Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521027/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं-नन्दतात् सुचिरम् ॥ दक्षिणायनम् वि० सं० २०६८ नन्दनवनकल्पतरु: २७ कीर्तित्रयी सङ्कलनम् Page #2 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः २७ शासनसम्राजामिह समुदाये मेरुपर्वतीपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं-नन्दतात् सुचिरम वि० सं० २०६८ दक्षिणायनम् सङ्कलनम् कीर्तित्रयी Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः २७ सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥ वि.सं. २०६८, ई.सं. २०११ मूल्यम् : रू. १००/ जालपुटसङ्केतः प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर १२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दरभाष: 079-26622465, 09408637714 सम्पर्कसूत्रम् : “विजयशीलचन्द्रसूरिः" C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष: 079-26574981 M.9979852135 email : [email protected] मुद्रणम् : 'क्रिष्ना ग्राफिक्स' नारणपुरा जूना गाम, अमदावाद-३८००१३ दूरभाष : 079-27494393 Page #4 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् अमेरिकादेशे छायाचित्रग्राहकौ पिता-पुत्रौ निवसतः स्म । पितुर्नाम एडवर्डवेस्टनः (जन्म ई. १८८६) पुत्रस्य च ब्रेट-वेस्टनः (जन्म ई. १९११) । द्वावपि स्वकार्य प्रति पूर्णतया समर्पितौ छायाचित्रकलायां च निष्णातावास्ताम् । तयोश्छायाचित्राणि वैश्विकस्तरीयपत्रिकासु प्रकाश्यन्ते स्म । अथो ब्रेट-वेस्टनो यदा षष्टिवर्षीयो जातस्तदा तेन स्वीये चत्वारिंशद् वर्षाणां कार्यकाले यान्युत्तमानि छायाचित्राणि गृहीतान्यासन् तेषां सङ्ग्रहात् केवलं श्रेष्ठानि शतं रक्षितानि, शेषाणि च विनाशितानि । ततः सप्ततिवर्षवयसि दशसु वर्षेसु यन्नूतनं कार्यं कृतं ततः पुरातनाच्च शतात् केवलं श्रेष्ठानि शतं रक्षितानि शेषाणि च विनाशितानि । एवमशीतिवर्षवयस्यपि कृतम् । व्यशीतिवर्षवयसि स यदा मृतस्तदा तस्य सङ्ग्रहे केवलं दशाधिकं शतं छायाचित्राणामासीत् - किन्तु सर्वश्रेष्ठानाम् ! कीदृशो विवेकः, कियांश्च कठोरो मानदण्डः स्वकार्येष्वपि ! अथाऽयमेव विवेक एतादृशश्चैव मानदण्डोऽद्याऽपेक्षितोऽस्ति लेखनकार्येऽपि । अद्यत्वे बहवो लेखकम्मन्या जनाः 'मया लिखितं सर्वश्रेष्ठमेवे'ति मन्यमानाः यत् किमपि लिखित्वा प्रकाशयन्ति प्रकाशयितुं वाऽपीच्छन्ति, विनैव केनचित् परीक्षणेन संशोधनेन वा । यदि कश्चन धैर्यमवलम्ब्य तान् निरुणद्धि तदा – 'ईर्ष्यालुरयं, जल्पतु नामे'ति तस्याऽवगणनं क्रियते । एवं च निरर्थकैनिःसारैश्च पुस्तकैः सम्भृताः पुस्तकापणा ग्रन्थालयाश्चाऽपि दरीदृश्यन्ते। विद्वत्त्वं, लेखकत्वं यशश्चाऽपि स्पृहणीयमेव, किन्तु तत्र विवेको, मानदण्डो, जागृतिश्चाऽपि सर्वथा नोपेक्षणीयाः । अन्यथा तीव्रतया बुद्धिमन्तोऽस्माकमागामिनः सन्ताना अस्मान् उपहसिष्यन्ति श्रेष्ठलेखनं चाऽपि नः कदाचिन्नाऽऽदरिष्यन्ते । अतो ये केऽपि वयं यत् किञ्चिदपि लिखेम तत्र सर्वथा विवेकं, कठोरं मानदण्डं, जागृति चाऽपि समाश्रयेम-इति । ज्ञानपञ्चमी, वि.सं. २०६८ कीर्तित्रयी सुरेन्द्रनगरम् Page #5 -------------------------------------------------------------------------- ________________ অনেলে সনিসক্সে: संपूज्याः, भवद्भिः कृपया प्रेषिता नन्दनवनकल्पतरोः षड्विंशी शाखा अत्र प्राप्ता अस्ति धन्यवादाः । पञ्चविंशीम् अहं श्रद्धया पठितवान् । (१) जैनदर्शनविषये अहम् इतः पर्यन्तम् अज्ञ आसम्, प्रायः । कल्पतरोर्वाचनेन, विशिष्य तत्र नूतनतया आरब्धस्य "जैनदर्शनसत्कतत्त्वविभावनाः" इत्यस्य स्तम्भस्य पठनेन प्रबोधितः भवामि । पञ्चविंश्यां शाखायाम् अग्रिमा शाखा कलिकालसर्वज्ञविशेषाङ्कः भविष्यति इति उद्धृष्टम् आसीत् । अधुना दीर्घ प्रतीक्ष्यमाणां षड्विंशी प्राप्य अहम् अतीव प्रमुदितः अस्मि । (२) पत्रिकायां गये पद्ये च विशिष्टप्रयोगाः दृश्यन्ते । तेषां क्रोडीकरणेन मामकं संस्कृतज्ञानमपि वर्धमानम् अस्ति । - इति भवदीयः रवीन्द्रः M.A. Ravindran Palghat-678012 (Kcrala) * * * सम्मान्याः, सादरं नमो नमः । अकारणकरुणावरुणालयैर्भवद्भिः कृपया संप्रेषितौ नन्दनवनकल्पतरुः कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविशेष: इति, श्रीहेमचन्द्राचार्यः (जीवनचरितम्) इति च द्वौ ग्रन्थरत्नौ सम्प्राप्तौ । इदं ग्रन्थरत्नद्वयं सहृदयानां कृते परमानन्दकारकमनुसंधित्सूनां कृते बहूपकारकं भविष्यति तत्र नास्ति सन्देहलेशः । - किशोरचन्द्रः पाठकः षड्विंशतितमी शाखा प्राप्ता । कलिकालसर्वज्ञप्रतिभातन्मयं चित्तं सञ्जातम् । कल्पतरुर्विद्वज्जनसङ्के जैनमुनीनां विद्वत्तां नितान्तं ख्यातां करोति । भवतां प्रयत्नेभ्यः शतशोऽभिनन्दनानि.... अन्तत आन्तं कल्पतरुस्तिष्ठेदिति, विद्वज्जनमनांसि चमत्कुर्यात्सदेति च वीतरागाय प्रार्थनम्.... - मुनितीर्थबोधिविजयः Page #6 -------------------------------------------------------------------------- ________________ श्रीमन्तः पूज्याः नन्दनवनकल्पतरुसम्पादकाः कीर्तित्रयीसञ्ज्ञया प्रसिद्धाः यतीश्वराः प्राप्यते नन्दनवनकल्पतरुः समयानुसारेणाऽनवरतम् । अस्मिँश्च सामयिके जैनधर्मस्य संस्कृतसाहित्यस्य वैविध्यमवश्यं पठ्यते शास्त्रविद्भिर्विद्यार्थिभिश्च । भवन्तोऽभिनन्दनार्हाः । मान्याः, यावत् गङ्गा च गोदां च यावद् नगो हिमालयः । यावच्चन्द्रश्च सूर्यश्च तावज्जयतु संस्कृतम् ॥५॥ अक्षरधाम, गांधीनगरम् सादरं प्रणामाः । - श्रीहेमचन्द्राविशेषाङ्के – 'प्रास्ताविके' सत्यं निगद्यते । संस्कृतभाषया साम्प्रतं समग्रजगतो मार्गदर्शनं कर्तुं शक्यते । प्रागपि भारतस्य जगद्गुरुत्वं देववाण्या बले प्रतिष्ठितं बभूव । 'कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यस्य विशेषे' महनीय श्रीहेमचन्द्राचार्यस्य विषये विशिष्टा लेखाः सर्वथाऽभिनन्द्यसत्त्वाः सन्ति । विलक्षणप्रतिभोपेतस्य पूज्याचार्यवर्यस्य प्रत्येकं क्षेत्रेषु कृतानि कार्याणि चिरं संस्मरणीयानि सन्ति । तस्यौदार्यमिदानीमपि न केवलं भारते, अपि तु निखिलजगति विविधधर्मेषु सम्प्रदायेषु च सद्भावं संस्थापयितुं शक्नोति । आचार्यवर्यस्य ग्रन्थानां संक्षिप्तः परिचयोऽस्मान् प्रसादयति, किन्तु तेषां ग्रन्थाः कुतः प्राकाश्यं नीताः - इति न सूचितम् । यद्यपि पत्रिकायाः मुद्रणं भव्यं रम्यं चास्ति, तथापि मम लेखे ११७तमे पृष्ठे ऋग्वेदमन्त्रे तृतीयपङ्क्तौ 'बाहू राजन्य: कृत:' इति स्थाने 'बाहू संरक्षकः कृतः' मुद्रितमस्ति । - साधुः श्रुतिप्रकाशदासः ‘वार्तायाम्’-‘नन्दनकल्पकरोरुद्भवो विकासयात्रा च' इति लेखतो न केवलं पत्रिकायाः प्रकाशनस्य समुद्भवस्य विकासयात्रायाः च विवरणं ज्ञायते, अपि तु 'कीर्तित्रयी' इति शब्दस्य तात्पर्यमपि विस्पष्टं भवति । मम मनसि विषयेऽस्मिन् काचिद् भ्रान्तिरासीत् । जयतु संस्कृतं संस्कृतिश्च । डॉ. रूपनारायणपाण्डेयः Page #7 -------------------------------------------------------------------------- ________________ कर्ता स्व, प्रवर्तकमुनिश्रीयशोविजयः डॉ. वासुदेव वि. पाठकः 'वागर्थ' डॉ. वासुदेव वि. पाठक: ‘वागर्थ' डॉ. आचार्यरामकिशोर मिश्रः प्रा. अभिराजराजेन्द्रमिश्रः प्रा. अनिल द्विवेदी अनुक्रम: कृतिः श्रीगौडीपार्श्वनाथस्तोत्रम् सारस्वतानां मान्यः हेमचन्द्रः हेमचन्द्राचार्यः साधुः श्रीदेववाणीस्तोत्रम् गलज्जलिकापञ्चकम् १. ननु कीदृशं जातं पुरम् ? २. कौशेयवासोभिरुणूयते ३. सैव राजनेतृताऽस्माकम् ४. स्वीयभालं न भिन्धि ५. वेपन्ते ट्रायोलेट-द्वयम् १. सम्बन्धः २. साहित्यम् कलिविमर्शनशतकम् सुभाषितानि आस्वादः प्राणानप्यविणय्य परोपकारं कुर्वाणा जीविनः पत्रम् काव्यानुवादः हृदयभावः अदृष्टरागं विमलं तवेक्षणम् अनुवादः जीवनपाथेयम् ग्रन्थसमीक्षा श्रीहेमचन्द्राचार्यः संस्कृतमधुगीतगुञ्जनम् ग्रन्थपरिचयः मर्म गभीरम् कथा न्याय्यात् पथः प्रविचलन्ति पदं न धीराः उपायः विवेक एष पारसमणिः अनुल्लङ्घनीया मातुराज्ञा धर्मनिष्ठा बुद्धिर्यस्य बलं तस्य भाग्यं फलति सर्वत्र शुकद्वयम् वृद्धोऽनुभवदीपः कुलीनत्वम् मर्म नर्म प्राकृतविभाग: पाइय-विन्नाणकहा एच्. वि. नागराजरावः प्रा. डॉ. किशोरचन्द्रपाठकः मुनिकल्याणकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिकल्याणकीर्तिविजयः प्रा. डॉ.किशोरचन्द्रपाठकः मुनिधर्मकीर्तिविजयः डा. रूपनारायणपाण्डेयः डा. रूपनारायणपाण्डेयः मुनिकल्याणकीर्तिविजयः मुनिरत्नकीर्तिविजयः मुनिरत्नकीर्तिविजयः मुनिरत्नकीर्तिविजयः मुनिधर्मकीतिविजयः मुनिधर्मकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिअक्षयरत्नविजयः सा. दीप्रयशाश्रीः सा. हर्षरेखाश्री: सा. शीलन्धराश्रीः सा. पुण्यधराश्री: कीर्तित्रयी आ. विजयकस्तूरसूरिमहाराजः Page #8 -------------------------------------------------------------------------- ________________ ॥ श्रीगौडीपार्श्वनाथस्तोत्रम् ॥ स्व. प्रवर्तकमुनिश्रीयशोविजयः (स्रग्धराच्छन्दः) लोकालोकप्रसारोद्भवभवनलयाक्रान्तकान्तार्थपञ्जानेकान्तत्वप्रबोधाकुरजननपटुस्फीतवाग्बीजहेतुम् ॥ रतोष्ये सेन्द्रामरालिप्रथितमधुरिमोद्गारवाग्दोषमुक्ता मुक्तार्थस्तोत्रसार्थानुगतगुणगणं पार्श्वगौडीशमाप्तम् ॥१॥ (शार्दूलविक्रीडितम्) वाचा निर्मलया सुधामधुरया शिक्षाक्रमप्राप्तया शुद्धान्तःकरणेन शुद्धवपुषा मू ऽवनम्रेण च ॥ Page #9 -------------------------------------------------------------------------- ________________ भक्त्या पापशिलाशनिप्रतिमया स्तोत्रैः पवित्रैस्तथा श्रीगौडीपतिपार्श्वनाथमनिशं मुक्तिश्रियेऽहं स्तुवे ॥२॥ कीलाभिर्भुवनं प्रताप्य सहसा कामानलो जृम्भते मोहाहिर्ग्रसितुं जगन्ति बहुधा रूपाणि धत्ते मुहुः ॥ किर्तव्यमिहेति यावदिति मे चिन्ता समुन्मीलति तावत्सर्वविपन्निवारणकरी गौडीशभक्तिः श्रुता ॥३॥ तन्नेत्रं वदनं तदेव चरणौ तावेव हस्तौ च तौ। यत्त्वद्वक्त्रनिरीक्षणेन भवतः स्तुत्या कृतार्थं भवेत् ॥ पार्श्व ! त्वत्प्रतिबिम्बदर्शनकूते कण्डूयमानौ च यौ यौ त्वत्स्तोत्रसुमाञ्जलीविरचनाबद्धादरौ सर्वदा ॥४॥ त्वामिन्दप्रतिमद्विजावलिविभास्फीतोपदेशामृतासेकोज्जीवितधर्मकल्पलतिकं ये नाऽऽश्रयन्ते जनाः ॥ मूढा आपदुदन्वतः कथमहो पारं गमिष्यन्ति ते घोरं मोहविषं निपीय हृदयप्रोद्दामदाहातुराः ॥५॥ मा विज्ञानमुपास्व मा च बहुधा घोरं तपः सञ्चितु कष्टं मा बहुतीर्थपर्यटनतः स्वात्मानमायासय ॥ किन्त्वेकं सकलापदुद्धतिकरं गौडीशपार्श्वप्रभोः पादाम्भोजयुगं विचिन्तय सकृत् सर्वं सखे ! प्राप्स्यसि ॥६॥ यस्य ध्यानपरायणे जिनजने तिष्ठन्ति षट् शत्रयो । नाऽऽधिव्याधिमुखास्तदा परिणतास्तैर्नेति किं ब्रूमहे ॥ नित्यानन्दघने सुधर्मविपिनेऽजयं रमन्ते जनारतं वृन्दारकवृन्दवन्दितपदं गौडीशपाच स्तुवे ॥७॥ त्वत्सौन्दर्यनिरुपणेषु निपुणे नेत्रे मम स्तां प्रभो ! श्रोत्रे स्तां श्रवणानुरागसिके युष्मद्गुणाकर्णने ॥ त्वद्ध्यानामृतसिन्धुमज्जनरतिश्चेतश्चमत्कारिणी श्रीपार्चिनचातुरीचरणयोरास्तां च ते हस्तयोः ॥८॥ यन्नित्यं समुपासते सुमनसस्तुन्वन्ति दिव्यस्तवैः कुर्वन्त्यर्चनकर्म नन्दनवनोद्भूतप्रसूनैरपि ॥ Page #10 -------------------------------------------------------------------------- ________________ ध्यानव्यापूतिपूरितेन मनसा पश्यन्ति यं योगिन - स्तं गौडीश्वरपार्श्वदेवमनिशं वन्दे विमुक्तिश्रिये ॥९॥ (पृथ्वीच्छन्दः) मनोतु मम मानसं सकलसारशून्यं जगत् दुनोतु न रिपुव्रजः प्रशमसेकशुद्धं मनः ॥ तनोतु मम मङ्गलं सकलकर्ममर्मोद्भिदः करोतु मम चेतसि प्रबलशान्तिसौख्यं जिनः ॥ १० ॥ भवेदनुपमा मतिर्निखिलतत्त्वविद्योतिका रुचिर्भवति तत्त्वतरत्वदुपदर्शिते सत्पथे ॥ किमन्यदिह ते ब्रुवे शुभमयं जगज्जायते प्रमोचन ! विलोचने तव कृपास्पदे देहिनाम् ॥ ११ ॥ अमन्दमणिमण्डलीविमलहेमसिंहासने स्थितं तव वपुः स्फुटं स्फुटितहाटक श्रीहरम् ॥ समस्तसुरसंहिते सुरपतौ स्तुते सुन्दरम् त्रिलोक कुशलं मम प्रणिकरोतु पुण्योदयम् ॥१२॥ अपारपरितापकृद्भवतपातपान्धा वयं प्रपामिव सुशीतलां तव कृपामुपासीमहि ॥ यया समवदेशिता श्रयति तां सदा सम्पदा दयामृतविवर्षिर्णी मयि जिनेन्द्र ! दृष्टिं कुरु ॥१३॥ सुभव्यजनतोदधेः समदिनेषु संवर्द्धके सदैव सकलाकले द्विविधपक्षसत्पक्ष ॥ प्रतिक्षणसुलक्षणेऽललितलक्ष्मणालक्षिते तवाऽऽरयनचचन्दिरे मम मनश्चकोरायताम् ॥ १४ ॥ समस्तजनमोददा जलजसर्वगर्वच्छिदा || ज्वलज्ज्वलनजित्वरज्वरभरत्वराभञ्जिकाः ॥ जगत्रितयरञ्जिकास्त्रिविधदुः खबम्भञ्जिका दिशन्तु मम काङ्क्षितं तव दृशः सुधासोदराः ॥१५॥ रमा कृतपदा सदा भवति तस्य गेहे सुखं सुरास्सततमेव तं प्रणिभजन्ति पुण्योदयात् ॥ ३ Page #11 -------------------------------------------------------------------------- ________________ रिपुर्भवति मित्रवद् भवति शारदाऽन्तःस्थिता अपारभवसागरप्रवहणं तु यस्त्वां भजेत् ॥१६॥ व्रजन्ति विपदस्ततो झटिति सम्पदस्तं श्रयन्त्यनन्तसुखभुक् तदा स इति किं वृथाऽन्यद् ब्रुचे ॥ सुरासुरसुवन्दिते सकलशर्मसम्पादके त्वदीयचरणाम्बुजे भवति यस्य भक्तिर्दृढम् ॥१७॥ शिखरिणी) ज्वलनानाकष्टे कलिकलुषतो दुर्दिनतमे परिभ्रष्टे मार्गे सततवसता मोहतमसा ॥ जाव्याघीभीमे विषयविषकुजैः परिवृते स मे पार्यो भूयाच्छरणमिह संसारविपिने ॥१८॥ अघजातोद्भूतप्रबलतरदुःखानलभरप्रदग्धान्तवृत्तेर्गतगुणततेर्भव्यभविनः ॥ असारे संसारे भवति शरणं यस्य चरणं स्तुवे पाच गौडीपुरपतिमहं तं प्रतिदिनम् ॥१९॥ अबुद्धिर्मन्दात्मा शमदमदयाद्यैर्विरहितो गुणैर्नित्यं पार्श्वस्तवनविमुखस्तेऽन्यजनुषि ॥ तथाऽपि त्वं बाले मयि जिन कृपां चेत्तु तनुषे मदन्यो धन्य: को भुवि दिवि तदाऽनन्यशरणे ॥२०॥ त्रिलोकीसंराजे समवसरणे स्वर्णरचिते यथौचित्यं स्थाने निविशति गणे सदिविषताम् ॥ सुखश्रेण्या वाण्या शिवसुखमनन्तं दिशति यः स मे पावो दत्तात् स्मृतिपथमुपेतः शमसुखम् ॥२१॥ तपोभिः किं किं तैरसमसमयाभ्यासकलितैः क्रियाणां कष्टैः किं किमिति विरसाहारकरणैः ॥ विवेकैरेकैः किं किममरसुखैर्दुःखकलितैस्तवैकं मे भूयाच्चरणमिह शश्वत्तु शरणम् ॥२२॥ जगन्मायामूढं भवभयविभीतं समवितुं त्वदन्यो धन्यः को भवति भुवने पूर्णविभवः ॥ त्वमेवाऽतस्त्रातस्विभुवनपते ! मामपि पम् सदा दक्षो रक्षोद्गतभयमनीशं त्वशरणम् ॥२३॥ Page #12 -------------------------------------------------------------------------- ________________ (मालिनी) अनाथानां नाथो गतिरगतिकानां जिनपते ! अबन्धूनां बन्धुर्मतिरमतिकानां शुभमते ! ॥ असातानां सातं त्वमसि च गुणो निर्गुणनृणाम् अविद्यानां विद्या त्वमसि च धनं निर्द्धननृणाम् ॥ २४ ॥ भवानेको बन्धुर्भवति च भवानेव पितरौ भवानेको भ्राता भवति च भवानेव सुगुरुः ॥ भवानेको देवो भवति च भवानेव भवनं भवानेको धर्मो निधिरपि भवानेव भुवने ॥२५॥ विविधधनसुसाध्यं वस्तुजातं जनानाम् न हि निजपरितृप्ते प्रेक्षसे भक्तिभाजाम् ॥ इति धननिरपेक्षोऽप्यर्थयुक्तैरमीभी रुचिरवचनपुष्पैरर्चनं ते तनोमि ॥२६॥ श्लथयति भवबन्धान् जन्मजालप्रबद्धान् स्मृतिरनुभवभाजां यस्य चित्तोपनद्धा ॥ अनुपमसुखसिद्धिर्यत्प्रसादात्स एको जयति जगति गौडीपार्श्वनाथो जिनेन्द्रः ॥२७॥ मुखसितकरमध्ये दीप्यमानप्रकाशम् विकसितमनिशं तल्लीनताराद्विरेफम् ॥ कमलकुमुदधर्माद्वैतसाम्राज्यराजं दिशतु मम शिवं ते नेत्रपद्मं नवीनम् ॥ २८ ॥ दिनकरकरयोगायोगतोऽमुक्तशोभं नयनयुगलचन्द्राद्वैतमैत्रीप्रबोधम् ॥ कचनिकरतमोन्तर्दीप्यमानं नवीनं जयतु तव मुखाब्जं दत्तहर्षप्रकर्षम् ॥२९॥ विविधजनसुवाच्छापूरणे पारिजातं निजशरणमुपेतू रक्षणेष्वाशु दक्षम् ॥ भवभरभवकूपोद्धारणे रज्जुमेकं त्रिभुवनजनवन्द्यं हस्तयुग्मं स्वीमि ॥ ३० ॥ नखनिकरनिशेशज्योतिरुद्योतिताशं त्रिभुवनजनपुञ्जक्षान्तिसान्द्रार्द्रदृष्ट्या ॥ ५ Page #13 -------------------------------------------------------------------------- ________________ (स्रग्धरा) तलमपि मृदुरक्तं यस्य नित्यं तदीज्यं सविनयमथ वन्दे पादयुग्मं तवेश ! ॥३१ ॥ प्रतिपलमिह मानं त्वायुषो नाशमेति शिथिलयति जरान्ते मन्दिरं चेन्द्रियाणाम् ॥ इति बत शतकृत्वश्चिन्तयित्वा त्वरस्व भज भज परभक्त्या, मित्र गौडीशपार्श्वम् ॥३२॥ जयति जयति गौडीपार्श्वनाथ जिनेन्द्रो जयति जयति बिम्बं तस्य देवस्य नित्यम् ॥ जयति जयति धन्यस्सोऽपि भक्तस्तयोर्य इह जगति किमन्यद्धन्यमावर्णनीयम् ॥३३॥ प्रोद्यत्कर्मानिलौघप्रबलतरदुरावेगसद्यो निरोधे स्थूलाद्रीयन् प्रकृत्या जगति निजजनान् सान्त्वयन् शान्तिवृष्ट्या ॥ सर्वत्राऽऽपातरम्ये विषयसुखरसे दापयन् प्रीतिरीतिं नित्यं पायादपायात्पुरुषपरफलप्रापकः पार्श्वनाथः ॥ ३४ ॥ त्वं चित्त ! ब्रूहि सत्यं मधुरमधुदधिस्वच्छपानीयदुग्धद्राक्षापीयूषपानं कृतमिह बहुधा कर्मबन्धप्रसादात् ॥ कर्मोच्छेदैकहेतोः कथय मधुरिमा यस्त्वयाप्तोऽशमात्रं गौडीशस्य स्तुतौ स भ्रमणरसिक किं दृष्टपूर्वोऽपि तेषु ||३५|| दैवाद्गौडीशनाथं भवरटनपटो ! स्वीयवृत्त्योपलब्धं किं निःशङ्कं यथेष्टस्मृतिपथमनिशं नो करोष्यज्ञ ! चित्त ! | क्रोधाद्यास्त्वाममित्रं निजविमुखतया चेद्विजानीयुरेते कुर्युः किं त्वां तदा भो जिनपतिविमुखं स्वीयदुष्टप्रचारैः ॥ ३६ ॥ ॥ अथ कविनामगर्भश्चक्रबन्धः ॥ (शार्दूलविक्रीडितम्) यस्सत्त्वैकहितः सतां वितनुते पार्श्वस्स सौख्योदयम् शोभां भास्करसोदरां सुतनुते भव्याब्जकोशोद्भिदि ॥ विज्ञानप्रविदानपण्डितवरो रागोरुनागोद्धरिर्जन्मार्त्तिप्रविभेदकोऽग्ग्रतनुको निर्वेदको रक्षतु ॥३७॥ ६ Page #14 -------------------------------------------------------------------------- ________________ (अनुष्टुप्) (शार्दूल०) (मन्दाक्रान्ता) (शार्दूल०) ॥ अथ स्तुत्यनामगर्भो बीजपूरप्रबन्धः ॥ यस्य गौः पाति संसारं, यस्योड्डीनं यशो वरम् । यस्य शक्तिरवेन्नारं यत्नात्सोऽस्तु श्रिये परम् ॥३८॥ श्रीगौडीपतिपार्श्वसंस्तुतिमिमां गायन्ति शृण्वन्ति ये ते पार्श्वेकपरायणा भुवि नरास्त्राणप्रवीणा वराः ॥ आर्त्तिं शल्यनिभां निहत्य सकलां शान्तिश्रियालिङ्गिताः ख्यातिं निश्चितमश्नुवन्ति भुवने सिद्धिं च ते विन्दते ॥३९॥ श्रीमन्नेमीश्वरगुरुवरोत्कृष्टपादप्रसादादेवं गौडीपुरपतिवरस्संस्तुतः पार्श्वनाथः ॥ मोहध्वान्तप्रमथनपटुः पण्डितः पुण्यदाने दोषप्लोषं विकिरतु सतां सत्यमार्गप्रदाता ॥ ४० ॥ मायामोहतमोविमोहितदृशामाशापिपासाकुलस्वान्तानां परितो गवेषितशमानन्दामृतानां नृणाम् ॥ श्रीनेमीश्वरसूरिराज्यसमये पार्श्वस्तुतिस्संस्तुता भूयाच्छान्तिकरी प्रपूर्णमनसां नित्यं तु पार्श्वस्तुतौ ॥ ४१ ॥ गौडीशस्तुतितो न किञ्चिदपरं याचे फलं लौकिकं नो वाऽलौकिक मिष्टदेव ! भवतः किन्त्वेकमेचाऽस्तु मे ॥ तत्त्वातत्त्वविवेचनैक चतुरस्याऽऽत्यन्तिकं भावतः श्रीनेमीश्वरसद्गुरोः शमनिधेरानन्दपूर्णं मनः ॥४२॥ इतिश्रीदुर्लालितसकलदुरितोद्वेगदुर्व्वेगसरित्पयोऽपारपूरविप्रोषभीष्मग्रीष्मायमाणसंसारभार नल्पकुविकल्पोद्गच्छदतुच्छदुःखदावानलप्रशमनकैधाराधरायमाणसंसर्पत्सपण्डवर्गदर्शनाम विदारणागदङ्कारायमाणजिनवरवरचरणस्मरणप्रसादसन्दर्भनिर्भरगभीरगीर्भ्रमन्मन्यदाराष्ट्र ध्धुमधुमितसिन्धुप्रतिभटायमान श्रीमद्विजयनेमिसूरीश्वराणां चरणचञ्चरीकायमाणविनेययशोविजयावेरचितं श्रीगौडीपुरपति पार्श्वनाथस्तवनं पूज्यपादारविन्दानां गुरुवराणां श्रीमद्विजयनेमिसूरीश्वराणां प्रसादात् समाप्तम् ॥ ७ Page #15 -------------------------------------------------------------------------- ________________ सारस्वतानां मान्यः हेमचन्दः ॥ डॉ. वासुदेव वि. पाठक: ‘वागर्थ' हेम्नः तेजस्विता यत्र, शैत्यं चन्द्रस्य शोभते । जाते तयोश्च संयोगे हेमचन्द्रायितं वरम् ॥ आचार्ये हेमचन्द्रेऽस्ति सारस्वतमहोज्ज्वलम् । गौरवं गूजरातस्य भारतस्य च गौरवम् ॥ मणिकाञ्चनसंयोगः सुवर्णस्य सुगन्धिता । द्विगुणितं हि वैशिष्ट्यं हेमचन्द्रे तथाऽभवत् ॥ स कलिकालसर्वज्ञः नानाशास्त्रविशारदः । मान्यः सारस्वतानां च संस्कृतानां विशेषतः ॥ श्रीसिद्धराजस्य सुज्ञत्वमेव श्रीहेमचन्द्रस्य वप्रसादः। सारस्वतं तेन कृतं प्रदानं भव्या कृता संस्कृतकर्मशोभा ॥ सार-दाः शारदापुत्राः साम्प्रते लोकविश्रुताः । आचार्यों हेमचन्द्रस्तु राजते पूर्णचन्द्रवत् ॥ Page #16 -------------------------------------------------------------------------- ________________ "IAMY SE हेमचन्दाचार्यः साधुः॥ डो. वासुदेव वि. पाठक: ‘वागर्थ' हेरम्बस्य कृपा यत्र महावीराशिषस्तथा । चंद्रप्रभप्रसादश्च द्राक्षातुल्याऽस्ति मिष्टता ॥ चार्यां सारस्वतीं पुण्यां यः तु धारयति प्रियाम् । साधुश्च हेमचन्द्राख्यः धुर्यता तस्य शस्यते ॥ चार्यां - प्रवृत्तिम् धुर्यता - श्रेष्ठता साधुः - सज्जनः ३५४, सरस्वतीनगर, आंबावाडी, अहमदाबाद-३८००१५ दूरभाष : ०७९-२६७४५७५४ Page #17 -------------------------------------------------------------------------- ________________ श्रीदेववाणीस्तोत्रम् डॉ. आचार्यरामकिशोरमिश्रः (१) यां भारत प्रथममत्र हि वेदवाणीं, ब्राह्मीं गिरां स्वहृदये मनसा स्मरामि । वन्दे वसन्ततिलकां च सरस्वतीं यां, सा शारदा जयताद् भुवि देववाणी ॥१॥ (२) या वीणया कुरुते श्रुतिगायनं वै, वेदस्य पुस्तकमथ स्वकरे च धत्ते । यस्याः कृपा जडमतिं सुमतिं करोति, ज्ञानप्रदा जयतु सा दिवि देववाणी ॥२॥ (३) वेदैः सदा विविधभाषणबोधदात्री, सान्निध्यदा विपदि सम्पदि हर्षशून्या । ज्योतिष्मती जगति चन्द्रसमोज्ज्वला या, सा वाक्प्रदा विजयतां भुवि देववाणी ॥३॥ (४) दत्ते समस्तजगते व्यवहारशक्तिं, लेखादिभाषणगिरं विदुषे ददाति । जीवाय या स्वलपितं प्रददाति चाण्या, सा ज्ञानदाऽत्र जयताद् भुवि देववाणी ||४|| (५) या जन्ममृत्युरहिताsत्र जरापहाच, वेदप्रिया सुफलदा च सुखप्रदा च । १० Page #18 -------------------------------------------------------------------------- ________________ आङ्ग्लादिभाषितविभिन्नगिरासवित्री, सा शोभते वचनदा भुवि देववाणी ॥५॥ (६) बोधाग्रमूर्तिरिह छात्ररमा सुमेधा, विज्ञानदा च जडलोक विवेकदा च । देवासुरान्वयमुखार्चितसंस्कृता या, साऽलङ्कृताऽत्र रसदा भुवि देववाणी ॥ ६ ॥ (७) यस्याः करे लसति गायनतन्त्रवीणा, भाषादिपुस्तक मिह स्फटिकाक्षमाला । हंसेन याति परितो भ्रमतीह विश्वं, सा शारदा सुफलदा भुवि देववाणी ॥७॥ (८) दुःखे सुखे च सहयोग - सुबुद्धिदा या, छात्रान् प्रति प्रतिपलं हितसाधिका सा । सुज्ञे जडे च समभावक रीहलोके, सा निर्मला विजयतां भुवि देववाणी ॥८॥ (९) शब्दार्थसिद्धिमवगन्तुमिमां सुभाषां, वाञ्छन्ति बोधफलदामिह बुद्धिमन्तः । या सर्वविश्वहितचिन्तनमादधाति, वाग्देवता जयति सा जन - देववाणी ॥९॥ (१०) वेदा हि यत्र लिखिता ऋषिभि: प्रसिद्धा, ग्रन्थाः कृता इह महाकविभिः प्रबन्धाः । नानाविधाश्च रचनाः प्रददाति या हि, सा शारदा जयताद् भुवि देववाणी ॥१०॥ ११ २९५/१४, पट्टीसमपाद खेकड़ा (बागपत) उ.प्र. २५०१०१ Page #19 -------------------------------------------------------------------------- ________________ गलज्जलिका । गलज्जलिकापञ्चकम् प्रा. अभिराजराजेन्द्रमिश्रः १. ननु कीदृशं जातं पुरम् ? बधिर अभूवन् वीथिका अन्धाः पुनर्घण्टापथाः मूकाश्च जाता नागरा ननु कीदृशं जातं पुरम् ॥१॥ गृहचुल्लयः पातिव्रत्यं बिभ्रति नितान्तमुपोषिताः पामरकुटीषु प्रायशो ननु कीदृशं जातं पुरम् ॥२॥ कीचकनिभैर्जनघर्षणैः सन्दीपिताः स्वयमग्नयः दन्दह्यते येनाऽखिलं ननु कीदृशं जातं पुरम् ॥३॥ निर्वान्ति सन्तप्तानिलाः' परितोऽपि जनवार्तोद्गताः ज्वरपीडिताः सर्वेऽप्यहो ननु कीदृशं जातं पुरम् ॥४॥ ग्रीष्मे न धर्मस्तापयति शीते न शैत्यं बाधते सर्वंसहत्वमहोऽद्भुतं ननु कीदृशं जातं पुरम् ॥५॥ अपहाय भैक्ष्यं दस्युतस्करवञ्चका अपहारकाः भूत्वा समे सुखिनोऽधुना ननु कीदृशं जातं पुरम् ॥६॥ क्व नु नर्तनं गृहगीतय; क्य नु नर्महास्यकथानिकाः यत्राश्रितं मधुरस्मितं ननु कीदृशं जातं पुरम् ॥७॥ अहँ प्रवेष्टुं नाऽत्र सत्यं नो शिवं न च सुन्दरम् । अशुभं प्रनृत्यति सर्वतो ननु कीदृशं जातं पुरम् ॥८॥ तिष्ठन्ति केचन सज्जना अवकेशिनो नाट्यामिव बब्बूल-खदिरैय॑क्कृता ननु कीदृशं जातं पुरम् ॥॥ १. लू इति भाषायाम् । २. Folk Songs | ३. Television | १२ Page #20 -------------------------------------------------------------------------- ________________ २. कौशेयवासोभिरुयते अद्य सन्दृश्यते हन्त शुष्का नदी नौकया तीर्यते स्मेति संश्रूयते ॥१॥ भारतेऽतः परं किन्तु चित्रं भवेत् यत् त्रिरङ्गध्वजोऽद्याऽत्र दोधूयते ॥२॥ घोषितो यस्य राज्याभिषेकोत्सवः प्रेक्ष्य निर्वासनं तस्य, हृद् दूयते ॥३॥ मा शुचं गा अहल्ये ! त्वदुद्धारकः । कौशिकेनाऽऽश्रमे राम आहूयते ॥४॥ बुद्धिगर्वं वृथा, मां न सन्दर्शय दूर्वयाऽप्यश्मगर्भाल किं सूयते ॥५॥ सात्त्विको रागबन्धापहारी हरिः किं मुधैश्वर्यहेतोः स संस्तूयते ॥६॥ नेत्रयोस्तन्दि ! ते सर्वमुट्टङ्गितम् किं रहस्यं नु मतोऽत्र नितूयते ॥७॥ हन्त वीचीषु लीनो भुजङ्गः क्वचित् व्यर्थमेवाऽधुना किं जलं धूयते ॥८॥ जीवितः प्रीतवाग्भिर्न सम्भावितः सोऽद्य कौशेयवासोभिरुणूयते ॥९॥ १. जीवितः पितेति शेषः । २. रेशमी कफन इति भाषायाम् । Page #21 -------------------------------------------------------------------------- ________________ ३. सैव राजनेतृताऽस्माकम् शासने सम्मता जाताऽस्त्यभद्रताऽस्माकम् अन्यथाऽन्यत्र विभो ! क्वाऽस्ति पात्रताऽस्माकम् ॥१॥ शिलीन्धवन्नु वयं कच्चरे वृथा जाताः श्रुता नु केन जगति कापि सार्थताऽरमाकम् ॥२॥ धनं विलोक्यतेऽरमाभिस्सदैव मलकल्पम् तदीयभक्षणे सिद्धाऽस्ति पोत्रिताडरमाकम् ॥३॥ समाजवेणुवने हन्त वयं सुमकल्पाः समाजनाशने तस्माच्च हेतुताऽस्माकम् ॥४॥ गुणेषु नैव रतिर्नाऽप्यहो चरित्रबलम् दुर्निवारा तथाऽपि लोकतन्त्रताडरमाकम् ॥५॥ घुणा वयं नु सौम्यराष्ट्रदारुसंलग्नाः भक्षयिष्याम इदं सिद्धशत्रुताऽस्माकम् ॥६॥ राजनीतौ स्थिता विहाय भो भयं लज्जाम् प्रत्यभिज्ञायते न केन षण्ढताडरमाकम् ॥७॥ अद्य कण्ठीरवाः श्व' एव शृगाला भूयः अलं भयेन, सैव राजनेतृताऽरमाकम् ॥८॥ तवाऽस्ति योगपथस्साधु योगमाराधय ममारित भोगपथरतर्हि भोक्तृताऽरमाकम् ॥७॥ ५, फुल्ल वेणुचन नश्यतीति दिक् । २. निर्वाचिताः सन्तः । ३. निर्वाचनावसरे, मतयाचनावसरे । Page #22 -------------------------------------------------------------------------- ________________ ४. स्वीयभालं न भिन्धि अलं भिक्षया, तत्कपालं न भिन्धि अलं सेचनैरालवालं न भिन्धि ॥१॥ न माकन्दतुल्यं फलं स्वादु, हेतोरिति क्षोभितः प्रांशुतालं न भिन्धि ॥२॥ लिपिर्वैधसी नाऽनुकूलेति मत्वा समुद्वेजितरस्वीयभालं न भिन्धि ॥३॥ भवन्त्वेव चेन्मद्यपेऽनल्पदोषाः कृतं हालया पीतहालं न भिन्धि || ४ || गृहाणि क्वचिच्चाऽपि शक्यानि कर्तुम् प्रकृत्योर्वरं हन्त मालं न भिन्धि ॥५॥ क्च खर्वश्शशः क्वाऽद्रितुल्यो गजेन्द्रः । निकृष्टार्थसिद्ध्यै विशालं न भिन्धि ॥६॥ कवेर्निर्मितौ दृश्यते सत्यमेतत् । पयोऽद्भ्योऽनवाप्तुं मरालं न भिन्धि ॥७॥ बहिस्साम्यमञ्चन्न सर्वं समानम् मनश्शैलबुद्ध्या प्रवालं न भिन्धि ॥८॥ न फुल्लन्ति मूले क्षुधा वारिजानाम् ततो वच्मि बन्धो ! मृणालं न भिन्धि ॥९॥ १५ Page #23 -------------------------------------------------------------------------- ________________ ५. वेपन्ते द्रुमाः समीरस्यैः काननेषु वेपन्ते जनाः शरीरभयैः प्राङ्गणेषु वेपन्ते ॥ १ ॥ दिने समर्च्य निशीथे नु लुण्टतिच्छत्रम् अर्चकं प्रेक्ष्य सुरा मन्दिरेषु वेपन्ते ॥२॥ आत्मघाताय चितोऽयं ममाऽतिभक्तो वा वन्दनीय इति स्रगर्पणेषु वेपन्ते ॥३॥ विषं निपाय्य हरन्तेऽखिलं नु यात्रायाम् शतं विहाय जनाः सज्जनेषु वेपन्ते ॥