Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 23
________________ बालोऽप्यबालधिषणः स गुरुणा सह विहरन् क्रमशः स्तंभतीर्थ(खंभात)नगरं संप्राप्तः । तत्र तवास्तव्यनेमिनामकतन्मातुलद्वारा चाचिगपाहिण्यौ विबोध्य गुरुश्रीदेवचन्द्रसूरिणा नववर्षीयश्चांगदेवो दीक्षितः, तस्य मुनिसोमचन्द्र इत्यभिधानं च विहितम् । सूरिपदप्रदानम् - स्वल्पेनैव कालेन विशिष्टक्षयोपशमबलेन विनाऽऽयासं समधिगतसकलवाङ्मयवैदुष्यं तं गुरुप्रवरः श्रीदेवचन्द्रसूरीश्वरः वि.सं. ११६६तमे वर्षे मरुधरदेशे नागोरनामके नगरे महता महेन सूरिपदं दत्तवान, तदा तस्य श्रीहेमचन्द्रसूरिरिति नव्याभिधानञ्च कृतवान् । ततश्च स अजारिनामके ग्रामे वागधिष्ठात्रीं श्रीसरस्वतीदेवीं समाराध्य सम्प्राप्य च तदीयवरप्रसादं विरचय्य तर्कव्याकरणकाव्यकोशछन्दोऽलङ्कारादिसमस्तविषयेषु लघुबृहत्तमाननेकमौलिकग्रन्थान् जैनसाहित्यस्य महतीमुपासनां विदधे । तेषामनन्यसाधरणं वैदुष्यं निरुपमं ग्रन्थरचनाकौशलञ्च विज्ञाय कोऽपि मतिमान् किं न निजमूर्धानं धूनयेत् ? ग्रन्थरचनया सार्द्ध तैः सूरीश्वरैः श्रीसिद्धराजजयसिंहाभिधानभूपालः श्रीकुमारपालाभिधक्ष्मापालश्च प्रतिबोधितः । तत्र कुमारपालमहीपालस्तु जैनधर्ममङ्गीकृत्य द्वादशव्रताराधनरूपश्रावकाचारपालनेन परमार्हत इति विरलं बिरुदमपि प्राप्तवान् । अपि च स हि श्रीहेमचन्द्राचार्यगुरुवरोपदेशेन स्वीयाष्टादशदेशेषु अमारि (जीवहिंसानिवृत्ति) प्रवर्तितवान् । अधुना बिहार-बङ्गादिदेशापेक्षया गुर्जरमरुधरादिदेशेषु यद् प्रवराचारविचारवैशा दरीदृश्यते तत्र हेतुः श्रीकुमारपालनृपतेः समुचिता अहिंसा प्रधाना राज्यव्यवस्थैव । न ह्यत्र विषये केषामपि वैमत्यम् । प्रान्ते - श्रीहेमचन्द्राचार्यभगवद्विहितभूपालप्रतिबोधमुपवर्ण्य केनचित् कविना विहितां स्तुतिमुल्लिख्य विरमामि सन्त्यन्ये कवितावितानरसिकास्ते भूरयः सूरयः, क्ष्मापस्तु प्रतिबोध्यते यदि परं श्रीहेमसूरेगिरा । उन्मीलन्ति महामहांस्यपि परे लक्षाणि ऋक्षाणि वै, नो राकाशशिना विना बत भवत्युज्जागरः सागरः ॥ इति

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153