Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
स्यात् । दृष्ट्वा च तद् विलक्षणं शिल्पमाचार्यचेतस्यभिनव उन्मेष उद्भूतः स्यात्- त्रयाणां तत्त्वानां मिथो भिन्नत्वे मूर्तेरैक्यं कथम् ? किं च तद्रहस्यम् ? त्रिमूर्तिरूपेण प्रतिष्ठिता ब्रह्मविष्णुमहेशा वस्तुतः के ? इति । क्षणं यावत् तस्मिन् चिन्तनाम्भोधौ निमज्ज्य तस्याऽगाधगाम्भीर्यत आचार्यैरुपलब्धं रहस्यं त्वेतत्ते ब्रह्मविष्णुमहेशा न स्थूलभौतिकतत्त्वानि, प्रत्युत निराकाराणि गुणात्मकानि परमतत्त्वानि । तेषां नामानि यदृच्छया दीयन्ताम्- ब्रह्मविष्णुमहेशा इति ज्ञानदर्शनचारित्राणीति वा । शब्दभेदेन न पारमार्थे किञ्चिदपि भेद इति । महादेवद्वात्रिंशिकायां प्रदर्शितः समन्वयोऽयं किल हेमाचार्यसन्निभस्य प्रचण्डमेधावतः कृते एव सुशकः । अन्यस्य कस्य तत्सामर्थ्यम् ?
हेमाचार्यैः सोमनाथदेवालये शिवलिङ्गसमक्षं प्रणीतस्य स्तोत्रस्य सम्बन्धे कानिचन तथ्यानि ज्ञेयानि। तथाहि
१. स्तोत्रस्याऽस्य सत्यं नाम महादेवस्तोत्रं वीतरागमहादेवस्तोत्रं वा नाऽस्ति, अपितु महादेवद्वात्रिंशिका
इति ।
२. द्वात्रिंशिकायामस्यां तन्नामानुरूपमनुष्टब्वृत्तीयानि द्वात्रिंशदेव पद्यानि (अपवादरूपेणाऽष्टाविंशतितममार्याछन्दसि), त्रयस्त्रिंशत्तमं चोपसंहाररूपमार्याछन्दसि । अद्योपलभ्यमाने चतुश्चत्वारिंशत्पद्यात्मके महादेवस्तोत्रेऽधिकानि पद्यानि पश्चात् प्रक्षिप्तानि स्युरिति सम्भाव्यते । तथ्यमिदं प्राचीनप्रत्याधारण प्रमाणीभवति ।
३. प्रबन्धेषु यद्यपि सोमनाथयात्रावर्णनेऽन्तिममेव पद्यं दृश्यते । परं तद् दृष्ट्वा 'शिवालये तु हेमाचायैरेक एव श्लोक उक्तः, स्तोत्रं तु पश्चाद् विरचित'मिति कल्पना न युक्ता । तादृशाः समर्था आचार्याः, यदा विशालो जनसमुदाय: साकाङ्क्षीभूयोपस्थितः स्यात् तदा, एकेनैव श्लोकेन स्तुति समापयेयुरित्यसम्भवम् । विस्तरभिया संवादादीनां सङ्क्षेपीकरणं प्रबन्धेषु बहुधा दृश्यते एवेति ।
४. 'स्तोत्रेऽस्मिन् न काऽपि दार्शनिकप्रौढता दृश्यते । अतीव साधारणैषा कृति'रिति केषाञ्चिच्चिन्तनम् । परं ते प्रष्टव्या यत् शब्दगतकाठिन्येनैव किं दार्शनिकप्रौढता सम्पद्यते? नूत्नतत्त्वोद्घाटनं त्वस्माभिस्त्रिमूर्त्तिविषये यथा दृष्टं तथाऽस्मिन् स्तोत्रेऽस्त्येव । महादेवस्य महत्त्वस्यैश्वर्यस्य च विषये सूक्ष्मविमर्शोऽप्यत्र बहुधा समस्ति । तज्ज्ञा एवाऽत्रस्थानि रहस्यानि प्रतिबोधयितुं प्रभवेयुः ।
स्तोत्रस्थवैशिष्ट्येष्वेकं वयमपि पश्येम- 'अर्हम्' इति हेमाचार्याणां परमप्रियो नित्यं हृदयस्थः प्रणिधानमन्त्रः । स्तोत्रेऽस्मिन् तैर्मन्त्रस्याऽस्य निरुक्तिर्घटकतत्त्वानि च स्फुटं वर्णितानि । सामान्यतो मन्त्रोऽयं जैनधर्मसम्बद्धो जैन-पञ्चपरमेष्ठिनां समावेशक एव परिगण्यते । परं स्तोत्रेऽस्मिन् ब्रह्मविष्णुमहेशानामपि 'अहम्'मन्त्रघटकतत्त्वरूपेण समावेशः प्रदर्शितोऽस्ति । किमियं न दार्शनिकप्रौढता ?।
३२

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153