Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रारम्भे तु गूर्जरदेशो लघुरेवाऽऽसीत्, किन्तु शनैः शनैः तच्छासकानां शौर्य-पराक्रम-नीतिबलेन तस्य सीमानो विस्तारं प्राप्ताः । देशस्य प्रजाभिरपि निकटस्थ-मालवदेश-श्रीमालदेश-वलभीप्रदेशादीनां संस्कति-संस्कारादीनामाधारेण स्वसंस्कृति-संस्कारादयोऽकरिता वृद्धि प्रापिताश्च । किन्तु तासां(प्रजानां) धर्मसंस्कार-प्रेम-दया-ऽहिंसादयस्तु जैनमुनिभिरेवाऽऽमूलमारोपिता अङ्करिता: पल्लविताश्च । जैनाचार्यैर्हि जानद्भिरजानद्भिर्वा गूर्जरप्रजानां मानसं संस्कर्तुं पूर्णतया प्रयतितमस्ति । यतः पूर्वोत्तरदेशेभ्यो निःसृतानां जैनानां प्रथममाश्रयस्थानं राजस्थानप्रदेशस्ततश्च गर्जरदेशो जातोऽतस्तौ द्वावपि देशौ संस्कर्त धर्मसमद्धं च कर्तुं जैनसाधुभिः स्वीयं सर्वं सत्त्वं व्यापारितमिति यदि कथ्येत तदा नाऽस्ति अतिशयोक्तिः ।
इतिहासविदोऽपि वदन्ति यद् भिन्नमाल-वलभ्योः पतनानन्तरं गूर्जरदेशं गूर्जराणां शासनं च स्थापयितुं द्रढयितुं च जैनमन्त्रिभिर्जेन श्रेष्ठिभिश्चैवाऽत्यधिकतया प्रयतितं साफल्यं च प्राप्तमस्ति । कथनमिदं सर्वथा वास्तविकमस्ति । गूर्जराणां प्रथमस्य राज्ञो वनराज-चापोत्कटस्य मन्त्रिणो जाम्बश्रेष्ठिन आरभ्य आधुनिकसमये श्रेष्ठिश्रीलालभाई-दलपतभाई इत्येनं तथा श्रेष्ठिश्रीकस्तूरभाई-लालभाई-इत्येनं यावत् पश्येम तदा ज्ञायते यद् राजकीयपरिस्थितिषु जैनानां वर्चस्वं प्रभावश्च कीदृशोऽस्तीति । यद्यप्यैदंयुगीना जैनश्रेष्ठिनो न तथा राजकीयप्रभावयुताः सन्ति तथाऽपि तथ्यमेतत् तु जगद्विदितमस्ति यद् भारतदेशस्याऽधिकांशं वाणिज्यं जैनश्रेष्ठिन एव कुर्वन्तीति ।
एवं च गूर्जरदेशस्य तत्प्रजानां च संस्करणे समृद्धीकरणे च मुख्यभागो जैनानामस्ति । ब्राह्मणानामन्येषामपि धर्मिणां तत्र भागोऽस्त्येव - इति तु सर्वथा स्वीकार्यमेव, तथाऽपि अहिंसा-दया-निरुपद्रवितादिगुणान् प्रजानां मानसे प्रवाहयितुं स्थिरीकर्तुं च जैनाचार्यैर्यथा यावच्च प्रयतितं तथा तावच्च नाऽन्यः । अद्यत्वे गूर्जरराज्यादन्यानि राज्यानि पश्येम, यत्र पुरा ब्राह्मणादीनामेव वर्चस्वमासीत्, तत्र हिंसा-मांसभक्षणमद्यपानादयः सर्वथा सुलभाः । ननु ब्राह्मणजातीया एव मांसाहारं कुर्वाणा अपि दृश्यन्ते कुत्रचित् । एतद्वैपरीत्येन यत्र पूर्वं जैना आधिक्येनोषितास्तत्राऽहिंसा-शान्त्यादीनि विलोक्यन्तं एव ।
गूर्जरदेशमेवाऽधिकृत्य वदेम तदा गूर्जरदेशे चापोत्कटवंशीयानां शासनस्याऽऽद्यस्थापकस्य वनराजचापोत्कटस्य गुरवो जैनाचार्याः श्रीशीलगुणसूरय आसन्, येषां धर्मपूर्ण मार्गदर्शनं प्राप्य वनराजेन स्वीयवंशस्थापना न्याय्येन पथा दृढीकृता । ततश्च तदारभ्य गूर्जरदेशस्य राजधान्यां श्रीमदणहिल्लपुरपत्तने राजसभायां जैनसाधूनां स्थानं महत्त्वपूर्ण स्थिरं च जातम् ।
ततश्चौलक्यवंशस्थापकस्य मलराजदेवस्य शासनेऽपि जैनाचार्याणां स्थानमविचलमासीत् । तत्पत्रेण चामण्डराजेन तु स्वीये शासने श्रीमतो वीरगणिनो जैनमनेराचार्यपदप्रदानमहोत्सवः कारित आसीत्, ते चाऽऽचार्या निजगुरुपदे स्थापिताः । तस्य पुत्रेण दुर्लभराजेन स्वीये शासने सर्वेषामपि जैनसाधूनां पत्तननगरे वासायाऽनुमतिः प्रदत्ता । तदवसरे च समागता जैनागमटीकाकृतां श्रीमदभयदेवसूरीणां
* यथा महाराष्ट्रे ।
+ यथा कर्णाटके।
४५

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153