Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 35
________________ कियती प्रीतिः सम्पादिता स्यात् ! * * * शङ्केयं मनसि जातु जायेत यद् राज्ञोरनुनयार्थं हेमाचार्यैः कियती चाटुकारिता कृता स्यात् ? तयो: कियत्यः प्रशस्तयो रचिता भवेयुः ? आत्मनो जीवने चर्यायां च कियत् परिवर्तनमङ्गीकृतं स्यात् ? इति । I जायेत, अवश्यं जायेत | ‘राजा मित्रं केन दृष्टं श्रुतं वा' इत्येतत् सूत्रं परिचिन्वानस्य यस्य कस्याऽप्येतादृशी शङ्का जायेतैव । परमस्योत्तरमेतावदेव यद् भौतिकीनामेषणानामासक्तीनां च बन्धनैर्यो ग्रस्तः स्यात्, तस्य कृते ईदृशी कल्पना यथा पूर्णतो वास्तविकी समुचिता च भवेत्; तथा परमनिरीहस्याऽनासक्तस्य सकलकल्याणसाधकस्य च साधुजनस्य कृते ईदृगाशङ्काया आनयनं सर्वथाऽवास्तविकमनुचितं च । 'हेमचन्द्राचार्यै राज्ञोश्चाटुकारिता कृता स्यादित्यस्याऽपेक्षया 'राजभ्यां हेमाचार्याणां प्रीत्यर्थं कृपादृष्टिप्राप्त्यर्थं च सततं प्रयत्नो विधीयमानो भवेदिति सत्यस्य नेदीयः । अत्रैकतो हेमाचार्याणां निर्लेपगरिमाऽऽकल्यते, अपरतश्च तयोः सत्ताधीशयोः संस्कारिताऽपि दृश्यते । कियत्संस्कृतौ भवेताममू राजानौ यत् साधुताया विद्वत्तायाश्च चरणयोः प्रणिपतने आत्मनो गौरवमनुभवेताम् ! हेमाचायैर्जीवनस्य बहूनि वर्षाणि गुर्जरभूमौ तत्राऽपि विशेषतोऽणहिलपत्तने एव व्यतीतानि । तैर्जीवनस्य प्रारम्भकाले एवैकोऽगोचरः सङ्केतो लब्ध आसीत् - "महात्मन् ! भवता गुर्जरदेशो न कदापि त्यक्तव्यः । यतो भवतः पुरुषार्थेनाऽत्र प्रभूतानि पारमार्थिकानि कार्याणि सेत्स्यन्ति । अन्यत्र गमनेन तान्यशक्यानि भविष्यन्ति । ततो न विहातव्यं गुर्जरराष्ट्रम्" इति । ( कुमारपालप्रतिबोध:) आचार्याः सङ्केतमिमं सम्यगन्वसरन् । फलतः सम्राजोर्द्वयोः सम्पर्कं साधनीकृत्य ते शक्ता गुर्जरदेशे साम्प्रदायिकं सौहार्दं विकासयितुं, गुर्जरप्रजाभिर्जीवदयां पालयितुं, विद्याक्षेत्रे संस्कारेषु च दरिद्रत्वेन परिगण्यमानं गौर्जरराष्ट्रं वैश्विकस्तरे विद्याधामत्वेन संस्कारभूमित्वेन च निर्मातुम् । अस्य कृते राज्ञां राजनीतिज्ञानां राजनीतेश्च सम्पर्कस्तेषां जीवनेऽनिवार्य आसीत् । परं ते आजीविका, दानपत्राणि, सत्ताधिकारः, पदोन्नतिः - इत्येतादृशां भौतिकतत्त्वानां लिप्सवो स्तुतिपाठकजातीया वा नाऽऽसन्, यत्तैः कस्यचन चाटुकारिता करणीया भवेत् । ते तु प्रभावका विवेकपुरुषा आसन् । सर्वेषामादरः, तद्द्वारा च सर्वेषां स्वकीयस्याऽभिगमस्य दिशि प्रेरणं, समग्रवातावरणस्याऽऽनुकूल्यसम्पादनं, ततश्च स्वकीयत्वेऽप्यवैयक्तिकानां स्वार्थरहितानां च प्रयोजनानां साधनं - एषा तेषां कार्यपद्धतिरासीत् । अन्ततस्तु ते श्रमणा आसन् – अकिञ्चना वीतरागाश्च । ते नैव राजसकाशात् सुखासिकादीनां बहुमानं गृहीतवन्त: । धनं ग्रामाधिपत्यं भूमिस्वाम्यं वा नैव प्राप्तवन्तः । स्वकीयमाश्रमं मठं वा नैव स्थापितवन्तः । नैव स्वकीयं सम्प्रदायं प्रवर्तितवन्तः, न चैव तदर्थं राजसाहाय्यं याचितवन्तः । सन्दर्भेऽस्मिन् श्रीमद्राजचन्द्रैः कथिता वार्त्ता स्मर्यते । तात्पर्यं श्रीमतामस्ति, शब्दा अस्य ३०

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153