Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 49
________________ मासीत् । अतो बहवो जैनसाधवस्तत्रैव समागताः । तानेवानुसरन्तो जैनश्रावका गृहस्थाश्चाऽपि समागताः । ते च स्वेन सह भाषां, जैनसंस्कृति, जैनग्रन्थान्, लिपि, लेखनकलां, मुख्यतश्चाऽहिंसामयं दयापूर्णं च धर्ममपि समानीतवन्तः । अनेन राजस्थाने मेवाडप्रदेशे मरु(मारवाड)प्रदेशे च शनैः शनैः जैनधर्मप्रसारो जातः । अथ च राजस्थानादपि जैनसाधवो विहृत्य विहृत्य दक्षिणे सौराष्ट्रदेशे, वलभीप्रदेशे, लाटप्रदेशे चाऽपि गताः । तत्र च पूर्वमेव बौद्धानां प्रसर आसीत् । ते हि अशोकस्य कालादेव राज्याश्रयं प्राप्ताः सन्तोऽत्र बद्धमूलाः सञ्जाताः । (तेषां स्थानानि अद्याऽपि गिरिनगरे (जूनागढ) तालध्वजे (तलाजा[भावनगरं]) च द्रष्टुं शक्यानि ।) एतेषां त्रयाणामपि प्रदेशानां मध्यविभाग आनर्तप्रदेशतयोपलक्ष्यमाणोऽथाऽपि विकसितो नाऽऽसीत् । तत्र हि बहुश आभीरजातयोऽन्याश्च तादृश्यो यायावरजातयो वसन्ति स्म । विक्रमस्य सप्तमे शतके समग्रे भारते विचरितो ह्यु-एन-त्सांगः स्वपरिभ्रमणलेखेषु मो-ला-पो (मालवः), फ-ल-पी (वलभी), कु-चे-लो (गूर्जर:-भिन्नमालः), सु-ला-चा (सुराष्ट्रा), युह-शं-तो (उज्जयन्तः-गिरिनगरम्) इत्यादीनुल्लिखन् कथयति यदेते प्रदेशा अतीव समृद्धाः सन्ति । अत्र बौद्धानां शतशो विहाराः सन्ति, अन्येषामपि च धर्माणां मन्दिरादिस्थानानि सन्ति - इति । इतश्च भिन्नमाल(श्रीमाल)प्रदेशे गूर्जरज्ञातीया राजपुत्राः क्षत्रियाश्च किञ्चिदिव दुर्बला जाता आसन् । अतस्ते शनैः शनैस्ततो निःसृत्याऽऽनर्त-सौराष्ट्रादिप्रदेशेषु समागत्य तत्रैव वसन्ति स्म । अत आनर्तप्रदेशोऽपि शनैः शनैर्विकासं प्राप्तः । एतेन जैनसाधवोऽपि तत्र विहरन्तः समागताः । तत्रत्यांश्च जनान् धर्म-संस्कारादिषु मार्गदर्शनं कृतवन्तः । तथा च स प्रदेशो धर्म-संस्कारादिभिः समद्धो जायमान आसीत् । ____ अथ च तदात्वे श्रीमालदेश-लाटप्रदेश-सौराष्ट्रप्रदेश-वलभीप्रदेशादिषु जैनानां बौद्धानां च मध्ये बहवो वाद-विवादा जायन्ते स्म । बौद्धाश्च राज्याश्रयं प्राप्तत्वात् अधिकसमर्था आसन्, अतोऽपि जैनास्तेषां साम्मुख्यं कर्तुं किञ्चिदिवाऽशक्ता आसन् । तावता वलभीप्रदेशे स्थितेन प्रभावकेण महाजैनाचार्येण मल्लवादिगणिक्षमाश्रमणेन बौद्धैः सह वादं कृत्वा ते जिताः । तत्राऽयं पणबन्ध आसीत् – यदि जैनाः पराजिता भवेयुस्तदा तैबर्बोद्धानां शिष्यत्वमङ्गीकर्तव्यं, यदि च बौद्धाः पराजिताः स्युस्तदा तैर्देशत्यागः कर्तव्यः । ततश्च बौद्धा (श्रीमालदेशाल्लाटप्रदेशं यावत्) देशत्यागं कृत्वा निर्गताः ।* इतश्च विक्रमस्य नवमे शतके वलभीप्रदेशस्य तुरुष्कैर्भङ्गः कृतः । अन्यतः पूर्वोत्तरभारते शङ्कराचार्यस्य प्रभावेण शिष्टा जैना अपि ततो निर्गत्य पश्चिमभारतं समागताः । श्रीमालप्रदेशाच्चाऽधिकाधिकगूर्जरा आनादिप्रदेशेषु समागताः । अतस्तदात्व एव गूर्जराणामाधिक्यात् स प्रदेशः गूर्जरदेशतया प्रसिद्धो जातः । गूर्जरेष्वपि मुख्यतः चापोत्कट (चावडा) वंशीयाः क्षत्रिया एव तत्र प्रबला आसत्, अतस्ते एवाऽत्र प्रदेशे शासका जाताः । * बौद्धानां पश्चिमभारतान्मल्लवादिना, दक्षिणभारतादकलङ्कदेवेन, शेषभारताच्च शङ्कराचार्येण देशत्यागः कारितः ॥ ४४

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153