Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 30
________________ [पूज्यपादा गुरुभगवन्त: श्रीविजयशीलचन्द्रसूरयः कलिकालसर्वज्ञ - श्रीहेमचन्द्राचार्याणां नवशततमं जन्मोत्सवं निमित्तीकृत्य ( विक्रमसंवत् २०४५ वर्षे) हेमाचार्यैर्विरचितं महादेवद्वात्रिंशिकास्तोत्रं संशोधनपुरस्सरं प्रकाशितवन्त आसन् । विगतवर्षे आचार्याणां नवशततमे सूरिपदोत्सवे पुस्तकस्याऽस्य द्वितीयाऽऽवृत्तिः प्रकाशिता श्री हेमचन्द्राचार्याः तैर्विरचितं महादेवद्वात्रिंशिकास्तोत्रं च ऽभूद्, यस्यां गुरुदेवैरावश्यकं संशोधनं संवर्धनं च विहितमासीत् । अस्मिन् पुस्तके तैर्गुर्जरभाषया या तथ्यान्वेषिणी भूमिकाऽऽ लिखिता समभवत्, सा बहूनां मान्यानां समादरभाजनं जाता । नन्दनवन - सम्बन्धिभिस्तथ्यैरवगता भवन्त्विति धिया श्रीविजयशीलचन्द्रसूरयः अनु. - मुनि त्रैलोक्यमण्डनविजयः कल्पतरोर्वाचका अपि हेमाचार्याणां महादेवद्वात्रिंशिकायाश्च तस्या भूमिकायाः सङ्क्षिप्तानुवादोऽत्र प्रस्तूयते ।] वैक्रमीयः २०४५ संवत्सरो यथा कलिकालसर्वज्ञ- श्रीहेमचन्द्राचार्याणां नवमजन्मशताब्द्या वर्ष आसीत्, तथा वैक्रमीयः २०६६वत्सरस्तेषामाचार्यपदप्राप्त्या नवशततमं वर्षमस्ति । ईदृशाः पुण्या अवसरा अस्मभ्यं तेषां धन्यानां गुणस्तुत्यर्थं, तज्जीवनकवनविषये चिन्तन - परिशीलन - स्वाध्यायाद्यर्थं, तैर्विहितानां सुकृतानां मूल्याङ्कनार्थं च सबलं निमित्तं ददति । कलिकालसर्वज्ञानां जन्मदिनमस्ति कार्तिकी पूर्णिमा । दिनमिदं कियन्महिमान्वितम् ! सिक्खसम्प्रदायप्रवर्तकानां गुरुनानकदेवानां जन्मदिनमपीदमेव । तथैव विंशशताब्द्या जैना आत्मसाधकाः श्रीमद्राजचन्द्रा अप्यस्मिन्नेव दिने जनिं लब्धवन्तः । यद्यपि जनिसमयो न मनुजेच्छावशवर्ती, तथाऽपि महतां जन्मदिनं जन्मसमयश्च समापत्त्या सहजतयैव वा तथा घटेते; यथा तेषां विदेहानन्तरमायतिसन्ततीनां कृते तानि दिनानि ते क्षणाश्चोत्सवस्य प्रेरणायाश्च मङ्गलं पर्व समापद्यन्ते । कार्तिकपूर्णिमातुल्य एव महत्तापूर्णो मङ्गलदिवसोऽक्षयतृतीया । वैशाखशुक्लतृतीयाया इदं शुभदिनं श्रीहेमचन्द्राचार्याणामाचार्यपदप्राप्तेरहः । भारतवर्षे संवत्सरस्य येऽङ्गुलिगण्यास्त्रिचतुरा वासराः सर्वश्रेष्ठा मङ्गलमुहूर्त्तनिभाश्च परिगण्यन्ते, तेष्वियमक्षयतृतीयाऽपि समाविष्टा भवति । ईदृशे श्रेष्ठदिने, विक्रमसंवत् ११६६वर्षे एकविंशतिवर्षात्मिकायामुद्गच्छद्यौवनस्य वासन्त्यां कलायां, जैनधर्मसङ्घस्य सर्वोच्चपदं-सूरिपदं प्राप्येत; तदपि महापुरुषाणाममीषां जीवनस्य कीदृशी मधुरा समापत्ति: ! * * * यदि श्रीहेमचन्द्राचार्याणां समग्रतया मूल्याङ्कनं चिकीर्षितं भवेत्, तदपि पुनः सङ्क्षेपेण ; तर्हि तेषां जीवनं चतुर्षु भागेषु विभाजनीयं भवेत् : १. साहित्यसर्जनम् २. संस्कारवपनम् ३. अमारिप्रवर्तनम् ४. ब्रह्मयोगतप:साधनम् । २५

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153