राप्ते त्यजामो भोजनोदके ॥ पयोदपटलैश्छन्ने नैव कुर्वन्ति भोजनम् । अस्तङ्गतेऽतिभुञ्जाना अहो भानोः सुसेवकाः ॥ अस्तङ्गते च सूर्ये भोजनादीनां त्यागादि महत्फलं प्राप्येत । एतदर्थे च महर्षिणा व्यासेनाऽप्युक्तम् ये रात्रौ सर्वदाऽऽहारं वर्जयन्ति सुमेधसः । तेषां पक्षोपवासस्य फलं मासेन जायते ॥' श्रुत्वैतत् प्रसन्नः सिद्धराजः सभासद उद्दिश्योक्तवान् - 'विचार्यैव वक्तव्यं सर्वथा, न पुनरविचार्ये 'ति । ५९

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153