Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 47
________________ अयि भोः ! संस्कृतभाषा - काव्य - साहित्य- तर्क - योग-पुराणेतिहासप्रभृतिविद्याध्ययनाध्यापनसर्जनादिपटिष्ठा विद्वज्ज्येष्ठा: ! परिचितचरा एव तत्रभवतां भवतां पाणिनि - मम्मटानन्दवर्धनामरसिंहकालिदासाक्षपाद-पतञ्जलि - व्यासादयो महर्षयो महाकवयो ग्रन्थकाराश्च । एतैर्विना हि समग्रा अपि पूर्वोक्ता विद्याशाखा: शून्यायेरन् खलु ! किन्त्वेतेषामेव विविधदेशेषु विविधकालखण्डेषु च सञ्जातस्थितिकानां समन्वय एकस्मिन्नेव देशे एकत्र चैव कालखण्डे एकस्यां चैव व्यक्तौ सञ्जात इति वार्ता कदाचित् कर्णनयन-मनोगोचरा स्यात् तदा सा किं श्रद्धेया भवेत् खलु ? नैव । असम्भवितमेवैतत् किल ! कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्याणां जीवनचरितम् मुनिकल्याणकीर्तिविजयः तथाऽपि एतस्मिन्नेव भारते देशेऽसम्भवितमपि तथाऽश्रद्धेयमप्येतत् सञ्जातमेव । कदा ? कुत्र ? इतिप्रश्नावलिरुत्तिष्ठेतैव नो मनस्येतत् श्रुत्वा । अरे ! इदामिदानीमेवाऽस्मिन्नेव सहस्राब्देऽत्रैव च गूर्जरदेशेऽसम्भवितमप्यश्रद्धेयमपि चैतत् सञ्जातं कलिकालसर्वज्ञानां श्रीमतां हेमचन्द्राचार्याणां जीवने । तेषां नित्यस्मरणीयमभिधानं केषां देश- विदेशीयानां विदुषामविदितं ननु ! विश्वस्यैकमनुपमं च महाव्यक्तित्वं, भारतीयसंस्कृतेर्यशउज्ज्वला गौरवगाथा, गूर्जरदेशं भाषा-साहित्य-संस्कारैः समृद्धीकुर्वज्जीवत् तपः, ज्ञानमहार्णव(Ocean of knowledge) तया अतिशायिप्रज्ञ (Intellectual giant) तया च सर्वत्र प्रथितं सार्वकालिकं सार्वदेशिकं विश्वजनीनं व्यक्तित्वं किलैतत् - इति तु सर्वथाऽविज्ञापनीयमेव विदुषां खलु । एवंस्थितेऽपि ऐदंयुगीनानां विद्याचणानां विद्यार्थिनां जिज्ञासूनां च कदाचित् जायेताऽपि जिज्ञासा कथङ्कारमेते विश्वस्याऽनुपमं महाव्यक्तित्वं सम्पादितवन्त: ? कथङ्कारं चैते ज्ञानमहार्णवता अतिशायि-प्रज्ञतया च जगति प्रसिद्धाः ? कथं च गूर्जरदेशं भाषा-साहित्य-संस्कारैरेते समृद्धीकृतवन्त: ? कथङ्कारं चैतेषु पाणिनि-मम्मटानन्दनवर्धनामरसिंह- कालिदासाक्षपाद-पतञ्जलि - व्यासादीनां महर्षीणां महाकवीनां ग्रन्थकाराणां च समन्वयः ? इत्यादि । यत् - एताः सर्वाः अन्याश्चाऽनुक्ताः सर्वा अपि जिज्ञासा: शमयितुमेवाऽयमुपक्रमो रचितोऽस्ति । किन्तु स्थीयतां क्षणम् । तैर्हि विश्वजनीनैर्महात्मभिर्यौ देश - कालावलङ्कृतावास्तां तावपि प्रथमं ज्ञैयौ खलु ! अतः ऐदम्प्राथम्येन तावेव प्रथमं विचारयामः । तत्राऽपि प्रथमं तावत् तेषां देशं जन्मभूमिं कर्मभूमिं विचरणभूमि * अपारश्रुतकूपारदृश्यतया सञ्जातकलिकालसर्वज्ञप्रसिद्धेः । ( कुमारपालचरितसङ्ग्रहे) ४२

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153