Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 45
________________ जई हिमगिरिहि चडेविणु निवडइ अह पयायतरुहि वि इक्कम । निक्कइअवें विणु समयाचारेण विणु मणसुद्धिऍ लहइ न सिवु जणु ॥८- २०॥ (सं. यदि हिमगिरौ आरुह्य निपतति अथ प्रयागतरौ अपि एकमनाः । निष्कैतवेन विना समयाचारेण विना मनः शुद्धया लभते न शिवं जनः ॥ ) (यदि हिमगिरौ प्रयागवटे चाऽपि आरुह्यैकमनाः निपतति, तथाऽपि निष्कैतवेन समयाचारेण मनः शुद्ध्या च विना जनः शिवं न लभते ।1) तं बोल्लिअइ जु सच्चु पर, इमु धम्मक्खरु जाणि । अहो परमत्था, एहु सिवु, एहु सुहरयणहं खाणि ॥ ८-३९॥ (सं. तत् कथ्यते यत् सत्यं परं इदं धर्माक्षरं जानीहि । एषः परमार्थः, एतत् शिवं, एषा सुखरत्नानां खानि: ।) (केवलं सत्यमेव वदनीयम् - एतदेव धर्माक्षरः, परमार्थः, शिवं सुखनिधिश्च सन्ति, इति ज्ञेयम् ।) सच्चई वयणई जो बुवइ, उवसमु वुञइ पहा । पस्सदि सत्तु वि मित्तु जिम्वं, सो गृण्हइ निव्वाणु ॥ ८-४४ ॥ (सं. सत्यानि वचनानि यो ब्रूते, उपशमं व्रजति प्रधानम् । पश्यति शत्रुमपि मित्रं यथा स गृह्णाति निर्वाणम् II) (यः सत्यवचनानि वदति, सदा उपशमयति, शत्रौ मित्रे च समदृष्टिः, सो जनो निर्व्वाणं प्राप्नोति ।) - इत्यादि । कथं वर्णयानि कलिकालसर्वज्ञस्योदारदृष्टिम् ! द्वौ महापराक्रमिणौ समर्थौ च राजानौ सूरेस्तस्य भक्तौ आस्ताम् । ततो यस्य राजानौ भक्तौ तस्याऽनुयायिवर्गोऽतिविशालः स्यादेवेत्यत्र न काऽपि शङ्का । यदीच्छेत् स तर्हि भिन्नसम्प्रदायस्य स्थापनं कुर्यात्, राज्ञो बलेन बलात्कारेण चाऽपि जैनधर्मानुयायिनः सङ्ख्यावृद्धिं कारयेत्, स्वनामाङ्कितानि बहूनि मन्दिराणि धर्मस्थानकानि ग्रन्थालयान् च निर्मातुं शक्नुयात्, तथाऽपि कुत्रचिदपि स्वस्य स्वधर्मस्य च महत्तां प्रस्थापयितुं प्रयत्नो न कृतः सूरिणा । यत एष सूरीशो न महत्त्वाकाङ्क्षी, नाऽपि चाऽहङ्कारी आसीत्, अपि तु समदर्श्यदारदृष्टिश्चाऽऽसीत् । एतौ द्वौ अपि राजानौ सूरेस्तादृशौ रागिणौ आस्ताम् यतः सिद्धराजेन स्वशासने 'सिद्ध - हेमसंवत्' इत्यस्य तथा कुमारपालेन ' सिद्धहेम - कुमारसंवत्' इत्यस्य प्रारम्भः कृत आसीत् । अत्र सूरीश्वरः केवलं ‘हेमसंवत्, हेम-सिद्धसंवत्, हेम-सिद्ध-कुमारसंवत्' चेति कर्तुं शक्तः आसीत्, किन्त्वदारदृष्टिना सूरिणैवं न कृतम् । ततोऽप्यधिकमौदार्यं त्वेतद् यत्- 'सिद्धराजस्तु कुमारपालस्य शत्रुरूप आसीत्, तथाऽपि सूरिणा सदुपदेशद्वारेण सिद्धराजस्याऽपि नाम कुमारसंवति उल्लेखित 'मिति । ४०

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153