Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 46
________________ अद्य गूर्जरजनानां चित्ते सहिष्णुतौदार्यं सर्वधर्मसमन्वयदृष्टिश्चेत्यादयो ये ये गुणा दृश्यन्ते, तेषां मूलमस्ति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यः । सूरिणा उक्तं चाऽपि आद्यो धर्मो व्रतस्थानां विरोधोपशमः खलु ॥ ___ यं कमपि धर्मं देवं वाऽऽश्रयन्तु, किन्त्वन्येषां धर्माणां देवानां वा तिरस्कारमवहेलनं च न कुर्वन्तु । सदा सर्वैः सह समभावेन व्यवहरन्तु । सूरिणाऽस्य सम्पूर्णतया पालनं कृतम् । कुत्रचिदपि क्लेशो न कृतो न कारितश्च । समभावभावितात्मनः कलिकालसर्व-श्रीहेमचन्द्रसूरेश्चरणयोः सूरिपदस्य नवमशताब्दीवर्षे शतशो वन्दनानि । श्रीदेवसूरीणां दिगम्बरैः सह वादे जायमाने आचार्यहेमचन्द्रा अपि तेन सार्धं गताः । तदा दिगम्बरः कुमुदचन्द्रवादी स्वयं ज्यायान् किञ्चिद्व्यतिक्रान्तशैशवं श्रीहेमचन्द्रं प्रति 'पीतं तक्रं भवता?' इत्यभिहिते श्रीहेमचन्द्रस्तं प्रति 'जरातरलितमतिः किमेवमसमञ्जसं ब्रूषे ? श्वेतं तक्रं, पीता हरिद्रा' इति वाक्येनाऽधःकृतः 'युवयोः को वादी ?' इति पृच्छन् श्रीदेवसूरिभिस्तिरस्करणाय 'अयं भवतः प्रतिवादी'त्यभिहिते कुमुदचन्द्रः प्राह - 'मम वृद्धस्याऽनेन शिशुना सह को वादः ?' इति तदुक्तिमाकर्ण्य 'अहमेव ज्यायान, भवांस्तु शिशुः योऽद्याऽपि कटीदवरकं निवसनं च नाऽऽदत्से' इति हेमचन्द्रेणोक्तम् । (प्रबन्धचिन्तामणिः)

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153