Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
स्थापनं कृतम् । तदैव च अणहिल्लपुरपत्तननामकं नूतनं नगरं तेन स्वराज्यस्य राजधानीतयाऽऽवासितम् । तस्य गुरवो हि जैनाचार्याः श्रीशीलगुणसूरय आसन् मन्त्रिणश्चाऽपि जैना आसन् । वनराजश्च गूर्जरक्षत्रिय आसीत् । अतस्तद्राज्यं गौर्जरत्रेत्यभिधं प्रसिद्धम् ।* स हि ८६८तमे वैक्रमाब्दे १०९वर्षवयसि स्वपुत्रं योगराजं नृपत्वेन संस्थाप्य स्वर्गतः ।
योगराजोऽपि हि विंशत्यधिकशतवया : ८९७ तमे संवति स्वपुत्राणामपराधस्य प्रायश्चित्तं कर्तुमग्नौ प्रविश्य मृतः ।
ततस्तत्पुत्रः क्षेमराजः ९२२तमं वर्षं यावद्देशं शासितवान् ।
तत: ९२२ तमे वर्षे भूयडो नृपो जात: । तत: ९५१ तमे वर्षे वैरसिंहः ९७६तमे च वर्षे रत्नादित्यो राजाऽभवत् । ९९१ तमे वत्सरे सामन्तसिंहश्चापोत्कटो राजा जातः । किन्त्वेतावता हि कालेनैतेषां साम्राज्यं किञ्चिन्निर्बलमिव जातमासीत् ।
अथ च सामन्तसिंहस्याऽऽस्थाने एकदा त्रयश्चौलुक्यवंशीया राजपुत्रा राज - बीज - दण्डकनामान: समागता: । तेषां च ज्येष्ठस्य राजस्याऽश्वपरीक्षण - शस्त्रचालनादिनैपुण्यं पराक्रमं च दृष्ट्वा प्रसन्नेन सामन्तसिंहेन स्वभगिनी लीलादेवी तस्य परिणायिता । राजोऽन्यदा कच्छदेशं गतवानासीत् । तदा तत्रत्येन नृपेण लाक्षाकेण सहसैव सोऽसिना निहतः । एतद् वृत्तं ज्ञात्वा तीव्रशोकाहता तत्पत्नी लीलादेवी तदसहमाना मृता । सा हि तदा गर्भवत्यासीत् । अतो मन्त्रिभिस्तदुदरं विदार्य कथमपि बालको रक्षितः । स हि मूलनक्षत्रे जातोऽतस्तन्नाम मूलराज इति स्थापितम् । स च स्वमातुलस्याऽत्यन्तं प्रियस्तत्पार्श्व एव वर्धमानो यथाक्रमं सर्वा अपि कलाः शिक्षितवान्, यौवनं च प्राप्तः ।
इतश्च, सामन्तसिंहो मद्यप आसीत् । अतो यदा कदाऽपि पानमत्तः स मूलराजं नृपत्वेन स्थापयति स्म, मदापगमे तु स्वयं नृपो भवति स्म । राज्यमपि च तदानीं बहुभिः शत्रुभिराक्रान्तमासीत् । सामन्तसिंहस्य च तान् प्रतिकर्तुं सामर्थ्यं नाऽऽसीत् । अतो राजपुरुषाणां सूचनया साहाय्येन चैकदा मूलराज: स्वमातुलं हत्वा स्वयमेव नृपो जातो गूर्जरत्राराज्ये च चौर्लुक्यवंशं स्थापितवान् । स बहुपराक्रमं कृत्वा शत्रुभ्यो देशं रक्षितवान् निष्कण्टकं च कृतवान् । तेन स्वपितृघातको लाक्षाकोऽपि निहतः, सौराष्ट्रदेशीयो महालुण्टाको ग्राहरिपुरपि वशीकृतः । एवं सौराज्यं कृत्वा, पितृसदृशमातुलवधपातकेन सन्तप्तहृदयो सिद्धपुरे रुद्रमहालयनामकं शिवमन्दिरं कारयित्वा कान्यकुब्ज - काश्यादिप्रदेशेभ्यो ब्राह्मणानाकार्य तांस्तत्र वासितवान् तान् अन्यांश्च ब्राह्मणान् महादानैः समृद्धीकृत्याऽन्यदा * गौर्जरत्रमिदं राज्यं वनराजात् प्रभृत्यपि ।
स्थापितं जैनमन्त्र्याद्यैस्तद्वेषी नैव नन्दति ॥ ( प्रबन्धचिन्तामणि:)
+ ७५२ त: ८६८ तमं वैक्रमाब्दं यावत् तस्य जीवनम् ।
१. असेव्या मातङ्गाः परिगलितपक्षाः शिखरिणो, जडप्रीतिः कूर्मः फणिपतिरयं च द्विरसनः ।
इति ध्यातुर्धातुर्धरणिधृतये सान्ध्यचुलुकात्, समुत्तस्थौ कश्चिद् विलसदसिपट्टः स सुभट: ॥ ( इति चौलुक्यक्षत्रियाणामुत्पत्तिः ।) २. औदीच्या ब्राह्मणा इति विश्रुता एतेऽद्याऽपि तत्रैव वसन्ति ।
५४

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153