Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 61
________________ यशः प्राप्तुं मालवदेशमिव च गूर्जरदेशमपि संस्कार-सरस्वतीभ्यां समृद्धीकर्तुं तन्मनसि महेच्छाऽऽसीत् । कस्मिन्नपि विषये गूर्जराणां लाघवं तं पीडयति स्म । गूर्जराः सुभटाः, विद्वांसः, साधवः, सुन्दर्यः समाजनेतारश्चेति सर्वेऽपि गौरवान्विता एव स्युरिति समीहा तं निद्रातुमपि न दत्ते स्म । गूर्जरदेशे इदं नास्तीति वचोऽपि तद्धृदये शल्यायते स्म । तस्याऽऽस्थानस्य वैभवं दृष्ट्वा महान्तो नरपुङ्गवाः महापण्डिताश्चाऽपि चकिता भवन्ति स्म । तत्र साधारणः पण्डितस्तु प्रवेष्टुमपि नाऽर्हति स्म । स साहित्यादारभ्य सौन्दर्यं यावत् सर्वविषयेष्वपि रसं दर्शयति स्म, दार्शनिकचर्चासु तत्त्वज्ञाने चाऽप्यानन्दं प्राप्नोति स्म । तस्य महेच्छानां पार एव नाऽऽसीत् । स इच्छति स्म यद् गूर्जरदेशे पत्तननगरे चैकः कालिदासः स्यात् यः स्वीयकाव्यैर्गुर्जरदेशस्य गौरवं समुन्नतं कुर्यात्, योः रघुवंशसदृशीं तादृशीं कृतिमेकां रचयेत् यां श्रुत्वा पठित्वा च धन्यंमन्यः सर्वोऽपि गौर्जरो जनश्चौलुक्यवंशीयानां कीर्तिमाकालं गायेत्, यश्च विद्या-संस्कारादिभिनिसर्गत एव सर्वोत्तमः प्रतिभाशाली च साहित्यकारः स्यात्, ईदृशं साहित्यस्वामिनं स शोधयन्नासीत् समग्रेऽपि देशे । स्वान्वये सर्वोत्तमा शिल्पकला, सर्वश्रेष्ठं साहित्यं, सर्वोदात्ताः प्रजाश्च वर्तेरन् इति तस्य महाकाङ्क्षाऽऽसीत् । तस्य महिमानं समग्रभारतवर्षस्याऽनेके राजानो भय-प्रशंसामैत्र्यादिभावनिरीक्षमाणा आसन् । यदा पत्तने राजपाटिकायां व्रजतस्तस्य हेमचन्द्राचार्यैमिलनं जातं, तैश्च तस्य प्रशस्तिरूपः श्लोकः श्रावितस्तदाऽत्यन्तं प्रसन्नेन सिद्धराजेन चिन्तितं - 'नूनमते महात्मानो मे सर्वानपि स्वप्नानभिलाषांश्च सफलीकरिष्यन्ति' । अतः स तान् स्वीयास्थाने आमन्त्रितवान् । हेमचन्द्राचार्यैरपि तस्य मनोरथाः स्वप्नाश्च लक्षिताः । अतस्तेऽपि तान् पूरयितुकामा इव प्रत्यहं सिद्धराजस्याऽऽस्थानं गन्तुमारब्धाः । अथ च वैक्रमीये ११८१तमे संवति सिद्धराजजयसिंहस्य राजसभायां श्वेताम्बराचार्यवादिश्रीदेवसूरि-दिगम्बराचार्यकुमुदचन्द्रयोर्मध्ये जैनसिद्धान्तानाश्रित्य वादो जातः । तत्राऽयं पण आसीद् यद् यदि श्वेताम्बराः पराजिताः स्युस्तदा तैः सर्वैरपि दिगम्बरत्वं स्वीकरणीयं, यदि च दिगम्बराः पराजिताः स्युस्तर्हि तैः सर्वैरपि देशत्यागः करणीयः* | किन्तु वादिश्रीदेवसूरिभिः प्रतिष्ठापितान् तर्कान् अन्यांश्च चतुरशीतिप्रश्नान् प्रत्युत्तरयितुमक्षमाणां दिगम्बराणां वाचो मुद्रिताः । तैः पराजयं स्वीकृत्य देशत्यागः कृतः। अस्मिश्च वादावसरे श्रीदेवसूरीणां सहायकत्वेन श्रीहेमचन्द्राचार्या अप्यासन् । समाप्ते च वादे वादिश्रीदेवसूरीन् स्तुवद्भिर्टेमचन्द्राचार्यैरुक्तम् - यदि नाम कुमुदचन्द्रं नाऽजेष्यद् देवसूरिरहिमरुचिः । कटिपरिधानमधास्यत कतमः श्वेताम्बरो जगति ? || अनेन वादजयेन तुष्टो राजा जयमुपलक्ष्य राजविहारनामकं जिनप्रासादं निर्मापितवान् । तत्र च प्रतिष्ठावसरे बहवः पण्डिताः समागता आसन् । तेषु चैको महापण्डितो भागवतो देवबोधोऽप्यासीत् । तस्य * राजमाता मयणल्लदेवी स्वीयपितृपक्षे दिगम्बरमतावलम्बिनी आसीत्, आचार्यकुमुदचन्द्रश्च तत्कुलगुरुरासीत् - इत्यतोऽयं पक्षपातः ॥ ५६

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153