४॥ प्रापयन्त्योऽद्य मुखं भक्ष्यपेयसामग्रीम् अहो निजाङ्गुलयो भोजनेषु वेपन्ते ॥५॥ साधुरस्यद्य परं द्रक्ष्यसे भविष्ये किम् ! इतीवं चेतना हृत्स्पन्दनेषु वेपन्ते ॥६॥ मूलमातङ्कतरोर्धर्म एव जातश्चेत् तर्हि सद्भावनाः पैगम्बरेषु वेपन्ते ॥७॥ ध्रुवं विषाक्ततरा मानवा इमेऽरमत्तः धियेति नम्रफणाश्चन्दनेषु वेपन्ते ॥८॥ १६ Sunrise Villa Lower Summer Hill Shimla 171005 Page #24 -------------------------------------------------------------------------- ________________ *ट्रायोलेट-द्वयम् प्रा. अनिल द्विवेदी १. सम्बन्धः क्वचित्सम्बन्धोऽयं चलति समये पुष्यति सदा, क्वचित्सम्बन्धोऽयं चलति समये म्लायति सदा । अहो सम्बन्धानां भवति गणितं विस्मयकरम् । क्वचित्सम्बन्धोऽयं चलति समये पुष्यति सदा । यदा स्वार्थान्मुक्तो, व्रजति समये नश्यति न हि, यदा स्वार्थाऽऽसक्तः, सरति समये क्षायति शनैः । क्वचित्सम्बन्धोऽयं चलति समये पुष्प्यति सदा,, क्वचित्सम्बन्धोऽयं चलति समये म्लायति सदा । २. साहित्यम् साहित्ये नितो जनो दनुजतां सन्त्यज्य देवो भवेत्, साहित्याद्विमुखो जनः सुजनतां त्यक्त्वा भवेद्दानवः । साहित्ये सति भाति विश्वमखिलं, नष्टं भवेदन्यथा । साहित्ये निरतो जनो दनुजतां सन्त्यज्य देवो भवेत् । काव्यास्वादपयोधिमग्नमनसां विश्वं भवेत्सुन्दरम्, ते कुर्वन्ति जनाः सदैव सफलं स्वं मानवत्वं खलु । साहित्ये निरतो जनो दनुजतां सन्त्यज्य देवो भवेत्, साहित्याद्विमुखो जनः सुजनतां त्यक्त्वा भवेद्दानवः । * Triolet इति फ्रेन्चकाव्यप्रकारोऽयम । आरोही एपार्टमेन्ट पटेल कोलोनी, जामनगरम् १७ Page #25 -------------------------------------------------------------------------- ________________ नागराजविरचितं कलिविमर्शनशतकम् एच्. वि. नागराजरावः समस्ते भूमिवलये सुखदुःखविदालये । सम्प्राप्तनित्यबलये कलये कलये नमः ॥१॥ अविमृश्य गुणान् दोषान् पुण्यं पापं च केचन । युगं कलिं विनिन्दन्ति सम्प्रदायं समाश्रिताः ॥२॥ निष्पक्षपातया दृष्ट्या परीक्षा क्रियतां बुधैः । 'उच्चावचं समालोक्य जगच्चरितमद्भुतम् ॥३॥ गुणाश्च दोषाश्च परीक्षणीयाः निष्पक्षपातैः `कृतिभिर्युगानाम् । पूर्वेऽभिवन्द्याश्रमे तु निन्द्या युगस्तु कश्चिन्न हि गर्हणीयः ॥४॥ सर्वेषु कालेषु भवन्ति दुष्टाः शिष्टाश्च कालो न हि तत्र हेतुः । प्राज्ञास्तथाऽज्ञाश्च भवन्ति लोके तिक्तं च मिष्टं च फलं द्रुमेषु ॥५॥ विद्वांसः कविपुङ्गवाः सुकृतिनो दानव्रतप्रोज्ज्वलाः सच्चारित्रविभूषणाश्च गुरवो ज्ञानप्रदानोत्सुकाः । सर्वत्रैव परोपकारनिरताः विद्यादिहृद्योद्यमाः विद्यन्ते कलावपि क्षितितले कस्मादयं निन्द्यते ॥ ६ ॥ प्रचरति जिनभक्ति: श्रूयते देवगानं मधुरनिगमशब्दो बोभवीति प्रकृष्टः । यतिचरणसपर्यां कुर्वते सर्वलोकाः कलियुगमिह कस्मान्निन्दति प्राज्ञलोकः ? ॥७॥ १. उच्चावचो नैकभेद: २. धीमान् सूरिः कृती कृष्टिः ३. प्रथमचरमतयाल्पार्धकतिपयनेमाश्च इति सर्वनामता १८ Page #26 -------------------------------------------------------------------------- ________________ 'कदा धर्मो नाऽऽसीज्जगति न कदा सत्यमभवत् ? कदा सन्तो नाऽऽसन्नथ च न कदा शान्तमनसः ?। समस्तानां दृष्ट्या न च कृतयुगं नो कलियुगं जनान् मार्गे नेतुं कुशलमतिभिः कल्पितमिदम् ॥८॥ कलौ कलुषितं भवत्यखिलमित्यलं भाषितैः पुरा न किमिहाऽभवन् सकलधर्ममर्मच्छिदः । भवन्ति नहि किं जनाः पहितार्थमात्मेप्सितं विहाय बहुधा श्रमं विदधतस्त्विदानीमपि ॥९॥ हन्तारो राजनाम्ना प्रतिजनपदमप्यत्र लोके बभूवुर्येषां विस्तारकाङ्क्षा जनगणहनने कारणं संबभूव । तानेवाऽऽश्रित्य जीवन् कुशलकविचयो भव्यरम्यैर्वचोभिः काव्यान्यारच्य भूयः स्तुतिपठनपरस्तान प्रशस्तानकार्षीत् ॥१०॥ कृतं त्रेता च द्वापर इह कलिश्चेति सकलं भवेल्लोके नूनं युगपदिति मे भाति मनसि । भजत्येकः सत्यं यजनमपरो बुद्धिमितरो जनश्चाऽन्यो भक्तिं ननु युगचतुष्केऽप्यनुबलम् ॥११॥ देवो वर्षति पूर्ववत्तरुगणो दत्ते फलं पूर्ववत् श्रीमानस्ति च कश्चिदत्र बहवस्तस्याऽर्थिनः पूर्ववत् । विश्वस्मिन्नहि दृश्यते किमपि मे व्यत्यस्तमस्मिन् युगे लोक: केवलसम्प्रदायशरणः पूर्वं युगं शंसति ॥१२॥ पुराऽऽसीत् सद्भक्तिर्मुरुषु सकलस्याऽतिथिगणे तथाऽगाधश्रद्धा पशुषु कणा चार्थिषु दया । इदानीमेतेषां न सुगुणमणीनामणुरपि स्थितस्तस्माद् रूढः कलिरिति जनो जातु वदति ॥१३॥ भवन्त्येवाऽद्याऽपि प्रथितकरुणाः प्राणिषु नराः सदा तेषां रक्षां प्रतिविदधतो यत्नमतुलम् । जनान् शाकाहारान् परिहृतपलान् कर्तुमपि ते विलोक्यन्ते नित्यं प्रयतनपराः पुण्यमतयः ॥१४॥ १. अत्र कदाऽधर्मो नाऽऽसीदित्यादि तत्रेण योजितम् । Page #27 -------------------------------------------------------------------------- ________________ कलौ कलयते जनो धनिकमेव पूज्यं सदा गुणैश्च सकलैर्विवर्जितमपीति मिथ्यावचः । दिगम्बरमकिञ्चनं शिवमुपासते भक्तितः कुबेरमिह पूजयन् न खलु दृश्यते कश्चन ॥१५॥ पुरा नृपतयोऽभवलखिलधर्मसंरक्षका न सम्प्रति तु कश्चन प्रभवतीह संरक्षितुम् । इति प्रणिगदन्ति ये जनसभासु पौराणिका न ते किमु विदन्ति तैनूपगणैः कृतान् विप्लवान् ॥१६॥ इदानीमप्यस्ति प्रकृतिसरलो भक्तिमतुलां सदा पित्रोः शुद्धां दधदिह सुतो मान्यचरितः । स्वकीयं सौख्यं यो जहदखिलम् आमृत्यु पितरं महारोगग्रस्तं परिचरति नित्यं विनयवान् ॥१७॥ अदृष्टपूर्वान् अतिथीन् समागतान् अपारभक्त्या विनयेन चाऽऽह्वयन् । यथास्वशक्ति प्रतिपलसत्कृतिविलोक्यतेऽद्यापि जनो मनोहर: ॥१८॥ गुरोर्वाक्यं नित्यं निगमवचनैः सम्मितमिति प्रमिण्वाना भक्त्या तदुदितमनुष्ठाय सकलम् । जगत्सेवां बहीं सपदि भगवत्पूजनमपि प्रकुर्वाणाः सन्तो विदधति कलिं च स्तुतिपदम् ॥१९॥ कृते वा त्रेतायां भवतु च कलौ द्वापरयुगे गुरुः कश्चिच्छिष्यं कमपि यदि विश्वस्तहृदयम् । पदं विद्यामार्गे प्रतिनिदधतं वञ्चयति चेत् न मानार्हः सोऽयं गुरुकुलकलङ्क: कुधिषणः ॥२०॥ कलेर्माहात्म्येन प्रकृतिकृतमद्य त्रिभुवने प्रभूतं सर्वत्र क्षतजनसुखं ध्वंसनमिदम् । प्रवाहो भूकम्पो बहुविधरुजोऽवग्रह इति ब्रुवत्येके वार्ताः प्रतिदिनमवेक्ष्य प्रकटिताः ॥२१॥ अभूत् पूर्वे कालेऽप्यनवरतमेतादृगखिलं क्वचिल्लोके किन्तु प्रकटमभवलैव जगति । २० Page #28 -------------------------------------------------------------------------- ________________ तदा नाऽऽसीद् यन्त्रं सकलसुलभं यादृगिह नः स्वदेशे यज्जातं तदकलयंस्ते हि सकलम् ॥२२॥ पुराणे वर्ण्यन्ते प्रलयघटना लोकदलनाः विनाशो यारवासीज्जलदहनवाय्वादिजनितः । जनाः पुण्याः पापाः अनवगतभेदाश्च पशवः तदाऽप्यासन्नष्टा इति मतिमता स्मर्तुमुचितम् ॥२३॥ इदानीं प्रक्षोभो यदि भवति साहाय्यमुचितं विधातुं विश्वस्य प्रयतनमुदारं प्रभवति । विना स्वार्थं केचिद् व्रणित -हत- नष्टस्व-सविधे द्रुतं गत्वा यावद्बलमुपकृतिं संविदधते ॥ २४ ॥ यस्मिन् युगे परमहंसवरोऽभिजातः श्रीरामकृष्ण इति सर्वजनानुकम्पी | सा शारदा च जननी जनिमाप साध्वी तं कोऽत्र निन्दति कलिं परमार्थदर्शी ? ॥२५॥ युगे स्मिन् वीरो विमलहृद् अतिधीरो नरवरो दयावान् दीनेषु ध्वनिजितमृगेन्द्रो यतिनृपः । विवेकानन्दोऽभूत् सकलजगदाराध्यवचनः कथङ्कारं ब्रूयुर्विशदमनसो निन्दितमिमम् ॥२६॥ धूतं लोकविनाशकं कलियुगे भूम्ना जरीजृम्भ्यते के चिल्लाटरिपत्रकाणि सततं क्रीणन्ति वित्ताशया । केचित्त्वक्षवशाः हयांश्च कतिचिद् भक्त्याऽऽश्रयन्ति ध्रुवं सर्वे भूरि धनं विना श्रममिह प्राप्तुं सदैवोत्सुकाः ॥२७॥ एवं चेदभिधीयते वयमिदं नैवोररीकुर्महे द्यूतं चाssयुगे बभूव कितवस्योक्तिः प्रमाणं खलु । राजा चैव नलो व्यपद्यत पुनर्घृतेन तेनैव च प्रायात् काननमेष पाण्डवगणो भार्यासमेतस्तथा ॥२८॥ धने भवन्ति लोलुपाः कलौ जनाश्च कामुका विवेकहीनमानसा विचारदूरबुद्धयः । इदं वचो मृषा यतो युगेऽत्र शङ्करादयो यतीश्वराः परश्शता जितेन्द्रिया विजज्ञिरे ॥२९॥ २१ Page #29 -------------------------------------------------------------------------- ________________ रामानुजोऽभवदिहैव मुनिश्च मध्वः चैतन्यवलभमुखा अपि भाष्यकाराः । एतादृशेषु विलसत्सु महानुभावेष्येवं कलिं क इव निन्दतु शुद्धबुद्धिः ॥३०॥ कलियुगसर्वज्ञं यं विबुधाः प्रणमन्ति सर्वदेशेषु । श्रीहेमचन्द्रसूरिः स कलिं न करोति किं पूज्यम् ॥३१॥ विचारस्वातव्यं सकलमनुजबातहितधीः मिता वित्ताकाङ्क्षा परमतसहिष्णुत्वमभयम् । विजिज्ञासा सत्ये पशुषु करुणा द्वेषविरतिर्यदि स्युर्मर्येषु स्वयमपि कलिस्तान् प्रणमति ॥३२॥ विज्ञानस्य प्रभावात् किमिह न सुलभं वर्तते मानवानां द्वीपाद द्वीपान्तरं च प्रभवति मनुजो गन्तुमाकाशयानैः । गेहे स्थित्वा विदेशे प्रचलदपि सदा पक्ष्यति क्रीडनादि प्राप्तं किं प्राग्युगीनैस्सुखमिदमत एवैष वन्द्यः कलीन्द्रः ॥३३॥ चलच्चित्रे नारी हतकलियुगे सस्तवसनां दिदृक्षन्ते स्नान्तीमपि च पुरुषालिङ्गिततनूम् । न लज्जाया लेशो न च भवति तेषामघभयं मनुष्याः किं वा ते पशव इति पूच्छन्ति कतिचित् ॥३४॥ सत्यं नोचितमेतदद्य बहुधा यच्चित्रणे दृश्यते नेच्छेन्लग्नतनुं कदापि वनितां भार्येतरां वीक्षितुम् । किन्तु द्वापर एव तां द्रुपदजां दुर्योधनः संसदि दागाकृष्य न किं यतितवान् कर्तुं विवस्त्रां खलः ? ॥३५॥ अथवा नैते दोषा भवन्ति केवलकलेविशेषाः । यावन्मानवजातिस्तावत् सर्वत्र भवति सैव कथा ॥३६॥ स्त्रीमोहो बलवान् खलु भीतिं लज्जां कुलाभिमानं च । सन्त्याजयते पुरुषै तत् कलिकालदूषणं मन्ये ॥३७॥ नास्तिक्यं प्रविजृम्भते कलियुगे भक्तिर्न देवे नृणां विश्वासो न च वेदवाचि यजने श्रद्धालवो दुर्लभाः । इत्थं चेदिह दुष्टता निगदिता ब्रूमो वयं नाऽभवत् किं वा पूर्वयुगे हिरण्यकशिपुर्वेदस्य विध्वंसकः ? ॥३८॥ Page #30 -------------------------------------------------------------------------- ________________ चार्वाको निगमान् निनिन्द नितरां निश्चित्य नैरात्म्यकं जाबालि : पितृकार्यमर्थरहितं ब्रूते स्म रामं प्रति । कृष्णो नैव हरिर्हरिस्त्वहमिति प्रोवाच वै पौण्ड्रको नास्तिक्यं सकले युगेऽस्ति न कलेर्वैशिष्ट्यमेतत् पुनः ॥३९॥ सत्पात्रं लभते न किञ्चिदपि तु प्राप्नोत्यपात्रं धनं मूर्खः संसदि शस्यते श्रुतधरो विद्वानवज्ञायते । मिथ्यावादपटुः स्तुतेः पदमहो सत्याश्रयो निन्द्यते सर्वं वै कलिवैभवं न करवै वैफल्यचिन्तामहम् ॥४०॥ चत्वारो ह्याश्रमाः स्युर्विधिवदनुगता ब्रह्मचर्यं गृहित्वं वानप्रस्थं यतित्वं प्रकटमिति सदा धर्मविद्भिः प्रणीताः । तेषां नैव व्यवस्था भवति कलियुगे मिश्रणालोकवृत्तेः स्वैराचाराच्च नृणां न च भवति ततो मोक्षसिद्धिर्युगेऽस्मिन् ॥४१॥ इत्याक्षेपे समाधिः स्वयमिह भवति प्रेप्सवोऽल्पा हि मोक्षं तस्याऽसिद्धिर्न दोषो बहुषु कतिचनैवाऽऽप्नुवन्ति स्म तं प्राक् । कालस्यैवाऽऽनुगुण्याद्धरिपदकमले भक्तिरात्यन्तिकी वा तत्सान्निध्यं मुमुक्षून्नयति कलिरतो नैव निन्द्यः सुधीभिः ॥ ४२ ॥ वर्णानां न व्यवस्था भवति कलियुगे, सर्व एव प्रवृत्ताः स्वेच्छाचारे, यथेच्छं विवहति पुरुषो योषितं कामवश्यः । एतस्मात्कारणाद् द्राग् भजति समजतां शास्त्रदृष्ट्या समाजः साङ्कर्यं पातहेतुर्भवति जगत इत्युच्यते कैश्चिदुच्चैः ॥४३॥ चातुर्वर्ण्यं विभक्तं न खलु भगवता जन्ममात्रेण नृणां दृष्ट्वा कर्माणि तेषां गुणमपि सकलं निश्चितस्तेन भेदः । तस्माल्लोके मनुष्या गुणपरिगणनां संविधायाऽनुरूपां कन्यां स्वीकुर्वते चेत् कथमिव भवति सङ्करो दोषहेतुः ? ॥ ४४ ॥ पराशरो नाम मुनिर्बभूव स्मृतिं पवित्रामपि यच्चकार । दाशस्य कन्यां परिगृह्य सोऽयं व्यासं समुत्पादयति स्म विप्रम् ॥४५॥ तामेव कामप्रतिनुन्नचेताः क्षत्रोऽपि वव्रे किल शन्तनुः प्राक् । तद्वापरे जातमभून्न किं वा साङ्कर्यमित्यत्र बुधा वदन्तु ॥ ४६ ॥ सिद्धार्थः करुणामयो निजगृहं राज्यं च पत्नीं सुतं . त्यक्त्वा लोकहिताय काननमगात् सौख्यं विहायाऽखिलम् । २३ Page #31 -------------------------------------------------------------------------- ________________ दृष्ट्वा दुःखनिवारणस्य सरणिं बुद्धोऽभवद् यद्युगे तं लोकत्रयशोकनाशकमिमं कस्मात् कलिं निन्दथ ॥४७॥ यस्मिन् युगे सकलदीनजनावनाय क्रिस्तः क्षमानिधिरपारदयासमुद्रः । लब्ध्वा जनिं जगति देवसुतश्चचार तं के कलिं कृतधियस्त्ववधीरयन्ति ॥४८॥ पूर्वं केचिन्मुनीन्द्रा नभसि विहगवन्नारदाद्या विचेरुः ब्राह्मादीन् दिव्यलोकान् गुरुतरतपसा प्राप्नुवन्नित्यशृण्म सत्यं वा कल्पना वा तदिति न तु वयं शक्नुमोऽद्याऽभिधातुं मर्त्यः साधारणोऽपि प्रभवति डयितुं व्योम्नि तुर्ये युगेऽस्मिन् ॥४९॥ पुरा रामो जित्वा दितिजनूपतिं रावणमथो विमानं तस्यैव स्ववशमधिरुह्याऽऽगत इति । प्रजाः शृण्वन्ति स्माद्भुतकथामद्य तु कलौ विमानारुढास्ता निखिलभुवने यान्ति ससुखम् ॥५०॥ कृते युगे तु केचिदेव वेदमध्यगीषत प्रकाशमाप नैव भूयसां तदा मतेर्बलम् । कलौ युगे सुविद्यतामुपार्जितुं न कस्यचित् सविघ्नताऽस्ति तद्वरं कलिं हि मन्महे वयम् ॥५१॥ पुत्रास्त्यजन्ति पितरौ वनिताङ्घिदासाः हिंसन्ति केचन वधूर्वरदक्षिणायै । निजन्ति काश्चन पतीन् विटमोहनुलाः क्रीडा कलेजगति नूनमियं प्रवृत्ता ॥५२॥ पुत्रा भवन्ति च कलौ वरिवस्यया ये सन्तोषयन्ति पितरौ विनयावनम्राः । द्विवान् निरीक्ष्य कुसुतान् सकला न निन्याः खण्ड्या न कण्टक भयाद् व्रततिः सुमाढ्या ॥७३॥ लोके भवन्ति कतिचिद् धनकाम्यया ये पत्लीमनन्यशरणामदया दहन्ति । नैतावता सकलभर्तृगणो विगाः पत्नीप्रियाश्च पतयः शतशो भवन्ति ॥५४॥ २४ Page #32 -------------------------------------------------------------------------- ________________ तुर्यं बाल्ये भजन्ते कतिचन सहसैवाऽऽश्रमं चेत्कलौ तद् दोषं नैवाऽऽदधाति प्रणिहितमनसां गाढवैराग्यभाजाम् । यस्मिन्नेवाऽहनि स्याद् विरतिरिह तदा प्रव्रजेति प्रतीता श्रौती वाणी विचष्टे विगणयति न ताम् आश्रमाणां व्यवस्था ॥