Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 55
________________ पद्ययुतैः पृष्टं – 'कस्त्वं भो भाग्यशालिन् ! कौ च ते पुण्यशालिनौ मातापितरौ ?' तावता तस्य कुमारस्य समीपस्थितेन नेमिनाम्ना जनेन सविनयं निवेदितं 'प्रभो! अयं चच्चश्रेष्ठिनतत्पत्न्याः शीलवत्या धर्मपरायणायाश्च चाहिणीनाम्न्या मे भगिन्याः पुत्रो निरुपमरूपवान् प्रकृष्टमतिवैभववान् जगदुद्धरणकरणमनोरथवांश्चाऽस्ति । यदाऽयं स्वमातुर्गर्भे समागतस्तदा तया स्वप्ने प्रथमं स्वीयगृहाङ्गणे विशालो रम्यश्चाऽऽम्रवृक्षः फलितो दृष्टः । तदनन्तरमेव स वृक्षस्तस्या गृहं त्यक्त्वाऽन्यत्र विशाले रमणीये चोद्याने गतः । तत्र स वृक्षः स्वच्छाया - पर्ण - पुष्प फलादिभिर्बहूनां जनानामुपकारकर आश्रयस्थानं च जात इत्यपि दृष्टम् । किञ्च, मातुः कुक्षिस्थेऽस्मिन् देशोऽयं निरुपद्रवोऽशिवादिरहितश्च जात:, सर्वत्र च सुकालः प्रवर्तितः । अस्य जन्मसमये दिङ्मुखानि विमलानि जातानि, जन्मस्थले च सगन्धोदक-कुसुमवृष्टिर्जाता, नभसि च दिव्यवादित्राणां नादः प्रसृतः । अस्य जन्मदिनोऽपि वैक्रमीय११४५तमाब्दस्य कार्तिकी पूर्णिमाऽस्ति । जन्मन आरभ्याऽयं सर्वेषां प्रियः प्रसन्नताप्रदश्चाऽस्ति । अतोऽस्य नाम चङ्गदेव इति स्थापितम् । - एतच्छ्रुत्वा चङ्गदेवस्य च सामुद्रिकलक्षणानि पश्यद्भिर्गुरुभगवद्भिर्मधुरस्वरेण कथितं 'भोः ! अस्य मात्रा स्वप्ने यदुद्यानं दृष्टं तज्जिनशासनमस्ति । तत्र च व्रत - दीक्षाग्रहणपूर्वकं गतोऽयं समस्तशास्त्राणां परमार्थमवगाह्य तीर्थकरवल्लोकोपकारं करिष्यति । अतो भवान् अस्य माता- पितरौ बोधयित्वाऽस्मै दीक्षादानार्थमनुमतिं दापयतु । बहूनां लोकानामुपकारो भविष्यति' । - ततश्चङ्गदेवस्य दीक्षानुज्ञार्थं तै: पित्रोर्बोधनाय बहु प्रयतितं किन्तु पितुरतीवप्रियत्वात् तेन सर्वथा निषिद्धम् । ततो गुरुभगवद्भिस्तन्माताऽऽकारिता कथितं च तत् तस्यै यत् सर्वमपि तन्मातुलस्य कथितमासीत् । तयाऽपि च कथितं - ‘प्रभो ! अहमपि जानामि यदयं मे पुत्रो जिनशासनस्यैव न्यासरूपोऽस्ति । किन्तु अस्य पितुरयमतीव प्रियोऽस्ति । अतः सोऽनुमतिं नैव दास्यत्यस्मै दीक्षाग्रहणार्थम्' । ‘अस्तु, यथाकालं सर्वमपि भविष्यती'त्युक्त्वा कतिचिद्दिनानन्तरं गुरुवस्ततो विहृत्य स्तम्भतीर्थं (खम्भातनगरं) प्रति प्रस्थिताः । चङ्गदेवोऽपि च धर्मैकचित्तो व्रतग्रहणे च तीव्रेच्छुकः पितुरनुपस्थितौ मातुलं मातरं चाऽऽपृच्छ्य गुरुभिः सहैव प्रस्थितः । इतश्च वाणिज्यार्थमन्यत्र गतश्चच्च श्रेष्ठी यदा गृहं प्रत्यागतस्तदा स्वपुत्रं अपश्यन् व्याकुलो जातः, स्वपत्न्याश्च पार्श्वात् तस्य गुरुभिः सहगमनं ज्ञात्वा तया वारयन्त्याऽपि तत्कालमेव स्तम्भतीर्थनगरं प्राप्तः । तत्र च तदा जैनश्रावकः उदयननामा ( गूर्जरदेशस्य महामात्यः) दण्डनायक आसीत् । तेन च चङ्गदेवस्य वृत्तं ज्ञातचरमासीत् । अतः सत्वरमेव स गुरुभगवतां पार्श्वे समागतं चच्च श्रेष्ठिनं यात्रा श्रमापनयनार्थं बोधनार्थं च स्वगृहमानीतवान् तस्य च यथोचितं सत्कारादि कृतवान् । ततश्चङ्गदेवमपि तत्राऽऽनीय तदुत्सङ्गे उपवेशितवान् । अथैतावताऽपि तस्य मनस्तापो व्याकुलता च नाऽपगताऽऽसीत् । स उग्रवचोभिरुक्तवान् 'मन्त्रिवर्य ! अहमेनं गृहे नेतुमेवाऽऽगतोऽस्मि । यदि भवान् मे तथाकर्तुं रोधयेत् तदा मया न्यायार्थं ५०

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153