Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ गुरुभिरपि तं लघुपापं हितकाक्षिणं च ज्ञात्वा तस्मै मानुष्यदौर्लभ्य-मोहप्राबल्यादिबोधिनीहपरोभयलोकसाधनप्रेरिका च धर्मदेशना प्रदत्ता । तां श्रुत्वा तस्य हृदये धर्मानुरागाङ्कराः प्रस्फुटिताः । तेन गुरुपादौ प्रणम्य कथितं - 'भगवन्तः । भवद्भिरुभयलोकसाधनी या प्रेरणा प्रदत्ता साऽपूर्वैव, यतः प्रियतमोऽपि जनः केवलमिहलोकसुखार्थमेव प्रेरयति खलु । तद्भवतां प्रेरणा मम हृदये लग्नाऽस्ति । उचितकालेऽहमवश्यं राज्यमिदं त्यक्त्वा भवतां चरणयोः शरणं स्वीकृत्य निजजनु सफलीकरिष्यामि ।' ततः स पुनः पुनः गुरुपादौ प्रणम्य स्वस्थानं गतः, आचार्यभगवन्तोऽपि सपरिवाराः कतिपयदिनानन्तरं ततोऽन्यत्र विहृत्य गताः । इतश्च राजाऽन्यदा शरत्काले स्वीयक्षेत्रेषु सञ्जातं धान्यजातं विलोकयितुं सीमनि गतवान् । तदात्वे च कर्षकैनिष्फलं तृणादिकं पुञ्जीकृत्य ज्वालयितुमारब्धमासीत् । राज्ञाऽपि तमग्नि विलोकयता सहसा दृष्टं यदेका गर्भवती सर्पिणी तस्यैवाऽग्नेमध्ये कुतोऽप्यागता दग्धाऽस्तीति । तन्मनसि हाहाकारो जातः । पश्चात्तापक्लिन्नहृदयः स सबाष्पनेत्रश्चिन्तितवान् - 'नूनं गृहवासो हि महतां पापानां जनिस्थानमस्ति । अस्य त्याग एव श्रेयस्करः' । एवं च तस्य चित्तं वैराग्यरङ्गरञ्जितं जातम् । स सत्वरमेव स्वनगरं प्राप्य कञ्चिच्छ्रावकमाकारितवान् पृष्टवांश्च- 'महाभाग ! पूज्याः श्रीदत्तसूरिभगवन्तोऽधुना किं वा स्थानं पावयन्ति ?' तेनोक्तं - 'स्वामिन् ! अधुना ते भगवन्तो हि डिण्डुआणकपुरे विराजन्ते' । श्रुत्वैतत् सन्तुष्टो राजा तं सम्मान्य प्रेषितवान् स्वयं च रात्रावेव कमप्यनापृच्छ्याऽश्वारूढो गुरुभगवतां पार्वे समागतः । ततः प्रभाते गुरुभगवतो वन्दित्वा साञ्जलिविज्ञप्तवान् - प्रभो ! मयि कृपां कृत्वा दीक्षादानेनाऽनुगृह्णन्तु माम्' । गुरुभगवद्भिरपि तस्य शुद्धभावं ज्ञात्वा तद्विज्ञप्तिरङ्गीकृता । ततस्तेन स्वकण्ठस्थितो बहुमूल्यो रत्नहारः श्रावकेभ्यो दत्त्वा तन्मूल्येन नूतनं जिनमन्दिर निर्मातुमुपरुद्धम् । श्रावकैरपि तदङ्गीकृत्य शीघ्रमेव मनोरम्यो जिनालयो निर्मापितो योऽद्याऽपि यशोभद्रनृपस्य मूर्तिमत् पुण्यमिव विलसतितराम् ।* ततः प्रशस्ते दिने शुभे मुहूर्ते च राज्ञे गुरुभगवद्भिर्दीक्षा प्रदत्ता । दीक्षावसर एव राज्ञा प्रतिज्ञा कृता यद् - 'अद्यप्रभूति यावज्जीवमेकान्तरदिने उपवासः कर्तव्यः, तत्पारणके चाऽऽाम्लमेव कर्तव्य'मिति । दीक्षानन्तरं च यशोभद्रमुनिर्यथाप्रतिज्ञं तीव्रतपश्चरणं शुद्धव्रतपालनं च कुर्वन् सहैव कठोरपरिश्रमेण श्रुतसागरमप्यवगाह्य क्रमश आचार्यपदमपि प्राप्तवान् । अतः परं यशोभद्रसूरय इति विख्यातास्ते बहुषु ग्राम-नगरादिष विचरन्तो नैकान् भव्यजनान् प्रतिबोधयन्ति स्म यथोचितं साधुव्रतानि श्रावकोचितव्रतानि वा तान् ग्राहयति स्म । एवं च विपुलशिष्यपरिवारयुतास्तेऽन्यदा स्वपदे प्रद्युम्नसूरिरिति स्वीयं समर्थं शिष्यमाचार्यत्वेन स्थापयन्ति स्म । तत एकदा तीव्रतपःशोषितदेहास्ते विहरन्तः सपरिवारा उज्जयन्त(गिरनार)पर्वते समागताः । तत्र * आ.सोमप्रभसूरिः कुमारपालप्रतिबोधग्रन्थे कथयतीदम् । + आचाम्लमिति दिने एकवारमेव रूक्षः शुष्को रसहीनश्चाऽऽहारो ग्रहीतव्यः । ४८

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153