५५॥ केचिद्वित्तादिमोहान्मठसुखविवशा बाल्यसंन्यासभाजः तारुण्ये त्विन्द्रियाणामुपहतिमतुलामक्षमाः सोढुमुत्काः । स्त्रीणां वश्या भवन्तः पुनरपि गृहितामाश्रयन्तो नितान्तं निन्द्या जायन्त एतत्कलियुगकलितं कश्मलं दुःखदं नः ॥५६॥ सत्यं, किं वाऽत्र कुर्मः सकलजगदघप्रोञ्छने शक्तमीड्यं गायत्रीमवरतं य इह भुवि पुरा दृष्टवान् विश्ववन्द्यः । विश्वामित्रोऽपि सोऽयं त्रिदिवमपरमेव क्षमः स्रष्टुमद्धा दृष्ट्वा कान्तां विवस्त्रां शिथिलधिषणतामाप वै मेनकां ताम् ॥७॥ सर्वेषामेव देवं स्वहृदभिलषितं प्रार्चितुं स्वेष्टरीत्या पूर्णोऽस्त्यत्राधिकारो जगति कलियुगे बाधते तं न कश्चित् । नास्तिक्यस्याऽवलम्बी भवति यदि जनस्तर्कमार्गानुसारी तस्याऽप्यस्मिल विघ्नो निजमतकथने, वन्द्य एवैष कालः ॥५८॥ यस्मिन् युगे मानवताकलङ्क दास्यं निषेद्धं सफलं प्रयलम् । कृत्वाऽब्रहाम्लिङ्कन आप कीर्ति कल्याख्यमेतद् युगमस्तु भूत्यै ॥५९॥ कलौ युगे समे जना भवन्ति नास्तिका इति प्रतीतिरप्यसत्यतामुपैति दृश्यां मनाक् । प्रसिद्धदेवमन्दिरे तथैव तीर्थसन्निधौ सुदीर्घपङ्क्तयो भवन्ति भक्तवृन्दमण्डिताः ॥६०॥ मत्स्यः कूर्मो वराहो नरहरिरथ वै वामनः पशुरामो रामः कृष्णोऽथ बुद्धोऽभवदिदमखिलं विश्वमुद्धर्तुकामः । विष्णुः साक्षाद् भविष्यत्यपि च कलियुगे कल्किरित्येतदेव स्पष्टं बूते युगानां गुणगणगणने चोत्तरोत्कर्षसिद्धिम् ॥६१॥ देवेनैकेन सृष्टा धरणिमपि तथैकां श्रयन्तो मनुष्या नीरं चैकं पिबन्तः पवनमपि तथा प्रश्वसन्तः सदैकम् । २५ Page #33 -------------------------------------------------------------------------- ________________ नीचोच्चत्वं स्वजातौ कलिविवशहृद: कल्पयित्वा बहून् नून् अस्पृश्यान् भावयन्तो विदधति हि युगं निन्धमत्यन्तघोरम् ॥२॥ शोषणासक्तबुद्धीनां दुर्लभं प्राप्तुमिच्छताम् । स्वार्थिनां मनुजानां हि दोषोऽयं न कलेः पुनः ॥६३॥ द्वीपं कमप्यधिवसलजहत् तमन्यमप्रेक्ष्य विश्वमखिलं स्वविधं विचिन्त्य । आसीज्जनो मितमतिर्गृहकूपभेकः पूर्वं कृतादिषु युगेषु निरस्तविद्यः ॥६४॥ अरिमन् कलौ भवति सर्वजनस्य विद्याप्राप्तौ विचारमथनेऽप्यमितोऽधिकार: । द्रष्टुं प्रपञ्चमवकाश इहाऽस्ति भूयान् तरमाल सङ्कुचितताऽत्र मतेर्जनस्य ॥६५॥ रोगान् पुराकृतविकर्मफलानि मत्वा प्राचीनकालजनताऽनुबभूव कष्टम् । विज्ञानमार्गमवलम्ब्य कलौ समस्तान् घोरामयान् नगणो विनिवार्य तुष्टः ॥६६॥ वैद्याः केवलमर्थलाभनिरता रुग्णान् विलुण्ठन्त्यमी चातुर्येण च वञ्चयन्ति जनतां हन्ताऽद्य मिथ्यौषधैः । इत्याक्षेपकृतः शिरोर्तिजठरक्लेशादिभिः पीडिता धावत्येव भिषग्गृहं प्रति जना विस्मृत्य टीकां स्वयम् ॥६७॥ अवातरद् भूमितले महात्मा दीनान् अशक्तांश्च समुद्दिधीर्षः । गान्धीति लोके विदितः स्वतन्त्रं व्यधाच्च यो भारतमात्मशक्त्या ॥२॥ अस्पृश्यतां भारतवर्षसीम्नो निरस्य सर्वान् अकरोत् समान् नृन् । यस्मिन् युगे तादृगभून्महात्मा कथं न वन्द्यः स कलिः समस्तैः ? ॥६३॥ वञ्च्यन्ते बहवो जनाः कलियुगे नक्षत्रताराग्रहान् तेषां स्थानमदर्शनं गतिमथ ग्रासं च चन्द्रार्कयोः । २६ Page #34 -------------------------------------------------------------------------- ________________ जानद्भिश्चतुरोक्तिमार्गनिपुणैः कार्तान्तिकैः सर्वदा तस्मान्निन्द्यममुं वदन्ति सुधियो धूर्तानुकूलं कलिम् ॥७०॥ विचारस्वातन्त्र्यं गणितमथ विज्ञानमखिलं कलिः प्रोत्साह्याऽयं विकचयति लोकस्य धिषणाम् । तथाऽप्यन्धश्रद्धां यदि समवलम्ब्याऽत्र कतिचित् प्रतार्यन्ते धूर्तेर्ननु क इह दोषः कलियुगे ? ॥७१॥ धर्मं लोके सकलसुखदं सुप्रतिष्ठं विधातुं मत्स्यन्यायं प्रतिभटयितुं दुर्बलानां विरुद्धम् । पूर्वं देवा नृपतिमसृजन् हन्त वृद्धे कलौ तु क्षीणो राज्ञां जगति महिमा राज्यमास्ते प्रजानाम् ॥७२॥ स्वैराचारं सकलजनताहानिदं भूपतीनां स्वाच्छन्द्यं तत्सचिवसमितेस्संनियन्तुं च भूयः । राजस्वाम्यं शिथिलमभवल्लोकतन्त्रं हितं तत्स्थाने सम्यग्विनिहितमिदं कः कलेत्र दोषः ? ॥७३॥ विद्यन्ते कवयो रसाम्बुनिधयो विद्योतते भारती सन्तरसन्ति समस्तशास्त्रनिचयस्वान्ता विशुद्धान्तराः । भक्ताः श्रेष्ठगुणा भवन्ति भगवत्कैङ्कर्यबद्धादराः किं वा नाऽस्ति कलौ यदेनमवजानन्तः स्तुवन्तीतरान् ॥ ७४ ॥ उत्पातेषु महत्सु मानवकुले त्रस्ते विनाशोन्मुखे संक्लिष्टान् परिरक्षितुं कृतधियो धावन्ति सेवाचणाः । विस्मृत्य स्वसुखं परोपकृतये बद्धादरास्तादृशा राजन्ते कलौ कथं नु तमिमं निन्दन्तु सल्लोचनाः ॥७५॥ रुग्णांश्चिकित्सति विनोदयते विषण्णान् विश्वासपूर्णहृदयान् कुरुते समस्तान् । दुःखार्दितान् सपदि सान्त्वयति प्रकामं वैद्यः कलौ प्रतिनिधिः किल देवतानाम् ॥ ७६ ॥ प्राणाः प्रियाः सकलजन्तुगणस्य नित्यं मर्त्यस्य तेषु नितराम् अधिको विमोहः । वैद्यान् विना न खलु तत्परिरक्षणं स्यात् तस्माद् भिषग् भवति देववदत्र पूज्यः ॥७७॥ २७ Page #35 -------------------------------------------------------------------------- ________________ विधवा अपि कलिकाले परिणयमिच्छन्ति हन्त पुनरपि ताः । वृणते केचन पुरुषा धर्मविनाशे प्रमाणमिदमेव ॥७८॥ एषोऽन्यायो वादो यस्माद् विधुरा विवाहसन्नद्धाः । न विनिन्द्यन्ते सद्भिः वृद्धा अपि कन्यकाः प्रतीच्छन्तः ॥७९॥ वैद्यान विना कथमनन्तविधैर्विचित्र रोगैः पिशाचनिचयैरिव पीड्यमानाः । जीवेयुरत्र मनुजाः ससुखं चरन्तः ? तस्माद् भिषक् स्तुतिमिहार्हति नैव निन्दाम् ॥८०॥ राजा रणेषु हरिवद् रिपुभीकरोऽपि कृत्स्नां वहलपि महीं मणिवत्सलीलम् । व्याधिप्रपीडिततनुभिषजं प्रपद्य त्रायस्व मां करुणयेति करोति यानाम् ॥१॥ विद्वान् समस्तनिगमागमपारगोऽपि ब्राह्मीवशीकृतजनोऽपि कवीश्वरोऽपि । रोगप्रनष्टमतिशक्तिरुपेत्य वैद्यं बद्धाञ्जलिर्वदति रक्ष भिषग्वरेति ॥८२॥ चलच्चित्रं लोकान् नयति कुपथे दर्शयति तत् परं रागान्धानां चटुलचरितानि प्रतिदिनम् । बलाद् यूनां चित्ते मृदुनि च मृषास्वप्नजननात् तदत्यन्तं निन्द्यं कलिसमयचिह्नं सुधिषणैः ॥८३॥ मैवं किञ्चन वस्तु नैष भवति श्लाघ्यं च निन्द्यं स्वतो हरतं प्राप्य सतां यदस्ति सुगुणं तद् दोषि लब्ध्वा सताम् । अग्नि पावनहोमसाधनमसन् गेहस्य दाहाय चे युङ्क्ते किं तत एव तस्य भविता दूष्यत्वमग्नेर्वद ॥८४॥ समस्तजनता कलौ भजति काममर्थं तथा न धर्मकणिकां न वा विमलमुक्तिमाकाङ्क्षति । अतः सपदि नश्यति प्रथितपूरुषार्थस्थितिः करोति च नरान् समान विकलचेतनैर्जन्तुभिः ॥८५॥ मैवं सत्त्वगुणान्विता नरवराः विद्योतमानाः कलौ विद्यन्ते बहवोऽत्र धर्ममतुलं प्रोज्जीवयन्तः सदा । २८ Page #36 -------------------------------------------------------------------------- ________________ आर्तानामुपकारमेव सततं कर्तुं समस्तं सुखं त्यक्त्वा स्वीयमुपात्तमर्त्यनिवहश्रेयोव्रता धार्मिकाः ॥८६॥ भवन्ति सन्तः पमुक्तिलब्धये विभाव्य लोकं जलबुबुदोपमम् । नियम्य चित्तं परमात्मसंस्थितं विधाय तत् सिद्धिमवाप्नुवन्ति ये ॥८७॥ भार्यागिरो निगमवाक्यसमाः कलौ स्युस्तरमात् स निन्द्य इति कश्चिदुवाच धीरः । भार्या ब्रवीतु जननी तनुजा स्नुषा वा प्रोक्तं सयुक्ति यदि तलिगमोक्तितुल्यम् ॥८॥ धर्मं केचिदिहाऽर्थसाधनतया युञ्जन्ति तस्मात्कलिः निन्द्योऽयं बहुधेति पूर्वकविना प्रोक्तं तु चिन्त्यं पुनः । पौरोहित्यमभूत् कृतादिषु युगेष्वप्यर्थसंसाधनं वेदाध्यापनमेवमेव न ततो दोषः कलेरेव सः ॥८९॥ रङ्गे प्रदर्श्य 'कुचबाहुनितम्बनाभि निर्लज्जमेव मदिरारसपानलोलाः । याः प्रेक्षकान् विदधते मदनप्रसक्तान् ता देवताः कलियुगे किल सर्वयूनाम् ॥१०॥ याचन्ते धनमत्र केचन गवां रक्षार्थमन्ये शुनां केचिद् देवगृहाय केचन पुनर्विद्यार्थिगेहाय वा । यज्ञार्थं कतिचित् परे तु सकलान् यज्ञान् विरोद्धं जनाः करमैचित् किल हेतवे कलियुगे सर्वेऽपि वित्तार्थिनः ॥१॥ नारीणां नास्ति लज्जा हतकलिसमये वित्तसम्पादनार्थं पुम्भिः साकं व्रजन्ति प्रतिदिनमपि ता भूरि कार्यस्थलानि । गेहे स्थित्वा न पाकं पतिहृदभिमतं कल्पयन्ति प्रभूतं शुश्रूषन्ते न वृद्धान् स्वसुखपरवशा नाउर्भकान् पोषयन्ति ॥१२॥ कुटुम्बभरणेऽधुना भवति नैव शक्तः पुमान् करोमि च सहायतां सपदि तस्य वित्तार्जने । इति प्रकृतिकोमला यदि बिभर्ति नारी भरं प्रशंसनमिहाऽर्हति प्रकटशक्तिरूपा हि सा ॥१३॥ १. द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् इत्येकवद्भावः । २९ Page #37 -------------------------------------------------------------------------- ________________ योषा कुर्वीत पाकं न खलु पुरूष इत्यस्ति किं वेदवाक्यं ? भीमः सूदाग्रगण्यः किल नलनृपतिः पाक विद्याप्रवीणः । वृद्धान् सेवेत योषिद्वदिह च पुरुषः शावकांश्चाऽपि रक्षेन् नार्याः पुंसा समत्वं प्रकटितमिह किं नाऽर्धनारीश्वरेण ? ॥ ९४ ॥ दैवेनाऽस्ति प्रदत्तं बलमखिलकलासाधने 'वे न नायै इत्येतन्नैव सत्यं भवति हि महिला सर्वकार्येषु दक्षा 1 भैषज्ये शिक्षणे चाऽप्यभिनयनययोर्ज्ञानविज्ञानरङ्गे गाने नृत्ये विमानोड्डयनगतिविधौ दृश्यते स्त्री समर्था ॥९५॥ कलौ भजति हास्यतां सकलशिष्यवर्गो भृशं गुरौ न खलु भक्तिमान् न च धिनोति वृद्धानिति । वदन्ति बहवोऽधुनाऽप्यखिललोकमान्यैर्गुणैः भवन्ति परिशोभिताः प्रतिभया च विद्यार्थिनः ॥ ९६ ॥ देहं विक्रीय नार्यः प्रकटमपि जना भूरि विक्रीय चाऽन्नं वेदान् विक्रीय विप्रा बत कलिसमये प्राज्यमर्जन्ति पापम् । व्यासेनोक्तं यदित्थं सकलमपि तदेवाऽस्ति सत्यं परन्तु प्रादाद् यो दीप्रमग्निं जठरपिठरके सोऽत्र निन्द्यः स्वयम्भूः ॥९७॥ देवस्थानानि भूयो जनहितकरणायैव निर्मान्ति धीराः प्राचीनानि श्रमेण प्रविमलधिषणा उद्दिधीर्षन्ति केचित् । पूजा यत्रोपरुद्धा जनपदरिपुभिस्तत्र केचिद् यतन्ते तामारब्धं सभक्ति प्रकृतयुगमतो मा स्म निन्दन् बुधेन्द्राः ॥९८॥ धनाशया तुर्ययुगे कविव्रजो नृपाधमान् ग्रामपतींश्च बालिशान् । महेन्द्रतुल्या इति वर्णयन् भृशं सरस्वतीमानविनाशनोन्मुखः ॥९९॥ इत्याक्षेपो न युक्तं कविगणविषये सन्ति चैवाऽद्य पूज्याः सत्यं निर्भीति लोके कथयितुमनसो वश्यवाचः कवीन्द्राः कष्टं सोढ्वाऽपि सर्वं नृपदुरितचयं वर्णयित्वा स्वकाव्ये दुष्टं तच्छासनं ये सपदि जनपदे रूढमुन्मूलयन्ति ॥ १०० ॥ मृतेभ्यः संचिन्वन् हृदयनयनादीन्यपि कलौ भिषग् दत्त्वाऽन्यस्मै दृढरुगभिभूताय कुशलः । १. नृशब्दस्य चतुर्थीविभक्त्येकवचने रूपम् । ३० Page #38 -------------------------------------------------------------------------- ________________ अमूल्यांस्तत्प्राणान् अवति कुरुते चाऽन्ध्यहरणं ततो वैद्यं साक्षाद्धरिरिति जनः स्तौत्यविरतम् ॥१०१॥ विद्यन्तेऽद्यापि नार्यः पतिहितनिरता भूरि कष्टानि सोदवा याः क्षेमं साधयन्ति प्रतिदिनमभितो भर्तुरत्यन्तमिष्टम् । मिष्टं पाकं च कृत्वा शिशुमपि समये लालयित्वा कथंचित् कार्यागारं च गत्वा विदधति बहु यास्ताः कथं वा न वन्द्याः ॥१०२॥ वेदानां कणिकाऽपि यस्य शिरसि स्वप्नेऽप्यवाप स्थलं शास्त्राणामपि जिघ्रति स्म न च यो गन्धं जनुस्सप्तके । यो जानाति न काव्यपद्यचरणं श्रोतुं न यस्याऽऽदरस्तं विद्वन्मणयोऽनुयान्ति धनिनं यस्मिन् कलौ तं च धिक् ॥१०३॥ मूर्ख ज्ञानसमुद्रमाहुरखिला वित्ताशया प्रेरिताः विद्याहीनमपि प्रशंसति जनो लिप्सुः पदं किञ्चन । अज्ञातामलकं भिषड्मणिरिति स्तौति प्रभावेप्सया सत्यं किं किमसत्यमित्यपि कलौ को ज्ञातुमर्हो नर: ? ॥१०४॥ सन्त्येवाऽत्र गुणाः सदा कलियुगे सन्त्येव दोषास्तथा विद्वांसो निवसन्ति यज्जनपदे मूर्खाश्च तत्राऽऽसते । तादृङ् नैव बभूव कालशकलं यस्मिन् समस्ता गुणाः दोषा वाऽत्र बभूवुरित्यनुचिता निन्दा कलेः सर्वथा ॥१०५॥ अहिंसाख्यं तत्त्वं जिनपतिवचोबोधितमिदं तथा सत्याख्यं तन्लिगमनिवहैनिश्चितमपि । दयातत्त्वं बुद्धप्रकटितमिहाऽस्ति त्रयमदो जगत् त्रातुं शक्तं न खलु कलिभीतिर्मनसि मे ॥१०६॥ नागराजेन कविना रचितं शतकं कलेः । विमर्शनाय विदुषां सन्तोषं जनयत्विदम् ॥ 90, 9th Cross Navilu Raste, Kuvempunagar MYSORE 510023 ३१ Page #39 -------------------------------------------------------------------------- ________________ सुभाषितानि प्रा. डॉ. किशोरचन्द्रपाठकः । मेघः समुद्रं प्रति । _(वसन्ततिलकावृत्तम्) पीतं समुद्र ! तव यज्जलबिन्दुलेशं तं तुभ्यमेव खलु सादरमर्पयामि । को वा वदेन्मम कृतोपकृतं त्वदर्थं यद्यर्प्यते सलिलमद्य च पूर्वपीतम् ॥ कोऽजो वदेद् यदि ममोच्चमधस्त्वदीयं स्थानं कदापि भुवने न विषादहेतुः । निम्नस्थितो गुरुतयोपरि संस्थितोऽहं प्रायोऽल्पता भवति मोहकरी जनानाम् ॥ क्षारं जलं भवति सागर ! तावकीनं कामं बृहद्वपुरिदं तव निन्दनीयम् । अन्तस्तलां समुपयाति जनस्त्वदीयं रत्नाकरस्त्वमसि संविदितो जनेन ॥ स्यादुत्सवस्तव शशाङ्ककलाप्रवृद्धौ क्षीणे विधौ तव वपुः क्षयमेति नूनम् । दृष्टं त्वयि परमरम्यमुदारसख्यं सन्मित्रलक्षणमिदं समुदाहरामि ॥ (४) ३२ Page #40 -------------------------------------------------------------------------- ________________ (१) (२) गान्धी (शार्दूलविक्रीडितवृत्तम्) यत्कृष्णस्य कृपावलोकनमहो यच्छ्रीसुदाम्नस्तपः ब्राह्मण्याः परतत्त्वकृष्णविषये प्रेम्णः प्रवाहोऽपरः । पित्रोः पुण्यसमुच्चयोऽतिविमलः कीर्तिः समग्रा भुवः एभिः पुण्यपुरे हि मोहन इति त्वन्वर्थनामाऽभवत् ॥ यात्रा (शार्दूलविक्रीडितवृत्तम्) नानादेशनिरीक्षणं परिचयो लोक स्वभावाध्ययस्तीर्थानामवलोकनं चतुरता बुद्धेः प्रसन्नं मनः । मेदच्छेददृढं वपुर्लघुतरं हृद्याः प्रशस्ता गिरो ज्ञानारोग्यकरी सदा गुणकरी यात्रा न किं सेव्यते ॥ ३३ पद्मपाणि ७ आनन्दनगर अमरेली ३६५६०१ Page #41 -------------------------------------------------------------------------- ________________ आस्वादः प्राणानप्यविगणय्य परोपकारं कुर्वाणा जीविनः मुनिकल्याणकीर्तिविजयः (नन्दनवनकल्पतरोः २४तमशाखायां प्रकाशितस्य लेखस्योत्तरार्ध:) अस्य लेखस्य पूर्वार्धेऽस्माभिदृष्टं यत् केचन प्राणिनः पक्षिणः कीटकाश्चाऽपि परेषां जीवनार्थं स्वप्राणदानमपि कुर्वन्ति । अस्योत्तरार्धेऽत्राऽपि तादृशानामेव केषाञ्चिज्जीविनां वृत्तं विचारयेम । आफ्रिकादेशे 'ड्राइवर' - इत्याख्यजातीया हिंसकस्वभावाः मत्कोटका भवन्ति । यद्यपि परेषां प्रायः सर्वेषामपि जीवानां घातका भवन्ति ते स्वभावादेव, तथाऽपि स्वजातीयानां जीविनामुपरि ते ३४ Page #42 -------------------------------------------------------------------------- ________________ प्राणदानेनाऽप्युपकारं कुर्वन्ति । कथमिति चेत् - पश्यामस्तावत् । एते मत्कोटा आहारार्थं कोटिशः सङ्ख्यायां निःसरन्ति सैन्यवत् । एवं च तेषामभिनिर्याणे मध्येमार्ग परिखा, निर्झराः सरिदित्यादीनि व्यवधानानि बहुश आयान्ति । तान्युल्लवितुं को वा मार्ग आश्रयितव्यः ? तदा 'चिन्ता माऽस्तु' इति कथयन्त इव सहस्रशो लक्षशो वा मत्कोटा: परस्परं पादेषु पादान् संयोज्य शृङ्खलामिव विरचय्य परिखादीनां द्वयोस्तटयोर्मध्ये सेतुं रचयन्ति । तस्मिंश्च सेतौ कोटिशो मत्कोटानां सैन्यं निराबाधं परं तटं प्राप्नोति । अथ च शृङ्खलां विरचय्य स्थिता मत्कोटास्तु तावता कालेन तथा श्रान्ता भवन्ति यथा ते तां शृङ्खलां त्यक्त्वाऽग्रे गन्तुं समर्था न भवन्ति । तेषामिहवार्ता तत्रैव समाप्ता भवति । यतः सैन्यस्य सहकारं विना ते चिरं जीवितुमशक्ता एव। एवं च सति पुनरपि स एव प्रश्न उत्तिष्ठत्ते - 'किमर्थमेते मत्कोटा स्वयंसेवकीभूय स्वविनाशमामन्त्रयन्ति ? वयं हि मार्गे गच्छन्तोऽन्येषां कृते विघ्नरूपा भवामोऽन्यान् व स्वमार्गान्तरायभूतान् दूरमपसारयामः, किन्तु मत्कोटा एते ह्यन्येषां कृते सेतूभवन्ति मार्गीभवन्ति वा स्वप्राणत्यागेनाऽपि । ईदृशी निःस्वार्थता तैः कुत्र वा शिक्षिता ? एल्टुइझम् (altruism) - इति पदेन जीवविज्ञानिषु प्रसिद्धोऽयं परहितवादः चार्ल्स-डाविन्इत्यस्य मनः संशयैर्दोलायितं कृतवान् । एतादृशो विरोधाभासो यदि केषुचिज्जीविषु स्यात् तदोत्क्रान्तिवादस्य सिद्धान्तः कथं स्थापयितव्यः ? उत्क्रान्तिवादं सिद्धान्तयतो डार्विन्-इत्यस्य मस्तिष्कं यया व्यामोहितं तस्या मधुमक्षिकाया जीवनमपि किञ्चिद् विलोकयेम - मधुकोशे राज्ञी, नराः श्रमिकाश्चेति त्रिधा मधुमक्षिका भवन्ति । तत्र राज्ञी नराश्च कार्यलवमपि न कुर्वन्ति । केवलं श्रमिकमधुमक्षिका एवाऽऽदिनं कार्याणि कुर्वन्ति, यथा - पुष्पमार्गणं, तद्रससङ्ग्रहणं (मुखेन) परागरजसां सञ्चयनमानयनं च (अग्रपादाभ्याम्) । ततः कोशं समागत्य राज्ञी शतशो नरांश्च ताः परागरजांसि भोजयन्ति पुष्परसं च पाययन्ति, अवशिष्टं च रसं मधुतया कोशे सगृह्णन्ति। येन पुष्पाणामभावकाले स रसो भोजनतयोपयुज्येत । मधुकोशोऽप्ययं ताभिरेव श्रमिकमधुमक्षिकाभिः स्वीयशरीरादेव सिक्थकं समुत्पाद्य बहुपरिश्रमेण निर्मितो भवति । राज्या नराणां च मधुमक्षिकाणां ह्येतादृशेषु कार्येषु न किञ्चिदपि साहाय्यं भवति । एवं च सति श्रमिका मधुमक्षिका एताः सर्वमपि निजजीवनं परार्थमेव व्ययन्ति, कदाचिच्च तत्र निजप्राणानपि त्यजन्ति । कथमिति चेत् ? - एवम् - श्रमिकमधुमक्षिकाया दंशकण्टको विषमयो भवति । करपत्रस्य धारायामिव तस्या दंशेऽस्रयो भवन्ति, किन्तु विपरीताः । यदा कश्चन शत्रुर्मधुकोशे कुदृष्टिं करोति तदा श्रमिकमधुमक्षिकाऽनेन दंशकण्टकेन तच्छरीरे दशति । दशनेन च स कण्टकस्तच्छरीरान्तः प्रविशति । किन्तु तदनन्तरं सा तं कण्टकं ततो निस्सारयितुं समर्था न भवति । यद्यपि सा तदर्थं पूर्ण प्रयत्नं करोति तथाऽपि तत्परिणामतया तस्याः शरीरस्य बहवोऽवयवा विनष्टा भवन्ति, स्तोकवेलया च साऽपि मृत्युं प्राप्नोति । किन्तु तस्या बलिदानं वृथा न भवति यतः शत्रुदेहे प्रविष्टो विषमयो दंशकण्टकः स्वयमेव विषमुद्वमन् तं शत्रु दण्डयति । Page #43 -------------------------------------------------------------------------- ________________ अत्र चिन्तनीयं त्वेतद् यद् - मधुमक्षिकया किमर्थं मरणं स्वीकृतम् ? शत्रोः प्रतीकारार्थं मधुकोशस्य च रक्षणार्थं खलु ! । सुबोधं भासमानं तथ्यमिदं नास्ति तथा सुबोधम् । यतः श्रमिकमधुमक्षिका स्वीयसिक्थकेनाऽविकलषट्कोण-निबद्धं मधुकोशं विनिर्माति, पुष्परसं परागरजश्चाऽवचिनोति, अलसकुटुम्बिजनानां कृते भोजन-पानादिप्रबन्धं करोति, अतिरिक्तं मधु सञ्चिनोति, ग्रीष्मे च पक्षवीजनं कृत्वा मधुकोशं वातानुकूलितं करोति, शत्रुप्रतिकारार्थं च शस्त्रोपयोगं कर्तुमपि शक्ता । एवं च सर्वदृष्ट्या जीवनार्थं समर्था तु सैव (fit to survive), तथाऽपि तयैव किमर्थं मरणं प्राप्तव्यम् ? डाविन्-मनसि बन्योऽपि प्रश्नस्तदैवोत्थितो यदियं श्रमिकमधुमक्षिका न नरजातिका नाऽपि नारीजातिकाऽपि तु नपुंसकजातिकाऽस्ति । अतः सन्ततेरुत्पादनस्य निर्वहणस्य वा तस्याश्चिन्तैव नाऽस्ति । अन्ये जीविनो हि स्वसन्तानानां रक्षणार्थं शत्रुभिः सह युद्धवाऽऽत्मत्यागं कुर्युरिति तु सुबोध, यतः स्वनाशे जातेऽपि सन्तानानां रक्षणां तु जातमतो वंशोच्छेदस्तु न भवेत् । किन्तु श्रमिकमधुमक्षिका ह्यात्मत्यागं कृत्वा किं प्राप्स्यति खलु ? न किमपि । यद्यपि राश्या नरमक्षिकाणां चाऽस्तित्वरक्षणार्थमेव श्रमिकाणां जीवनमिति तु सत्यमेव तथाऽपि जीवनार्थं समर्थायास्तस्या एव मरणं भवेत्, ये च न सर्वथा समर्थास्तादृशानां राज्ञी-नरमक्षिकाणां च रक्षणं भवेत्-इत्यत्र डार्विन्-इत्यस्य मुख्यः सिद्धान्त एव (survival of the fittest) पतो भवति । अनेनैव कारणेन स वर्षाणि यावत् स्वसिद्धान्तान् लोकसमक्षं प्रकटयितुं संशयित एवाऽतिष्ठत् । अथ चैतेषां मत्कोटानां मधुमक्षिकाणां च दृष्टान्तेनेदं सिद्धं भवति यदेते जीविनो न स्वीयं किन्तु समग्राया अपि स्वजाते रक्षणार्थमात्मत्यागं कुर्वन्तीति । अत्र स्पष्टतार्थमन्यमपि दृष्टान्तं - विचारयामः । डिक्टोस्टेलियम-इत्याख्यः सूक्ष्मो वनस्पतिः पृथिव्या अधस्तात् वसति । प्रारम्भे तु एष वनस्पतिः पृथक्तयैकैक एव अमीबा(amoeba)रूपेण भवति तत्रस्थेन च स्वयोग्याहारेण निर्वाहं करोति । किन्तु गच्छता कालेन तत्राऽऽहारद्रव्याणि क्षीयन्ते । अत आहारप्राप्त्यर्थं तेन स्थलान्तरं कर्तव्यमेव । किन्तु तत्करणं हि तदर्थं सर्वथाऽशक्यम् । यदि च स्थलान्तरं नैव भवेत् तदा एकैकश: सर्वेषामपि तेषां नाशो भवतिप्रान्ते च समग्राऽपि जातिरेव विनश्येत् । अतः कदाचित् तेषां कोटिकोटिशो वनस्पतिजीवानां मध्ये रासायनिकः सन्देशव्यवहारो भवति । फलतश्च तेषां कोटिशः सम्मील्य सप्ताष्टविभागकं गुच्छमेकं रचयन्ति । विभागा अप्येते परस्परं सम्मील्य दण्डमेकं विरचयन्ति । दण्डमेनं दृढं कठिनं च कर्ते केन्द्रस्थान वनस्पतिजीवान् विहायाऽन्ये सर्वेऽपि प्राणत्यागं कुर्वन्ति । ततश्च तेषां निष्प्राणशरीरेषु विद्यमानानां कोषाणां शुष्कीभवनात् सहजतयैव दण्डो दृढः कठिनश्च भवति । तदनन्तरं तं दण्डमितोऽप्युच्छ्रितं कर्तुं कोटिशो जीवा तदधोभागे संयुज्य प्राणत्यागं कुर्वन्ति । दिनानि यावदेषा प्रक्रिया प्रचलति । एतेन च दण्डोपरिभागे स्थिताः केन्द्रस्था जीवाः शनैः शनैरूर्ध्वमारोहन्तो यत्र स्वयोग्याहारद्रव्याणि प्राप्यन्ते तं प्रदेशं प्राप्नुवन्ति, आहारग्रहणेन च प्राणरक्षणं कुर्वन्ति तथा विभाजनेन नूतनानेककोषीय(amoeba)जीवान् समुत्पादयन्ति । फलतस्तेषां रक्षणमपि जातं जातिरपि च तेषां सुतरां रक्षिताऽभवत् । किन्त्वेतत् सर्वमपि जातं तेषामात्मसमर्पणं कुर्वतां Page #44 -------------------------------------------------------------------------- ________________ कोटिशः सूक्ष्मजीवानां कारणांत् यैर्हि स्वास्तित्वं गौणं कृत्वा स्वजाते रक्षणार्थं सर्वस्वं समर्पितम् । एतादृशां केवलं परहितनिरतानामेव जीवानामीदृशस्य समाचरणस्य किमपि कारणं कथयितुं विचारयितुं वा डार्विन् सर्वथाऽसमर्थो जातो, यतः सजीवसृष्टौ तेन सर्वदा दृष्टमासीत् यद् - यदि जीवो बलवान् स्यात् तदाऽन्यान् निगिरति सः, यदि च निर्बलस्तदाऽन्येषां कवलीभवितुमेव तस्य जन्मेति । अनेन न्यायेन तु सर्वत्र स्वार्थशासनमेव प्रवर्तेत किन्तु दृष्टान्तेष्वेतेषु तेन परमार्थ एव दृष्टः । जीवितुं विकासं प्राप्तुं च समर्था अपि मत्कोट-पिपीलिका- चिक्रोड - मधुमक्षिका - सूक्ष्मवनस्पत्यादयो जीवा परहितार्थमेव म्रियन्ते, तद्विपरीततया तु दुर्बलास्ततश्च विकासं प्राप्तुमक्षमा अपि जीवा (राज्ञी -नरमधुमक्षिकासदृशाः) जीवन्ति विकासं चाऽपि प्राप्नुवन्ति । ततश्च समर्थ एव जीवेत् - इति सिद्धान्तः कथं प्रमाणयितव्यः ? अस्तु, परहितवादस्य (altruism ) द्वित्रान् दृष्टान्तान् विचार्य समर्थयामस्तावत् । केनेडादेशीयो गोर्डन - हेबरनामा प्राणिशास्त्री ह्येकदाऽमेरिकादेशस्याऽलास्काराज्ये प्राणिनामभ्यासार्थं गतवान् । तत्र च प्रख्याते मेकिंगली-अभयारण्ये तेन दूरादेवैको वृको दृष्टः । स खञ्ज इव चलन्नस्ति - इति दृष्ट्वा हेबरेण दूरवीक्षकयन्त्रेण विलोकितम् । तदा तेन ज्ञातं यदस्याऽग्रेतन एकः पादो व्रणितोऽस्ति । व्रणमपि कथं जातमित्यपि तेनाऽनुमितं, यथा - केनचित् महाकायेन हरिणेन प्रादप्रहारं कृत्वा व्रणितोऽस्ति वृकोऽयमिति । बहुप्रयासैः स वृको वनप्रान्ते स्थितायां काष्ठापवरिकायां ( cabin) प्राप्तः । ततो विश्रामं ग्रहीतुं सुप्त: । वृका हि सदाऽपि यूथस्था एव विचरन्ति भक्ष्यं च मृगयन्ते । किन्त्वस्य वृकस्याऽन्ये यूथ्या हेबरेण न कुत्रचिद् दृष्टाः । अतस्तेन चिन्तितं यदयमपि बहूनामन्यप्राणिनामिवैकान्त एव मर्तुमत्राऽऽगतोऽस्ति । अथ सायङ्काले हेबरस्तत्र पुनरप्यागतः । दूरवीक्षकयन्त्रेण तेन विलोकितं तदा दूरादेकोऽन्यो वृकस्तत्राऽऽगच्छंस्तेन दृष्टः । तन्मुखे भक्ष्यखण्ड एक आसीत् । अपवरिकासमीपं गत्वाऽग्रेतनपादेन तद्द्वारं चोद्घाट्य स वृकोऽन्तरगच्छत्, तत्र शयानस्य च स्वज्ञातिबन्धोर्मुखस्याऽग्रे तं भक्ष्यखण्डममुञ्चत् । तेनाऽपि व्रणितवृकेण भोजनं कृतम् । ततः सन्तुष्टः स द्वितीयो वृकस्ततो निर्गत्याऽरण्यं प्रति गतवान् । एतद् दृष्ट्वाऽत्यन्तं विस्मितो हेबरः स्वीयं पटगृहं तत्रैव स्थापितवान् । द्वितीयेऽह्नि सायंसमये तथैव स द्वितीयो वृको व्रणितवृकार्थमाहारं गृहीत्वाऽऽगतस्तं च भोजयित्वा प्रत्यागतः । अयं क्रमः पञ्चदश वा दिवसानि प्राचलत् । तावता स व्रणितो वृकः सज्जो जातः । अन्तिमे सायाह्ने च द्वावपि वृकौ सहैव काष्ठापवरिकां त्यक्त्वाऽरण्यं गतवन्तौ । व्रणिताय वृकाय य: प्रत्यहं भक्ष्यदानेन पोषितवान् स वृको हिंसकस्य वृकयूथस्य सभ्य आसीत् । सर्वदाऽप्यहमहमिकया भक्ष्यार्थं युध्यमानानां वृकानामन्यतम आसीत् । तथाऽप्यत्र प्रसङ्गे एवमनुभूयते यत् स जीवदयामण्डलस्य सभ्योऽस्तीति । पञ्चदशदिवसानि यावत् प्रत्यहं स्वयं न्यूनं भक्षयित्वाऽपि स वृको व्रणितं वृकं पोषितवान् । एवंकरणेन तस्य कोऽपि लाभो नाऽऽसीदेव प्रत्युत खञ्जीभूतस्य वृकस्य भविष्यति कालेऽपि विना प्रतिसहकारापेक्षया पोषणमेव कर्तव्यमिति प्रत्यक्षा हानिरेव । तथाऽपि किमर्थं तेन वृकेणेदं ३७ Page #45 -------------------------------------------------------------------------- ________________ परहितकार्यं कृतम् ? - इति प्रश्नस्य न किमप्युत्तरं प्राणिशास्त्रिणां शास्त्रेषु प्राप्यते । अथो मध्यामेरिकीयदेशेषु कोस्टारिका-होन्डुरास-पनामा-मेक्सिकोप्रभृतिषु वाम्पायरजातीया जतुका* भवन्ति । तेऽपि परहितकरणार्थं प्रसिद्धाः सन्ति । ते किलाऽऽहाररूपेण केवलं रक्तमेव पिबन्ति नाऽन्यत् किञ्चिदपि । सुप्तानां मनुष्याणां गवाश्व-बर्करादिप्राणिनां चाऽतीव निकटमागत्यैता विना किमपि पीडनं रक्तं पिबन्ति । ततः पुनरपि स्वस्थानं प्रत्यागत्याऽधोमुखतया लम्बन्ते । तत्र च प्रत्येकं जतुका प्रत्यहमुदरपूर्ण रक्तं नैव प्राप्नुवन्ति । अतस्तासां बढ्यो बुभुक्षिता एव प्रत्यागच्छन्ति । इतश्च बढ्यो जतुका तादृश्योऽपि भवन्ति याभिरावश्यकतातोऽप्यधिकं रक्तं पीतं स्यात् । अतस्तादृश्यो जतुका बुभुक्षितानां जतुकानां मुखेऽधिकं रक्तं वमनद्वारा निक्षिपन्ति । एतेन बुभुक्षितानां जतुकानां बुभुक्षा ततश्च मरणभीतिरप्यपसृता भवति । एतादृशं दानं ताभिः कुत्र शिक्षितम् ? अथैवं विचिन्त्येत यद् या जतुका अद्य रक्तदात्यस्ताभिः कदाचित् श्वो रक्तदानं ग्रहीतव्यमपि भवेत् । किमीदृशं परोक्षं स्वार्थमाश्रित्य ताः परहितं कुर्वन्ति वा ? शक्यमेतत् । तथाऽपि विचारणीयं त्वेतद् यत् प्रकृतौ यदा सर्वत्र जीविनां मध्ये आहारार्थं स्पर्धा प्रवर्तमाना स्यात् तदा किमर्थं जतुकाभिः परोपकारः करणीयः ? यदि बुभुक्षिता जतुका म्रियन्ते तहि म्रियन्तां नाम, आगामिदिने स्पर्धकानां न्यूनत्वात् तासामाहारान्वेषणे सौलभ्यमेव भविष्यति खलु ! तथा डार्विन्सिद्धान्तानुसारं तु स्वीयमाहारमन्वेष्टुं निष्फला जीविनो जीवितुं न योग्याः । तथाऽपि ते कथं रक्षिता भवन्ति ? प्राणिजगति गरुड-नकुलानां भक्षक-भक्ष्यव्यवहारः प्रसिद्ध एव । किन्त्वेकदैकेन प्रकृतिविदाऽभ्यासकाले यद् विलोकितं तदत्र प्रस्तुतमस्ति । एकेन मार्शियलजातीयगरुडेनैकदैको नकुलो गृहीतः । गरुडा हि नकुलमतीव सरलतया गृह्णन्ति, नकुलाश्चाऽपि गरुडप्रतिच्छायां दृष्ट्वाऽपि भयभीताः सन्तः पलायन्ते । किन्तु यदाऽत्र गरुडेन नकुलो गृहीतस्तदा तज्ज्ञातिबन्धवोऽन्ये नकुलाः पलायनमकृत्वा गरुडेन सह योद्धमिव सम्मुखीना जाताः कोलाहलं च कृतवन्तः । गरुडो हि वृक्षस्यैकस्यां शाखायां नकुलं गृहीत्वोपविष्ट आसीत् डयितुं च तत्पर एवाऽऽसीत्, किन्तु नकुलानां विरोधं दृष्ट्वा स आघातं प्राप्य क्षुब्धो जातः । तेन स्वप्नेऽपि चिन्तितं न स्यात् यदेते वराका नकुला मे विरोधं करिष्यन्तीति । अतः कञ्चित् कालं तत्रैवोपविश्य आघातमूढः स गृहीतं नकुलं मुक्त्वाऽन्यत्रोड्डीनः । यद्यपि, गरुडस्तान् सर्वानपि नकुलान् एकैकशो निहन्तुं शक्त एवाऽऽसीत् । एतच्च तथ्यं नकुला अपि जानन्ति स्म । तथाऽपि स्वयूथ्यं रक्षितुं तैः प्राणपणोऽपि कृतः । एवं कृत्वाऽपि तस्य नकुलस्य रक्षणं भविष्यत्येवेति निश्चितं नाऽऽसीत् प्रत्युत तेषामपि प्राणानां रक्षणे आशङ्काऽऽसीत् । तथाऽपि स्वतोऽनेकशो बलिष्ठस्य शत्रोरपि ते सम्मुखीना जाताः । कस्यचिन्मनुष्यस्य भ्रात्रादिकः स्वजनो नद्यादीनां जले निमज्जन् यदि सहायार्थं स्वभ्रातरमेवाऽऽह्वयेत् तदा तरणमजानन् स भ्राता केवलं तटे स्थित्वा सहायार्थमन्यानेवाऽऽहूय सन्तुष्टो भवेत् । यतः स जानाति ★ चमगादड / चामाचीडिया - इति भाषायाम् । ३८ Page #46 -------------------------------------------------------------------------- ________________ यद् - यद्यहं जलप्लवनं कुर्यां भ्रातरं रक्षितुं तदाऽहमपि म्रियेय अतः स तट एव तिष्ठति । अत्र च, नकुला एतेऽपि जानन्ति स्म यद् - गरुडस्याऽस्य विरोधं कुर्वाणा वयं म्रियेम एव । एवं सत्यपि मनुष्यवत्तटस्था न भवन्तस्ते गरुडस्य सम्मुखीना जाता एव । अतो मनुष्यादपि तेऽधिकं दयावन्तः परहितनिरताश्चेति निश्चितं खलु ! इदानीमन्तिमं दृष्टान्तं विलोकयामः । पश्चिम एशियाखण्डे, उत्तर- आफ्रिकायां दक्षिणे च यूरोपखण्डे पतरङ्गा (Bee-eaters) नामकाः पक्षिणो भवन्ति । एते हि पक्षिणः सदा यूथेन सहैव वसन्ति । आदिनं यूथस्था एवैते आहारं मृगयन्ते, नीडानपि च यूथस्थिता एव निर्मान्ति । अथ च केचित् नीडान् बध्नन्ति केचिच्च न । तत्र ये न बध्नन्ति ते परहितार्थमेव । कथमिति चेत् ? एवम् - ते हि नीडानिर्मातारोऽन्येषां नीडनिर्माणे साहाय्यं कुर्वन्ति । एवंकरणेन ते किं प्राप्नुवन्तीति न प्रष्टव्यं प्रत्युतैवंकरणेन ते किं विनाशयन्तीति प्रष्टव्यम् । ते हि स्वगृहवासावसरं विनाशयन्त्येवं परसाहाय्यकरणेन । आश्चर्यजनकं प्रतिभाति खल्वेतत् ! कोऽपि मनुष्यः कदाऽप्येवं परोपकारार्थं स्वगृहं प्रज्वालयेत् खलु ? किन्तु पक्षिणामेतेषां परोपकार एव पक्षपातोऽतस्ते स्वनीडनिर्माणं त्यक्त्वाऽन्येषां स्वजातीयानां नीडनिर्माणे साहाय्यं कुर्वन्ति । अन्यदा बेङ्गलूरुनगराभ्यर्णवर्तिषु वनप्रदेशेषु एस्. श्रीधरः प्रवीण- कारन्थश्चेति द्वौ पक्षिशास्त्रिणौ निरीक्षणार्थं गतवन्तौ । तदात्वे हि पक्षिणामेतेषामृतुकाल आसीत् । अतस्ते नीडनिर्माणे निरता आसन् । अथाऽऽभ्यां पक्षिशास्त्रिभ्यां निरीक्षितं यत् ४० प्रतिशतान् (४०%) नीडान् केवलं पक्षि-पक्षिण्यौ न निर्मातः किन्त्वन्येऽपि स्वयंसेवकरूपाः पक्षिणस्तत्र साहाय्यं कुर्वन्तीति । यदा च नीडनिर्माणं पूर्णीभवति तदैते स्वयंसेवकाः स्वनीडनिर्माणं प्रारभन्ते । फलतश्च तेऽत्यल्पतयाऽण्डानि प्रसवितुं शक्ता अभवन् सर्वथा वाऽण्डप्रसवनं न कृतवन्तः, यत एतेषां पक्षिणामृतुकालोऽत्यल्पो भवति । स्वयंसेवकपक्षिणां तेषां कीदृशी निःस्वार्थता परोपकारिता च ! अथवा मनुष्यमनोवृत्त्या तु सर्वथा मूर्खता ! यतो मूर्खा एव स्वगृहं विनाश्य परोपकारार्थं धावन्ति । एवं ते किमर्थं कुर्वन्तीति न केऽपि पक्षिशास्त्रिणो जानन्ति । केवलं तेऽनुमान्ति यत् - तेषां पक्षिणामृतुकालस्याऽल्पत्वात् यदि सर्वेऽपि पक्षिणः स्वस्वनीडान् निर्मातुं निरताः स्युस्तदा तदर्थं कालव्ययोऽधिकः स्यात् फलतश्चाऽण्डप्रसवनमल्पीयो भवेत् । वन्यपक्षिषु बालमरणान्यकालमरणान्यपि च बहुधा भवन्तीति क्रमेण समग्राऽपि जातिरेव विनष्टा स्यात् । एवंस्थिते यदि केचन एव पक्षिणोऽधिकाण्डप्रसवनं कुर्युः केचन च सर्वथा न कुर्युस्तदैव तेषां हितं स्यात्, जातिश्च रक्षिता भवेत् । अनुमानमिदं सर्वथा सङ्गच्छते । अण्डसङ्ख्यावृद्धिरपि निरीक्षकैर्लक्षिताऽस्ति । किन्तु रहस्यमेकमनुद्घाटितमेव तिष्ठति यत् - मनुष्यवदेते पक्षिणः किमर्थं स्वार्थिनो न सन्ति ? किमर्थं ते साहाय्ययाचनं विहाय साहाय्याने उद्युक्ता भवन्ति ? किमर्थं ते स्वहितं विनाश्याऽपि परहितनिरता भवन्ति ? यद्यवकाशो लभ्येत तदा रहस्यमिदमधिकृत्य विचारयितव्यमस्माभिः । प्रायशस्तु स्वार्थनिरता वयं निरर्थकतया प्रतिभासमानमेतादृशं विचारयितुमवकाशमेव न लभेमहि खलु !! (आधार: गुर्जरभाषीया सफारी - विज्ञानपत्रिका ) ३९ Page #47 -------------------------------------------------------------------------- ________________ पत्रम् मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । तव कुशलं कामये । गुरुभगवता साकं वयमेकस्मिन् नगरे स्थितवन्त आस्म । तत्र द्वौ शक्तिसम्पन्नौ श्रेष्ठिनौ वसतः स्म । तत्रैकः पूर्वग्रहग्रथिल आसीत् । सोऽन्यश्रेष्ठिना कथितेषु सर्वेष्वपि कार्येषु विरोधमेव प्रदर्शयति स्म। तदा समाजस्य कियदहितं जातं तद् मया प्रत्यक्षतया दृष्टम् । तस्मिन् काले पूर्वग्रहविषये किञ्चिच्चिन्तनं जातं तल्लिखामि । पूर्वग्रहो नामैकान्तवादो मूढता, दृष्टेः सङ्कोचनं च । पूर्वग्रहशून्यता नाम स्याद्वादो दृष्टविस्तारश्च । ४० Page #48 -------------------------------------------------------------------------- ________________ अत्र कस्यचिदपि वस्तुनो घटनाया व्यक्तिविशेषस्य च सर्वतो निरीक्षणं करणीयम् । कदाचिदपि कुत्रचिदपि च स्वमतस्य स्वाग्रहस्यैव च नाऽवकाशोऽस्ति, अपि तु सर्वस्या अपि संभावनाया मुक्तमनसा स्वीकारोऽस्ति । एष पूर्वग्रहो जनान् सत्यतो वस्तुस्थितितश्च दूरीकरोति, तथाऽहितस्याऽसत्यस्य च मार्गे नयति । एष सतोः नयनयोरपि जनानन्धीकरोति । अहं यन्मन्ये तदेव सत्यमित्याग्रहादेतादृशो जनोऽन्यजनान् निरन्तरं पीडयति, बहूनां जनानां च शक्तिं निरोधयति, तेषां जीवने क्लेशमप्युत्पादयति च । एतदेव पूर्वग्रहस्य वैशिष्ट्यमस्ति । जनः पूर्वं यादृश आसीत् तादृश एव सर्वदा स्थास्यतीति चिन्तनं नाम पूर्वग्रहः । ततः स जनो यदा किमपि कुर्याद् वदेच्च तदा स पूर्वग्रहदृष्ट्यैव तस्य कार्यस्य कथनस्य च मूल्याङ्कनं करोति । एष जन एवमवदत् ततो निश्चितं ज्ञेयम् - अस्य मनस्येतादृशस्तादृशो वा भावोऽस्तीति । अत्र केवलं स्वकल्पित-विकल्पानामेव प्राधान्यमस्ति, न तु सत्यस्य । यथा - एष जनो ह्यः कर्णावतीनगरं गतः, अद्याऽपि तत्र गतवान्, श्वश्चाऽपि तत्रैव गमिष्यति, ततोऽस्य मनसि कोऽपि विशिष्ट आशयोऽस्ति - इति मननं नाम पूर्वग्रहः । अस्य देहे ह्यः प्रतिकूलता जाता, अद्याऽप्येवं जातं, तद् एतेनाऽभक्षणीयं किमपि भक्षितमिति कल्पनं नाम पूर्वग्रहः । तथा – एष जनोऽद्यैवं वदेत्, कुर्याद् वर्तेत च, स सर्वदा एवंरीत्यैव वदिष्यति, करिष्यति, वर्तिष्यते चेति चिन्तनं नाम पूर्वग्रहः । बन्धो ! अस्माभिरेतादृशः पूर्वग्रहो न करणीयः । यत एष क्लेशस्य मूलमस्ति । यदि यत्तद्घटनायाः सन्दर्भे तद्व्यक्तिचित्तनिष्ठभावना दीर्घदृष्ट्या मुक्तमनसा च विचिन्त्यते तहि क्लेशस्याऽसत्यकल्पनायाश्च संभावना नोत्पद्यते । किन्तु तद्व्यक्ति प्रति पूर्वग्रहेण बद्धचित्तः स जनोऽन्यद् न किमपि विचिन्तयितुं शक्तोऽस्ति । पूर्वग्रहोऽपि बहुविधोऽस्ति । किमपि वस्त्वाश्रित्य, कुत्रचिद् विशिष्ट स्थानमाश्रित्य, कदाचिद् विशेषकथनस्य, कदाचिच्च व्यक्ते: पूर्वग्रहोऽपि संभवेत् । यथा - एतद् वस्तु यदा यदा मम गृहे आगच्छेत्तदा किमप्यशुभं भवेदेव । दैवयोगेन तद्वस्तुनि गृहे आगते सति येन केन प्रकारेणाऽप्यलाभो भवति । ततस्तद्वस्तु दृष्ट्वैव तन्मनसि क्लेश उत्पद्येत, एष वस्तुनः पूर्वग्रहः । अद्यावधि क्षीरपाकस्य भोजनेन प्रसन्नता देहपुष्टिश्च भवति, इति मन्यते स्म । किन्त्वेकदा केनाऽपि कारणेन तद्भोजनेन देहे प्रतिकूलता जाता, ततस्तेन निर्णीतं क्षीरपाकेनैतज्जातम् । तत्पश्चान्न कदाऽपि क्षीरपाकं भक्षयेत् । एषोऽपि पूर्वग्रहः । ४१ Page #49 -------------------------------------------------------------------------- ________________ एवं स्थानमाश्रित्य, कथनमाश्रित्य, व्यक्तिविशेषं चाऽऽश्रित्याऽपि पूर्वग्रहो बध्यते । पूर्वग्रहवशेन अ-जनं प्रति रागोऽस्ति - एष अ-जन: सरल: सज्जनश्चाऽस्ति, एष मेऽहितकरं न कदाऽपि कुर्यात् कारयेच्चेति । पश्चात् स अ-जनोऽसभ्यरीत्या वर्तेत, मम कृते एव वितथं वदेत, तथाऽपि तं प्रति रागवशेन स अ-जनः सरल एव प्रतिभाति - व्यक्तिमाश्रित्यैष रागस्य पूर्वग्रहः । तथैव ब-जनं प्रति द्वेषोऽस्ति - एष मे प्रतिकूलं वर्तते, मम विरोध्यस्ति, ममाऽहितकरणे प्रयततेइति । अत्र ब-जनस्य चित्तेऽद्यावधि मम कृते मलिनविचारलेशोऽपि नाऽऽगतः, स तु सदा मे शुभकरणे एव प्रयतते । कदाचित्तु ममाऽशुभचेष्टां केवलं ब-जन एव जानाति, तथाऽपि स ब-जनो मां प्रशंसते एव । तथाऽपि पूर्वग्रहवशेन ब-जनं प्रति मे यो द्वेषोऽस्ति तेन स ब-जनो मम दुष्टतयैव प्रतिभाति । एष व्यक्तिमाश्रित्य द्वेषस्य पूर्वग्रहः ।। कदाचित् कश्चिद् ब-जनस्य द्वेषी अस्ति । स द्वेषी ब-जनस्याऽहितं भवेदिति स्पहयति, किन्तु स तत्कर्तुं न शक्तो जातः । ततः स द्वेषी मम समीपमाग 4 ब-जनविषयकं वितथं वदेत् । एवं मे चित्ते यो द्वेष आसीत्, तस्मिन् वृद्धिं करोति । एवमपि पूर्वग्रहो दृढो भवति । व्यक्तिमाश्रित्योक्त एष पूर्वग्रहः । अत्र सर्वेऽपि पूर्वग्रहा अहितकरा एव सन्ति, तथाऽपि व्यक्तिविशेषस्य पूर्वग्रहस्तु नितरामनर्थकरोऽस्ति । बन्धो ! पूर्वग्रहेण कियदहितं भवति, तत्तु कदाचिदनुभवेन, कदाचित् स्वाध्यायेन, कदाचिच्च सामाजिकवातावरणेन ज्ञायते । सर्वेऽपि जनाः शक्तिमन्तः सन्ति । तत्र कस्यचिज्जनस्य बुद्धिकौशल्यं, कस्यचिज्जनस्य वाक्शक्तिः, कस्यचिज्जनस्य व्यवहारनैपुण्यं, कस्यचिज्जनस्य कार्यनिपुणता, कस्यचिज्जनस्य नेतृत्वशक्तिः, कस्यचिज्जनस्य च व्यवसायचातुर्यं स्यात्, किन्तु सर्वेऽपि जनाः सर्वशक्तिसम्पन्नाः स्युरेवेति कदाऽपि न संभवति । जनेषु या या शक्तिर्विद्यमानाऽस्ति तस्या यदि यथार्थोपयोगः स्यात्तर्हि सा शक्तिबहुजनहिताय भवेत् । हन्त ! अस्माकं दुर्भाग्यं यच्चित्ते प्रवर्तमानेन पूर्वग्रहेण जनानां सद्गुणानां तत्तत्शक्तीनां चोपेक्षां कृत्वा केवलं निषेधात्मकदृष्टिमेव केन्द्रीकृत्य पश्यामो वयम्। कदाचित् कश्चिज्जनो विशेषशक्तिसम्पन्नोऽस्ति, किन्तु तस्य केनाऽपि कारणेन कस्यचिदन्यव्यक्तिविशेषस्याऽवलम्बनमावश्यकमस्ति । यदीदानीमालम्बनदातैव पूर्वग्रहवशेनाऽन्यजनस्य समक्षं तज्जनस्य निन्दामवहेलनां च कुर्यात्तर्हि किं भवेत् ? एष कीदृशोऽस्ति, इति त्वन्यजनो न जानाति । तथाऽप्यस्याऽऽलम्बनदातुः समाजे प्रभुत्वमस्ति, ततस्तत्कथनानुसारेणाऽन्यजनस्य चित्ते तस्य जनस्य कृते कुविकल्पा: संशयाश्चोत्पद्यन्ते एव । पश्चात् सर्वेष्वपि कार्येषु तं जनं तदृष्ट्यैव द्रक्ष्यति । एवमेकस्य जनस्य पूर्वग्रहेण साक्षात् परम्परया वा बहूनां जनानामहितं भवति, तदेतेन ज्ञायते । एवं च सर्वत उपेक्षावशेन विशेषशक्तिसम्पन्नस्याऽपि जीवस्य शक्तिनिरर्थका कुण्ठिता च भवति । किञ्च - तस्य चित्ते पूर्वग्रहयुक्तस्य जनस्य कृतेऽरुचिर्दुर्भावश्चाऽपि प्रकटितो भवति - एष एव मे मार्गेऽव ४२ Page #50 -------------------------------------------------------------------------- ________________ रोधरूपोऽस्ति, अन्यजनानां समक्षं निन्दादिकं कृत्वा मेऽपयशः प्रसारयति चेति । एवमाजीवनं द्वयोर्मनसि द्वेषग्रन्थिरुत्पत्स्यते, तथा तयोः शक्तिः परस्परं सङ्घर्षे एव नक्ष्यति । कदाचिच्च - सर्वत उपेक्षितः स जनो "मयि किमपि कार्यं कर्तुं शक्ति स्ति, अहं बुद्धिविहीनो दुर्बलश्चाऽस्मि" इति लघुताग्रन्थिनाऽपि बद्धो भवति । पश्चाद् हताशस्य जनस्य चित्ते पुनः कार्योत्साहप्रेरणं त्वतीव दुष्करं भवति । बन्धो ! व्यक्तौ शुभाऽशुभा चेति द्विविधा शक्तिविद्यते । “एतादृशं कार्यं कुर्यां, धनमुपार्जयेयम्, उच्चशिक्षणं गृहीत्वा महत् पदं प्राप्नुयां च, येन कुटुम्बे समाजे च मम प्रसिद्धिः स्यात्, मम च प्रभुत्वं प्रसरेत्, तथाऽन्येऽपि सर्वे जना मां प्रशंसेयुः" इति सर्वेऽपि जना इच्छन्त्येव, ततस्तदर्थं ते स्वशक्तिमुपयुञ्जन्ति चाऽपि । निमित्तमधिकृत्य जीवः कार्यं करोति, ततो यदि योग्यो मार्गदर्शकस्तमुपलभ्येत तर्हि तज्जनस्य शक्तिः समाजोपयोगीनि बहूनि कार्याणि कुर्यात् । किन्तु यदि योग्यसम्पर्को न स्यात्, अथवा सर्वैर्जनैः पुनः पुनः स उपेक्ष्यते तर्हि तस्य सर्वाऽपि शक्तिरहितमार्गे प्रवहेत् सुषुप्ता वा तिष्ठेत् । भो ! वाल्मीकेभूतकालः कीदृश आसीत्, तत्तु सर्वेऽपि जानन्त्येव । स्वजीवने तेन किं किं न कृतमकार्यम् ? अन्येषां पीडने लुण्टने चैव स्वशक्तेरुपयोगः कृतः, किन्तु यदा तेन योग्य: पथदर्शकः सम्प्राप्तस्तदा तस्य जीवनं परिवर्तितं जातम् । पश्चात् स्वशक्त्याऽनेकेषां कृते कल्याणमार्गः प्रवर्तितस्तेन । एवं यद्येकः क्रूरो लुण्टाकोऽपि महर्षिरभवत् तहि दुष्टः किं सज्जनो न भवेत् ? अवश्यं शक्यमस्ति । बन्धो ! पूर्वग्रहस्य ग्रन्थेर्मोचनमतीव दुष्करमस्ति । स्वविचाराणामुपरि यस्याऽङ्कुशोऽस्ति, हिताहितस्य विवेकोऽस्ति यस्य चित्ते, तथाऽन्येषां दुर्गुणानामुपेक्षां विधाय गुणग्राही भवति यः, स एवाऽस्मात् पूर्वग्रहाद् मुक्तो भवितुं शक्तोऽस्ति । अत्र महोपाध्यायश्रीयशोविजयवाचकस्य पतिः स्मृतिपथमायाति । परकीयजनस्य गुणलवं निरीक्ष्य यः प्रमोदते तथाऽऽत्मनो दोषलवमपि दृष्ट्वा य उद्विजते स एव सज्जनो धर्मी च । यदि वयं पूर्वग्रहं विहाय केवलमेतां पङ्क्तिं चिन्तयेम तर्हि क्षणेनैव बहूनि सत्कार्याणि भवेयुः, एवं कुटुम्बे समाजे च परस्परं सौहार्द प्रेम शान्तिश्चाऽपि प्रवर्धेरन् । एष एव गुणानुरागः । पूर्वग्रहयुक्तो जनो न कदाऽपि गुणानुरागी भवति । अन्ते, पूर्वग्रहेणोद्भवतोऽलाभान् विज्ञाय स्वस्थतया विवेकमग्रेकृत्य त्वया जीवने वर्तनीयम्, एषैव शुभकामना । १. थोडलो पण गुण परतणो, सांभली हर्ष मन आण रे । दोषलव पण निज देखतां, निर्गुण निज आतम जाण रे ।। Page #51 -------------------------------------------------------------------------- ________________ काव्यानुवादः भावना ज्यां सुधी हवानी लहेरखीओनो स्पर्श मारा जुल्फोमां संपूर्णपणे अनुभवी शकुं छं अने सूर्यने पांदडाओ पर प्रखरताथी चमकतो जोई शकुं छं त्यां सुधी हुं वधु कांई नहीं मांगुं. विधाता मने बेखबरीनी आवी क्षणोमांथी पसार थती रोमांचक जिंदगीथी बहेतर बीजं शुं आपी शकत ? ४४ (मूलम् पोर्तुगिझकविः फरनान्डो पेसोआ गूर्जरानुवाद: भारती राणे) Page #52 -------------------------------------------------------------------------- ________________ काव्यानुवादः हृदयभाव: मुनिकल्याणकीर्तिविजयः यावदहं मन्दमन्दं प्रसरन्तीनां समीरलहरीणां सुखस्पर्श मम कुन्तलेषु सम्पूर्णतया समनुभवामि यावच्चाऽहं तणिकिरणानां स्वर्णवर्णया प्रभया विलसमानानि तरुप्ररूढपर्णानि विलोकयामि तावदहम् अधिकं किञ्चिन्नैव याचिष्ये ॥ यतः विधाताऽपि अपरिचिततायामार्दीभूतानामीदृशानां क्षणानाम् अन्तस्तले उल्लसतो जीवनादप्यधिकं किमदास्यत् ? Page #53 -------------------------------------------------------------------------- ________________ काव्यानुवादः निर्दोषने निर्मळ आंख तारी गूर्जरमूलम् - हरिश्चन्द्र भट्टः निर्दोषने निर्मळ आंख तारी हती हजी यौवनथी अजाण, कीधो हजी सासरवास काले, शृंगार ते पूर्ण चितामही कर्यो ! कूणी हजी देहलता न पांगरी, कौमार आर्छ उघड्युं न ऊघड्यु, प्हेरी रहे जीवनचूंदडी जरी, सरी पडी त्यां तुज अंगथी ओ ! संसारना सागरने किनारे ऊभा रही अंजलि एक लीधी, खारं मीठं समजी शके त्यां सरी पड्यो पाय समुद्रनी महीं ! छो काळ आये, शिशिरो य आवे, ने पुष्प कूणां दवमा प्रजाळे; सुकोमळी देहकळी अरे अरे वसंतनी फूंकमही खरी पडी ! (आपणी कवितासमृद्धि (उत्तरार्ध), सं. चन्द्रकान्त टोपीवाला, गुजराती साहित्य परिषद, प्रथम आवृत्ति, २००४, पृ. ११५तः उद्धृतम्) ४६ Page #54 -------------------------------------------------------------------------- ________________ काव्यानुवादः अदृष्टयागं विमलं तवेक्षणम् समश्लोकानुवादः प्रा. डॉ.किशोरचन्द्रपाठकः (उपजातिवृत्तम्) अदृष्टरागं विमलं तवेक्षणं स्पृष्टं न वा तन्नवयौवनश्रिया । वासः कृतः स्वामिगृहेऽद्य हन्त भोः कृतं चिताभस्मविभूषणं त्वया ॥१॥ नव्या विकाशं न वपुलता ययौ स्फुटं वपौ ते न नवं च यौवनम् । रुढं त्वया जीवनमंशुकं नवं प्रभ्रष्टमेतद् वपुषस्तवोज्ज्वलात् ॥२॥ स्थित्वा तटं विश्वमहोदधेस्त्वया एको गृहीतः सदयं जलाञ्जलिः । ज्ञातं नवा स्वादु नवा कटु त्वया पदच्युतिस्ते त्वभवन्महोदधौ ॥३॥ आयात् स कालः शिशिरो यथोचितं दहेद् दवाग्निर्मूदुपल्लवश्रियम् । ईषन्मधुश्वाससमीरणेन हा समुद्धृतं कोमलपुष्पकुड्मलम् ॥४॥ पद्मपाणि ७ आनन्दनगर अमरेली ३६५६०१ Page #55 -------------------------------------------------------------------------- ________________ अनुवादः जीवनपाथेयम् मुनिधर्मकीर्तिविजयः स्वपुत्राय किञ्चिद् जीवनपाथेयं देयमित्युद्दिश्य केनचिद् पित्रा कानिचिद् हितवाक्यानि लिखितानि सन्ति । तान्यत्र लिख्यन्ते - - उत्तमानि सुन्दराणि च पुस्तकानि सदा क्रेतव्यानि । तानि कदाचिदपि न पठ्यन्ते तद्यपि चिन्ता न कार्या । - प्रतिदिनं चमत्कारा भवन्ति । ततः सर्वदाऽऽशा न त्याज्या । सर्वेष्वपि कार्येषु श्रेष्ठताया आग्रह आसेवनीयः । देहस्य स्वास्थ्यं सदा स्वानुकूलमेव स्यादिति न मननीयम् । Page #56 -------------------------------------------------------------------------- ________________ - दृष्टिसमक्षं निरन्तरं किमप्यतीव सुन्दरं वस्तु स्थापनीयम् । भवतु नाम, एकस्मिन् पात्रे पुष्पमपि स्यात् । - त्वया यत् कार्यं कर्तुं शक्यं तत् करणीयमेव, किन्तु किमपि नैव करणीयमिति न चिन्तनीयम् । - न सम्पूर्णतार्थम्, अपि तु श्रेष्ठतार्थमेव प्रयतनीयम् । - यत्तुच्छमस्ति तत् प्रथमं परीक्षणीयं, ततस्तदवगणनीयम् । जये पराजये च सर्वदा प्रामाणिकताऽऽचरणीया, तथा प्रशंसा जनसमक्षं, निन्दा चैकान्ते करणीया। विश्वस्मिन् विश्वे यत् सुन्दरं तदन्वेषणीयम् । तव कुटुम्बिजनांस्त्वं कियत् प्रीणयसि तत् प्रतिदिनं तव शब्दैः स्पर्शेर्विचारैश्च दर्शनीयम् । - कदा वदनीयं कदा च न वदनीयं तदपि सर्वदा चिन्तनीयम् । - स्वकीयजीवननिर्वाहार्थं प्रयतमानैः सर्वैरपि जीवैः सह सादरं ससन्मानं च वर्तनीयं, भवतु नाम तेषां कार्यमतीव लघ्वपि स्यात् । त्वया तादृशं जीवितव्यं यत्, त्वदीया बालकाः प्रामाणिकताविषये निष्ठाविषये च त्वां सदा संस्मरेयुः । दृढमस्तिष्केण कोमलहृदयेन च भाव्यं त्वया । कः सत्यवादी - इति चिन्तने समयव्ययो न करणीयः, अपि तु किं सत्यमिति निश्चयनीयम् । या ग्रन्थिः शिथिलीकर्तुं शक्या सा नोच्छेदनीया । - महत्स्वपि सङ्घर्षेषु विजयप्राप्त्यर्थं लघुष्वपि सङ्घर्षेषु हसित्वा वर्तनीयम् । एकस्य दिवसस्य यावन्तो घण्टास्त्वयोपलब्धास्तावन्त एव घण्टाः 'हेलनकेलर-मधरटेरेसाआइन्स्टाइन-महोदयादिभिरपि प्राप्ताः' ततो 'नास्ति समय: - इति न कदाऽपि वक्तव्यम् । सत्तायाः सम्पत्तेः प्रतिष्ठायाश्चोपरि नास्ति सुखस्याऽऽधारः किन्तु वयं येभ्यो जनेभ्यो रोचामहे, याँश्च सन्मानयामस्तादृशैर्जनैः सह यो मधुरसम्बन्धोऽस्ति तस्योपर्यस्ति, इति न कदाऽपि विस्मर्तव्यम् । - त्वया सन्मानादिके प्राप्ते सत्यन्येऽपि सहभागिनः करणीयाः । - नाऽहं जानामि, मयाऽपराधः कृतः, मदीयस्खलेनाऽहं खेदमनुभवामि - इत्यादिकथने न भीतिर्लज्जा चाऽऽसेवनीया । निष्फलतायाः सत्कारार्थमपि सदा सन्नद्धो भवः । महेन्द्रमेघाणी-संगृहीत'अर्धी सदीनी वाचनयात्रा' इति पुस्तकात् संकलितम् । ४२ Page #57 -------------------------------------------------------------------------- ________________ ग्रन्थसमीक्षा 'श्रीहेमचन्दाचार्यः' (जीवनचरितम्) समीक्षकः - डा. रूपनारायणपाण्डेयः आलेखनम् - मुनिकल्याणकीर्तिविजयः प्रकाशकः - श्रीभद्रङ्करोदय शिक्षण ट्रस्ट, गोधरा । प्रथममुद्रणम् - वि.सं. २०६७, ई. २०११ । पृ. सं. ८+१०८ । मूल्यम् - १००/प्राप्तिस्थानम् - आ. श्रीविजयनेमिसूरीश्वरजी जैन स्वाध्याय मन्दिर । १२, भगतबाग, जैननगर, पालडी, शारदामन्दिर रोड, अहमदाबाद-३८०००७ । विद्यन्ते विबुधवाण्यां वेदेषु पुराणेषु रामायणेषु काव्येषु च भगवतोऽवताराणां महापुरुषाणां महर्षीणां महामुनीनां कवीनां च महनीयतरं चरितम् । यशोगीतानि च । किन्तु तेषां संक्षिप्तं समीचीनं जीवनचरितं प्रभूतं न विराजते । 'नन्दनवनकल्पतरु'-प्रकाशनान्तर्गतं श्रीमता मुनिकल्याणकीर्तिविजयमहाभागेन 'श्रीहेमचन्द्राचार्यः' इति ग्रन्थं प्राकाश्यं नीत्वा सुरभारतीसाहित्यस्य तत्क्षेत्रं समृद्धतरं सम्पादितम् । ग्रन्थेऽस्मिन् - 'कलिकालसर्वज्ञश्रीहेमचन्द्राचार्याणां जीवनचरितम्' 'श्रीहेमचन्द्राचार्याणां शिष्यवृन्दम्', 'श्रीहेमचन्द्राचार्याणां प्रमुखसाहित्यसृष्टिः', 'श्रीहेमचन्द्राचार्याणां काव्यसृष्टिः', 'श्रीहेमचन्द्राचार्याणां प्रशस्तिः' चेति पञ्चाध्यायाः सन्ति । अन्ते – 'परिशिष्टम्' अस्ति, यत्र 'श्रीमहादेवद्वात्रिंशिका', 'पाण्डवानां प्रव्रज्या', 'चारिसञ्जीवनीदृष्टान्तम्', 'प्रसङ्गाः' च विलसन्ति ।। कस्मिन्नपि जीवनचरिते चरितनायकस्य जीवनस्य प्रमुखघटनाः, तस्य कार्याणि, गुणा दोषाश्च, समाजस्य राष्ट्रस्य समग्रभूतसमुदायस्य च कृते तस्याऽनुप्रदानञ्चेत्यादीनि मुख्यानि तत्त्वानि भवन्ति । ग्रन्थेऽस्मिन् श्रीमतो हेमचन्द्राचार्यस्य (११४५-१२२८ वि.सं.) जीवितस्य प्रमुखा घटनाः कुमारपालप्रतिबोधप्रबन्धचिन्तामणि-प्रबन्धकोशादिग्रन्थान् समाश्रित्य वर्णिताः सन्ति । ग्रन्थकारः स्वयं वदति - 'कलिकालसर्वज्ञानां श्रीहेमचन्द्राचार्याणां सम्पूर्ण जीवनचरितं कुत्राऽपि वर्णितं न प्राप्यते । विविधग्रन्थेषु केवलं याः काश्चन घटनाः प्रसङ्गाश्च प्राप्यन्ते तानेव गुम्फित्वाऽत्र किञ्चिद्वर्णितमस्ति' (श्रीहेम०, पृ. ६२) । आचार्यवर्यस्य पिता श्रेष्ठी चच्चोऽभूत, माता च चाहिणी । केषुचिद् ग्रन्थेषु तस्य मातुर्नाम 'पाहिणी' इत्यप्यभिधीयते, किन्तु ग्रन्थेऽस्मिन् तस्मिन् विषये किमपि नोक्तम् । जन्मतः 'चङ्गदेवः' इति नाम्ना श्रुतस्य तस्य ११५४तमेऽब्दे मुनिसोमचन्द्र इति नाम दीक्षाकाले गुरुणा श्रीदेवचन्द्रसूरिणा कृतम् । वाग्देवतां भगवतीं सरस्वती समाराध्य सिद्धसारस्वतस्य तस्य त्वेकया विलक्षणया घटनया ११६६तमेऽब्दे, आचार्यहेमचन्द्रसूरिरिति नाम गुरुवर्येण विहितम् (पृ.१९-२०) । तेन निखिलं जीवितं प्रायशः सिद्धराजजयसिंहस्य कुमारपालस्य च राजसभायां मार्गदर्शकरूपेण यापितम् । तस्य प्रेरणया सौराष्ट्र (गूर्जरप्रदेशे) पशुवधो निषिद्धः । ग्रन्थकारो मन्यते गूर्जरजनेषु या सौम्यता शिष्टता सहिष्णुता वा विद्यते, तत्र प्रधानहेतुः ५० Page #58 -------------------------------------------------------------------------- ________________ श्रीहेमचन्द्राचार्यस्य कार्याणां कृतीनां गुणानां शिष्याणाञ्च विशिष्टः प्रभावोऽस्ति । समाजस्य राष्ट्रस्य समेषां च प्राणिनां कृते तस्याऽनेकानि कार्याणि चिरं संस्मरणीयानि सन्ति । व्याकरणे कोशे भाषाशास्त्रे छन्दःशास्त्रे आयुर्वेदे काव्यशास्त्रे काव्येऽध्यात्मविद्यायां योगे च प्रगल्भप्रतिभोपेतस्य तस्य महनीयानि ग्रन्थरत्नानि विलसन्ति । तस्य समन्वयकारित्वादिगुणानां विवरणं ग्रन्थेऽस्मिन् पदे-पदे विराजते। तद्यथा - "इतश्चैकदा कुमारपालेन गुरवो विज्ञप्ताः - 'प्रभो ! तादृशं किञ्चित् सत्कार्यं मे आदिशन्तु यत्करणेन मे पातकानि नश्येयुरात्मा पवित्रो भवेत्, मम नाम चाऽमरं भवेत् ।' ..... तावता गुरवो मधुरवचोभिरुक्तवन्तः - 'राजन् ! भवतः प्रपितामहस्य भीमदेवस्य शासनकाले प्रभासतीर्थे स्थितं सोमनाथमहादेवमन्दिरं म्लेच्छैविनाशितमस्ति । समग्र देशवासिनो हि तथाऽपि सोमनाथमहादेवस्य दर्शन-पूजाद्यर्थं पूर्णश्रद्धया निरन्तरं तत्र समागच्छन्ति सदाऽपि । यदि भवान् पुण्यमुपाजितुममरत्वं प्राप्तुं पातकानि च नाशयितुमिच्छति तदा सोमनाथमन्दिरस्य जीर्णोद्धारं कृत्वा.....सोमनाथमहादेवं प्रतिष्ठितं करोतु ।' (श्रीहेम० पृ. ५०) । १२११तमे विक्रमाब्दे शिवपुराणवर्णितविधिना भगवतो महादेवस्य प्रतिष्ठा कृता । आचार्यचरणेन नितरामुदारभावेन 'श्रीमहादेव-द्वात्रिंशिका' इति स्तोत्रमपि तदानीं प्रणीतम् । अनया घटनया ज्ञायते यत्तस्य मनसि कस्यचिदपि धर्मस्य सम्प्रदायस्य वा समाराध्ये देवे दुर्भावो नाभूत् । (द्र० - श्रीहेम०, पृ. ५०-५२) मानवे द्वेषभावः सहजो भवति । कदाचित्तस्य निवारणं प्रयत्नेनाऽपि न सम्भवति । अहिंसकस्याऽऽचार्यप्रवरस्य सततं सामीप्यमुपगम्य अपि सिद्धराजस्य जयसिंहस्य कुमारपाले हिंसाभावो न व्यपगतः । (श्रीहेम०, पृ. ३९) भाग्येन, आचार्यवर्यस्य दयावृत्त्याऽपि कुमारपालस्य संरक्षणं जातम् । सिद्धराजजयसिंहस्य कुमारपालस्य च कृत्यानां वर्णनेन, आचार्यशिष्याणां ग्रन्थानां च संक्षिप्तेन परिचयेन, तस्य च कृतीनां कतिपयैरुद्धरणैः, आचार्यचरणानां च विविधाभिः प्रशस्तिभिः प्रसङ्गैश्च ग्रन्थोऽयं सर्वैः सुरभारतीसमुपासकैः संग्राह्यः पठनीयश्च । ग्रन्थेऽस्मिन् यदि महनीयतरस्याऽऽचार्यवर्यस्य विविधानां ग्रन्थानाम्, ग्रन्थस्याऽस्य च लेखने प्रयुक्तानां ग्रन्थानां प्रकाशनस्थलानां प्राप्तिस्थलानां वा निर्देशः, तथैवाऽत्र समुद्धृतानामंशानां च संदर्भ-निर्देशो विधीयेत, तर्हि शोधकर्मणि संलग्नानां विद्वज्जनानां महोपकारः स्यात्, अस्य ग्रन्थस्य च विशिष्टो गरिमा भवेत् ।* ___ मन्येऽग्रे संस्कृतानुरागिभिस्तु श्रीरामकृष्णादिमहापुरुषान् भगवतोऽवतारान् वा श्रीवाल्मीकि-व्यासकालिदास-भास-भारवि-माघ-श्रीहर्षादिकवीन्, श्रीशङ्कर-रामानुजादीन् आचार्यचरणांश्च समवलम्ब्य एतादृशा जीवनचरितग्रन्थाः प्रणीताः स्युः, यैराधुनिका जना भारतीयसंस्कृतौ निष्ठावन्तः स्युः । जयतु संस्कृतं संस्कृतिश्च । 'रागद्वेषौ महामल्लौ, दुर्जयौ येन निर्जितौ । महादेवं तु तं मन्ये, शेषा वै नामधारकाः' ॥ (श्रीमहादेवद्वात्रिंशिका ५, श्रीहेम०, पृ. ९९) *हेमचन्द्राचार्याणां विविधा ग्रन्थास्तथा तच्चरितालेखने उपयुक्तानां ग्रन्थानां केचिद् ग्रन्था जालपुटे ( इत्यत्र) प्राप्यन्ते । हेमचन्द्राचार्यविरचिता ग्रन्थाश्च साक्षात् - सरस्वती पुस्तक भण्डार, ११२, हाथीखाना, रतनपोल, अमदावाद-३८०००१ - इत्यत्रोपलभ्यन्ते । (-सं.) Page #59 -------------------------------------------------------------------------- ________________ ग्रन्थसमीक्षा संस्कृतमधुगीतगुञ्जनम् समीक्षकः - डा. रूपनारायणपाण्डेयः रचयिता .. - डा. रामेश्वरप्रसादगुप्तः प्रकाशकः - डा. राजेशगुप्तः, श्रीमतीलक्ष्मीदेवीगुप्ता भवन, उद्योगविभाग के पास, सिविललाइन्स, दतिया (म.प्र.), ४७५६६१ प्रथममुद्रणम् - वि.सं. २०६४ । पृ. सं. १३०+६ । मूल्यम् - ५०/ वैदुष्योपेतं वाङ्मयं देववाण्यां प्रभूततरं विराजते, किन्तु बालकानां कृते सरलं समुदारं सुबोधञ्च साहित्यं न सुलभते । साम्प्रतमनेकलेखकैः पत्रिकासम्पादकैश्च क्षेत्रेऽस्मिन् प्रयत्नो विहितो विधीयते च । विदुषा डा. रामेश्वरप्रसादगुप्तेनाऽपि 'संस्कृतमधुगीतगुञ्जनं' प्रणीय तादृश एकः प्रयत्नः कृतः । ५२ Page #60 -------------------------------------------------------------------------- ________________ ग्रन्थेऽस्मिन्-वीणावादिनी मातृभूमिं राष्ट्र संस्कृतभाषां शिक्षां जीवनमूल्यं सदाचारं कर्तव्यं लोकहितं मानवतां दर्पदारणं श्रमं संस्कारं सुमतिं धैर्यं श्रीरामं हरिस्मरणं कुमतिवारणं सौहार्द सत्सङ्गं जननी नारीसम्मानं कुलनियोजनं लघुपरिवारं मानवजाति नराणामभेदं मायां पर्यावरणं वृक्षरक्षणं कृषकं वसन्तं मेघं विद्यामन्दिरं विद्यां भगवदर्शनं स्वतन्त्रतां सत्यं शिष्टवाणीं मौनं गुरुं नेतारं चातकं वायसं मनःशान्ति दुर्बुद्धिनिवारणं परमेश्वरं याचनां शिवं समयं कालं कालमहिमानञ्चाऽऽश्रित्य त्रिंशदधिकशतं गीतानि सन्ति । ग्रन्थात् प्राक् कृतिकारस्य 'कथ्यम्', प्रो. डा. राजेन्द्रमिथस्य 'नान्दीवाक्' च विलसतः । प्रतिपृष्ठं ग्रन्थकृतो नामाऽपि शोभते । सुकुमारमतीनां शिशूनां बालानां च मनसि निहिताः संस्काराः तु समग्रं जीवितं प्रभावयन्ति । ग्रन्थेऽस्मिन् सरलभाषया लिखितानि यानि गीतानि सन्ति, तानि नैतिकगुणानां संवर्धने, राष्ट्रभक्तेः पोषणे, सद्भावानां समुद्भावने, संस्कृतभाषायाः संस्कृतेश्च संरक्षणे च सहकारं कर्तुं शक्नुवन्ति । राष्ट्रस्य रक्षणं संस्कृतभाषाया अध्ययनं विना न शक्यते । गीतकारस्य मतमिदं का संस्कृतज्ञो न स्वीकुर्यात् ? 