Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 33
________________ गुर्जरशासितेषु प्रदेशेषु, तदा कुमारपालस्य सम्पूर्णतोऽहिंसाया व्यसनमुक्तेश्च सदाऽनुल्लङ्घनीयो विधि: प्रवर्तमानोऽभवदेव ; परं कुमारपालस्य सामन्तानां राज्येष्वहिंसायाः सम्पूर्णतः पालनं नाऽऽसीदिति सम्भाव्यते। सामन्तानां राज्येष्वहिंसाया अधिकाधिकं पालनं कारयितुं स सन्नद्ध आसीत्, राजस्थाने च वैक्रमीयं १२०९संवत्सरं यावत् पक्षे दिनत्रयमहिंसापालने स साफल्यं प्राप्तवानासीदित्येवाऽत्र तात्पर्यम् । ध्येयं त्वेतदेव यत् कुमारपालेन तत्सामन्तैर्वा सम्पूर्णतोऽल्पतो वा यत्किञ्चिदप्यहिंसायाः पालनप्रवर्तनादि विहितं, तस्य प्रेरकबलं हेमचन्द्राचार्या एवाऽऽसन् । तैरुप्ताः कारुण्यसंस्कारास्तावद् दृढमूला जाता, यत् तदनन्तरं शतकानि यावत् तु ते जीवितवन्त एव; परमद्याऽपि, यदा गुर्जरदेशस्य शासकैरहिंसा मध्यकालीनाऽयुक्तरूढिरन्धश्रद्धा वा परिगण्यते, निपुणतयाऽधिकाधिकहिंसार्थं प्रोत्साह्यते च, तदाऽपि, तदात्वे उप्तानां दयासंस्कारानामंशा गुर्जरदेशस्य राजस्थानस्य च प्रदेशेषु दृश्यन्तेऽनुभूयन्ते च । ४. अथ च कीदृशं हेमाचार्याणां शीलम् ? परमनैष्ठिकया ब्रह्मसाधनया मण्डितं योगमयं तपोमयं च तेषां जीवनं तत्प्रतिस्पर्द्धिनामपि हृदये आदरमहोभावं च प्रेरयत् स्यादिति निःशम् । तेषां ललाटे तपोदीप्तिः सत्त्वश्रीश्च तावद् विलसन्त्यौ स्यातां यत् तान् दृष्ट्वैव 'सातं वर्तते ?' इत्येतादृशान् प्रश्नान् प्रष्टुं साहसमेव न भवेदपित्वनायासेनैव मुखात् 'तपो वर्धते ? पुण्यं वर्धते? ज्ञानं वर्धते?' इत्येतादृशा आत्मनिष्ठर्षये एव प्रष्टुं योग्याः प्रश्नो निःसरेयुः । इदं परमं सत्त्वबलमेव ताननासक्तान् समभाविनोऽनन्यसामर्थ्यवतश्च कृतवत् स्यात् ।। __ अस्योदर्करूपेण विकसितं तेषां पुण्यबलं दृश्यताम् । द्वौ द्वौ सम्राजौ तेषां चरणयोः प्रणमने तेषामादेशानुसरणे च स्वसौभाग्यं मन्वाते स्म, स्वनाम्नाऽऽचार्यनाम्नो योजनस्याऽवसरं सगौरवं वर्धापयतः स्म। कदाचिदेवमेव हैमशब्दानुशासनं सिद्धराजस्य हेमाचार्याणां च नाम्नोः संयोजनेन सिद्धहेमशब्दानुशासनरूपेण निमितं स्यात् । ततोऽप्यग्रेगत्य कुमारपालेन तु परदुःखभञ्जकेन वीरविक्रमेणेव जगत एवाऽनणीकरणस्याऽपार्थिवः स्वप्नो दृष्टः, आसेवितः, तद्दिशि च सर्वस्वं विनियोज्य स्वनाम्ना संवदपि प्रवर्तितम् । तत्रापि तेनाऽद्भुतं सृष्टम् । स्वगुरूणां हेमचन्द्राचार्याणां नाम तु तस्य कृतेऽनिवार्यमासीदेव, किन्तु तेन सहैव, स्वस्य वधार्थं सततं प्रयतितवतः, स्वेन दशकानि यावदत्रतत्राऽटाट्यां कारयितुश्च पितृव्यस्य पुरोगामिनो राज्ञः सिद्धराजस्याऽपि नाम तत्र संमील्याऽऽत्मनोऽद्भुतौदार्यस्य परिचयस्तेन विश्वाय प्रदतः । तेन प्रवर्तितस्य संवत्सरस्य नामाऽऽसीत्-सिद्धहेमकुमारसंवत् । __ अस्य संवन्नाम्नो द्वे प्रमाणे समुपलभ्यते । एकं-हेमाचार्यैविरचिताया अभिधानचिन्तामणिनाममालायाः स्वोपज्ञविवरणे (६.१७२) - 'संवद् वर्षे । यथा विक्रमसंवत्, सिद्धहेमकुमारसंव'दिति । द्वितीयं - सौराष्ट्र श्रीशत्रुञ्जयतीर्थे चतुर्मुखजिनालये एकत्र विराजमाने धातुविग्रहे उत्कीर्णो लेख: - 'श्रीसिद्धहेमकुमार सं. ४ वैशाख व. २ गुरौ भीमपल्लीसत्क व्यव. हरिश्चन्द्र भार्या गुणदेवि श्रेयार्थं श्रीशान्तिनाथबिम्बं कारित मिति । २८

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153