'पठतु संस्कृतं राष्ट्र धारय । सुसंस्कृतं च हि देशं कारय ॥ अस्माकं संस्कृतिः संस्कृते, नास्ति समृद्धिः संस्कृताद् ऋते । सन्ति पुराणान्यस्यां वेदाः, विद्या ननु विश्वस्याऽशेषाः । उपयोगं त्वस्या निर्धारय । पठतु संस्कृतं राष्ट्रं धारय ।" (संस्कृत०, पृ. २०) सवृत्तस्य क्षीणता सर्वत्र संदृश्यते । दुराचारिणं निन्दता गीतकृता सत्यमुच्यते - 'सदाचारहीनाः ये जनाः । ते तु जारजाः, ते तु जारजाः ।। ये ननु चोत्कोचं गृह्णन्ति, ये च हि प्रदूषणं जनयन्ति । येषां हृदि न च राष्ट्रभावना चित्ते न च कर्तव्यकामना । मातृभूमिभक्ताः न ये जनाः । ते तु जारजाः, ते तु जारजाः ॥' (संस्कृत०, पृ.३०) भारतीयसंस्कृतौ भगवतो रामचन्द्रस्य विशदं विशुद्धं च चरितं विश्वविश्रुतं विद्यते । कुत्राऽपि चरित्रस्य संरक्षणाय संवर्धनाय च श्रीरामस्य नवावतारोऽपेक्ष्यते । एकस्मिन् गीते कविः श्रीरामस्याऽऽगमनं ५३ Page #61 -------------------------------------------------------------------------- ________________ कामयते 'आगच्छतु ह्यधुना श्रीरामः । लोकः भवतु नूनमभिरामः || अत्र कोऽपि परहितं न पश्यति, सर्वत्रैव च स्वार्थो नृत्यति ॥ अज्ञः लोलुपतामवगच्छति, मनोरमा मानवता नश्यति । नास्ति दृश्यते शान्तिविरामः । आगच्छतु ह्यधुना श्रीराम: ॥ ' ( संस्कृत०, पृ. ६५) अपि न केवलं मानवताया रक्षणाय, दानवतायाश्च संहरणाय श्रीरामस्य चरितमादर्शभूतं विद्यते, तु परिवारनियोजनायाऽपि स सततं संस्मरणीयोऽस्ति । 'अभिरामं श्रीरामं पश्यतु, तस्याऽऽदर्शं मनसि च रक्षतु । मितपरिवारयुतः सः रामः, सुस्मरणेन भवति विश्रामः ॥ तस्य सुकर्म च हृदये धार्यम् । कुलनियोजनं सम्यक् कार्यम् ॥' (संस्कृतः, पृ. ८२) परिवेशपरिशुद्धिः समग्रविश्वस्य कृते नितरामपेक्ष्यते । तत्राऽपि गीतकारस्योपदेशः स्मर्तव्योऽस्ति । सोऽन्तः परिवेशशुद्धिमपि वाञ्छति * 'वप वप सम्यक् वृक्षसमूहम्, ' त्यज त्यज दोषं दुविधाव्यूहम् । जलमध्ये न तु मलं विसर्जय, जलं जीवनं सम्यग् रक्षय ॥' (संस्कृत०, पृ. ९२) गेयता गीतानां मुख्यं तत्त्वं मन्यन्ते विद्वांसः । यद्यपि कृतिरियं प्रसादगुणोपेता सद्भावसम्पूरिता च विद्यते, तथापि सर्वत्र गीतेषु गेयताया माधुर्यं न प्रसादयति मानसम् । यत्र तत्र मुद्रणस्खलितानि सन्ति ( द्र० - पृ० १, ५, ७, ९२ - इत्यादि) तानि भाविनि संस्करणे संशोधनीयानि सन्ति । न केवलं बालानां कृते, अपि समेषां कृते कृतिरियं पठनीया संग्राह्या च । जयतु संस्कृतं संस्कृतिश्च । 'पठनीया ननु संस्कृतभाषा ।' (अत्रैव पृ. १८) ★ अत्र पाठश्चिन्त्यः, मुद्रणत्रुटिर्वा । ५४ Page #62 -------------------------------------------------------------------------- ________________ ग्रन्थपरिचयः १. जिनेन्द्रस्तोत्रम् रचयिता - मुनिश्रीराजसुन्दरविजयः प्रकाशकः - श्रुतज्ञान संस्कार पीठ, अहमदाबाद एकस्वराण्येकव्यञ्जनानि च २७ पद्यानि प्रयोज्य विरचितमेतत् स्तोत्रं चतुर्विंशतेस्तीर्थकराणां स्तुतिरूपमस्ति । पद्यानां भावमवगमयितुं मुनिवरेण मञ्जुलाभिधा वृत्ति रुचिराभिधश्च हिन्दी-गूर्जरभाषानुवादोऽपि विरचितोऽस्ति । ग्रन्थान्ते च चतुर्दशपद्यमयमेकस्वरमेकव्यञ्जनं चैवाऽर्हत्स्तोत्रमपि सवृत्ति सानुवादं च मुनिवरविरचितमेव विराजते । एतस्मिन् कालेऽपि एतादृशानां कूटकाव्यानां रचयितारो विद्यन्तेइति तु महान् सन्तोषविषयः । रचयिता मुनिवरो हि स्वीयां सर्जनशक्तिं संस्कृतवाङ्मयस्याऽन्यविधास्वपि प्रयुज्यात् - इत्यस्ति साहित्यसेविनां मनोभावना । मुद्रणे काश्चन त्रुटयो वर्तन्तेऽनवधानवशात् । ताश्च सप्रयत्नं निवारणीयाः । २. सहस्त्रभानुः स भुवनभानुः रचयिता - मुनिश्रीतीर्थबोधिविजयः (प्रकाशकादिनामानि न निर्दिष्टानि) ग्रन्थेऽस्मिन् मुनिवरेण वर्धमानतपोनिधिश्रीविजयभुवनभानुसूरिवराणां जीवनप्रसङ्गानां शतकं निबद्धमस्ति । मुनिवरस्य भाषालालित्यं वाक्यरचनाशैली च चित्ताकर्षके स्तः । प्रशस्तं पुस्तकमुद्रणं शोभनमुखपुटेन चकास्तितराम् । केवलं केचन भाषादोषा व्याकरणदोषाश्च निवारणीयाः सयत्तं चोचिताः शब्दाः प्रयोक्तव्याः । अग्रेऽप्युत्तमसाहित्यविरचनेन संस्कृतवाङ्मयमलङ्करोतु मुनिवर इत्याशास्महे । Page #63 -------------------------------------------------------------------------- ________________ मर्म गभीरम् मुनिकल्याणकीर्तिविजयः (१) अविनाशिनः सन्तः तदात्वे तुर्कस्तान-इरानदेशयोर्मध्ये घोरं युद्धं प्रचलति स्म । तुर्कसैनिका यद्यपि बलशालिन आसन्, तथाऽपि सर्वस्थाम्ना विक्रमं प्रदर्शयतां इरानीयानां पुरतस्तेषां पराजयो निश्चितोऽभवत् । एवंस्थिते एकदा इरानदेशस्य महान् सूफीसत्पुरुषः फरीदुद्दीन-अत्तारसाहेबः कुतश्चित् स्थानादागच्छन् कथञ्चित् तुर्कसैनिकानां दृष्टिपथमागतः । सद्य एव तैः स बन्दीकृतो 'गुप्तचरोऽयमस्माकं गतिविधीनां निरीक्षणं कुर्वाण आसी'दित्यारोपमधिक्षिप्य च मृत्युदण्डस्तस्य घोषितः । वृत्तमेतज्ज्ञात्वा इरानीया जना अत्यन्तं व्यथिता अभवन् । सर्वेऽपि च युद्धभूमि प्रति धाविताः । बहुभिरग्रगण्यैर्जनैस्तुर्कसैनिकेभ्यस्तस्य सत्पुरुषस्य मोचनार्थं विज्ञप्तिः कृता किन्तु ते निष्ठुरतया तां निराकृतवन्तः । तदा कञ्चनैको धनिकोऽग्रे आगत्य कथितवान् - 'भोः सैनिकाः ! अस्य महापुरुषस्य पुण्यदेहस्य यावद् गुरुत्वं तावन्मानानि रत्न-मणि-सुवर्णादीनि दातुमहं सिद्धोऽस्मि, कृपयैनं मुञ्चतु' । तदाऽपि ते सैनिकाः सर्वथाऽविचलाः । एवं च बहुभिर्जनैर्बहुधा विज्ञप्ता अपि तुर्कस्तानीयाः सैनिका तं सत्पुरुषं नैव मुमुञ्चुः । प्रान्ते, इरानदेशस्य राजा(शाह) तत्राऽऽगतः । स तुर्कस्तानाधिपं सुल्तानं समधिगम्य नम्रतया विज्ञप्तवान् - 'भवान् इरानदेशमपि गृह्णातु, परं सत्पुरुषं कृपया मुञ्चतु' । एतेन सर्वथा विस्मयापन्नः सुल्तान: पप्रच्छ - 'घोरयुद्धेन भीषणरक्तपातेन चाऽपि भवतो यं देशं वयं जेतुं नाऽशक्नुम तं देशं केवलमस्य सत्पुरुषस्यैकस्यैव कृते भवान् कथं समर्पयति ?' राजोवाच - 'साम्राज्यं हि क्षणविनाशि, सन्तस्तु अविनाशिनः ! क्षणिकस्य राज्यस्य कृते यदि सन्तं न रक्षेम तदा इरानदेशः सर्वकालं कलङ्कितो भविष्यति !!' (अखण्ड-आनन्दात्) Page #64 -------------------------------------------------------------------------- ________________ (२) आयोजनं वृथा जातम् ! अत्युच्चशिक्षणं प्राप्तवान् कश्चन युवकः कदाचिद् गुरोः पार्वे समागमत् । गुरुं वन्दित्वा स कथितवान् – 'प्रभो ! मया मम जीवनं प्रोन्नतं कर्तुं किञ्चिदायोजनं कृतमस्ति । तदर्थं च भवता सह किञ्चिद् विचारणं कर्तुमागतोऽस्मि । किं भवान् ममाऽऽयोजनं शृणुयाद् वा ?' गुरुरवोचद् - 'अवश्यं श्रोष्यामि, कथयतु भवान्' । सोऽचकथत् - 'इदं मे आयोजनम् - अधुनाऽहं विदेशीयसंस्थायामत्युच्चे पदे कार्यं करोमि । कतिचिद्दिनानन्तरं सुन्दर्या युवत्या सह मे परिणयो भविता । ततोऽहं विविधव्यवसायोद्योगादिभिः कोटिशो रूप्यकाण्यर्जयित्वा वैभवशालि जीवनं जीविष्यामि भौतिकसुखप्राप्त्यर्थं चाऽऽधुनिकानि सर्वाण्यपि साधनान्युपकरणानि चोपयोक्ष्ये । तदनन्तरमहं राजनीतौ प्रवेक्ष्यामि, मत्प्रतिभया च सर्वानपि विपक्षान् जित्वा शासको भविष्यामि । मम शासनं च सुस्थिरं लोकप्रियं च भविष्यति । ततोऽहं साहित्यजगति प्रविश्य सर्वेषां दर्शनानां सारभूतं पुस्तकमेकं लेखिष्यामि । तत्पुस्तकं सर्वत्र प्रसिद्धं सर्वसम्मतं च भविष्यति ममाऽपि च यशः सर्वत्र प्रसरिष्यति । ततः सर्वमपि तत् त्यक्त्वाऽहं संन्यस्तं ग्रहीष्याम्यध्यात्ममार्गं गृहीत्वा च भवादृशः सत्पुरुषो भविष्यामि । एषा मे योजनाऽस्ति । अत्र च भवतः किमपि सूचनं स्यात् तदा कथयतु, अहं समादरिष्ये' । गुरुणोक्तं - 'भवत आयोजनं तु सर्वथा प्रतिपूर्णमस्ति । नाऽस्त्यत्र काऽपि न्यूनता । किन्त्वेतत् तु ध्यानार्हमत्र यद् भवत्कृतस्याऽऽयोजनस्य परिसमाप्तिं यावद् यदि भवान् जीवितो न भवेत् तदाऽऽयोजनमिदं कथं पूर्णीभविष्यति ?' श्रुत्वैतत् स युवा प्रचकितो जातः । क्षणेनैव स्वस्थो भूत्वा च कथितवान् - 'तर्हि तु सर्वमप्यायोजन मे निष्फलं भविष्यति !' । ___ गुरुणा पुनः कथितं - 'अन्तेऽपि च भवान् अध्यात्ममार्गमारुह्य सत्पुरुषो भवितुमिच्छति तर्हि किमर्थं विलम्बः ? अधुनैव तं मार्गमाश्रित्य सत्पुरुषो भवतु । एतत् सर्वं कृत्वा पश्चात् तदाश्रयणं भृशं कष्टप्रदं भविता' । युवको हसित्वाऽवदत् - 'सत्यम् । सम्पूर्ण मे आयोजनं निष्फलं जातम् । नेत्रे निमील्य मया तत् कृतमासीत् । भवता मे नेत्रे उद्घाटिते' । ततः शीघ्रमेव स युवाऽध्यात्मसाधने लग्नः सत्पुरुषश्चाऽभवत् । (हिन्दीमूलं - सन्तअमिताभः) ५७ Page #65 -------------------------------------------------------------------------- ________________ (३) ज्ञानस्य प्रथम सोपानम् एको राजपुत्रः कस्यचिज्झेनगुरोः सकाशे गतो ज्ञानप्राप्त्यर्थम् । गुरुं वन्दित्वा विनयेन स तं ज्ञानदानार्थं विज्ञप्तवान् उक्तवांश्च - 'प्रभो ! मह्यं सम्प्रत्येव ज्ञानं ददातु यतो ममाऽन्यान्यपि बहूनि कार्याणि सन्ति, अतोऽहं प्रतीक्षार्थं सज्जो नाऽस्मि' । एतन्निशम्य कोपमकुर्वाणेन गुरुणा कथितं - 'भो ! यद्यप्येवं ज्ञानदानार्थं मे सज्जता नाऽस्ति तथाऽपि यदि भवतो धैर्यं न स्यात् तदा चलतु, एतदर्थमपि प्रयत्नं कुर्याम' । तदनन्तरं तेन सह विविधालापं कुर्वता गुरुणाऽज्ञायि यदयं चतुरङ्गक्रीडां सम्यक्तया जानाति । ततः स स्वीयमठाच्चतुरङ्गक्रीडकमेकं साधुमाहूय राजपुत्रेण सह चतुरङ्ग क्रीडितुमाज्ञापयत् । तत्राऽयं पणः स्थापितो यद् - यो ह्यस्यां क्रीडायां पराजितः स्यात् तस्य शिरश्छेदनीयमिति । क्रीडा प्रारब्धा । राजकुमारेण विलोकितं यत् - स्वयं तस्मात् साधोः सुन्दरतरं क्रीडति - इति । सोऽचिन्तयत् – 'अहं मठेऽत्र स्वार्थं पोषयितुं समागतः सन्नस्य निर्दोषस्य साधोप॑त्युनिमित्तं भविष्यामी'ति । ततः स दयाप्रेरितो भूत्वा धियैवाऽशोभनं क्रीडितुं प्रावर्तत । किन्तु श्रेष्ठतया क्रीडनं तस्य स्वभाव आसीत्, अतोऽशोभनं क्रीडितुं स स्वीयं समग्रमप्यवधानं क्रीडायां न्यदधात् । सहैव, स बुद्ध्याऽशोभनं क्रीडन्नस्ति - इति तं साधुं ज्ञापयितुमपि नैच्छत् । अतस्तस्य समग्रमस्तित्वं द्वयमप्येतत् प्रकर्तुं व्यापृतम् । तेन च तस्य सर्वेऽपि ज्ञानतन्तवोऽत्यन्तमातता इव, समग्रं च शरीरं प्रस्वेदग्रस्तं जातम् । __ स्तोकवेलानन्तरं गुरुणा तयोः क्रीडनं निरुद्धं राजपुत्राय च कथितं - 'भो ! एष भवतः प्रथमः पाठ आसीत् । अत्र भवान् द्वौ गुणावशिक्षयः - दया एकाग्रता च । अधुना यस्य निमित्तेन भवान् द्वयमप्येतच्छिक्षितवान् तस्य भवतः सहक्रीडकस्य कृतज्ञतां प्रदर्शयतु । (नवनीत-समर्पणतः) Page #66 -------------------------------------------------------------------------- ________________ (४) जगदिदं मनसोत्पन्नम् गुरुः कथयति स्म यज्जना जगत्यत्र यथार्थदर्शिनो न भवन्ति किन्तु तेषां मनो यदुत्पादयति तदेव पश्यन्ति । एतद् विधानमसहमानो विद्वान् कश्चन गुरुणा सह विवदितुमागतः । तदा गुरुणा द्वे काष्ठयष्टी भूमौ आङ्ग्लाक्षरं 'T' इत्येनमनुक्रियमाणे स्थापिते । ततः पृष्टः स विद्वान् - 'भोः ! किमस्त्येतत् ?' तेनोक्तम् – 'अयमस्त्याङ्ग्लाक्षरः 'T' इति' । गुरुणोक्तं - 'यथा मया चिन्तितं तथैवाऽभवत् । अस्मिन् जगति 'T' - इत्याख्यं किमपि वस्त्वेव नाऽस्ति । 'T' इति तु भवतो मनसि विद्यमानं चिह्नमात्रमेकम् । इदं दृश्यमानं तु केवलं काष्ठखण्डद्वयं यष्टिस्वरूपमस्ति' । (५) भिक्षुकाभिवादनम् एकदा गुरु: केनचित् गृहस्थशिष्येण सह पर्यटितुं निर्गत आसीत् । चारं चारं तौ चतुष्पथं प्राप्तौ। तत्र चैकस्मिन् कोणे एकोऽन्धो भिक्षुकः भिक्षां याचमान उपविष्ट आसीत् । गुरुणा शिष्याय कथितं – 'प्रयच्छाऽस्मै याचमानाय किञ्चित्' । शिष्येण स्वकोषाद् रूप्यकमुद्रा निष्कास्य तस्य भिक्षापात्रे निक्षिप्ता । ततो द्वावपि निर्गतौ । मार्गे गुरुणोक्तं - 'भोः ! त्वया तस्य भिक्षुकस्याऽभिवादनं कृतं न वा ?' तेन पृष्टं – “किमर्थं तत् ?' गुरुणोक्तं – 'भिक्षादानमपि सादरं कर्तव्यमित्येतदर्थम्' । तेन कथितं – 'किन्तु प्रभो ! सोऽन्ध आसीत्' । गुरुणा स्मित्वोक्तं – 'त्वं नैव जानासि । कदाचित् स प्रतारकोऽपि स्यात् !!' Page #67 -------------------------------------------------------------------------- ________________ (६) पद्धतिः 'भवतः पार्वे समागतस्य मम चत्वारो मासा जाताः । अद्यावधि भवता मे न काऽपि पद्धतिविधिर्वा शिक्षितौ' - एकः शिष्यो गुरुमवदत् । 'पद्धतिः !, किं कर्तुं त्वं पद्धतिं शिक्षितुमिच्छसि ?' गुरुरपृच्छत् । 'आन्तरशान्ति मुक्तिं च प्राप्तुं, प्रभो !' ____ गुरुरट्टहासेन हसितवान् कथितवांश्च – 'प्रथमं तु भवता पद्धति-नामकात् पाशात् स्वं मोचयितुं शान्ति च प्राप्तुं महान् प्रयत्नः करणीयः ॥' (७) ममत्वम् 'ममत्वं ह्यस्माकं बोधं दृष्टिं च निरुणद्धी'त्येतद् गुरोर्भूयोभूयः कथ्यमानं वचनम् । अस्योदाहरणतया गुरुः प्रस्तौति - "मयैका माता पृष्टा - 'भवत्याः पुत्री कथमस्ति ?' 'अहो ! मे प्रिया पुत्री ! साऽतीव सौभाग्यशालिन्यस्ति । तस्याः पतिरत्यन्तमुदारोऽस्ति तां च भृशं प्रीणाति । तेन तस्यै श्रेष्ठं काऱ्यानं, यथेच्छमलङ्कार-वस्त्रादीनि च प्रदत्तानि । तस्याः सेवायां सेवकानां समुदाय एवाऽस्ति । स स्वयमेव तस्याः प्रातराशं प्रगुणीकृत्य शयनखण्डे एव परिवेषयति । साऽपि च मम पुत्री मध्याह्नं यावत् शय्याया नोत्तिष्ठति । नूनमद्भुतस्तस्याः पतिर्भाग्यं चाऽपि सर्वथाऽद्भुतं तस्याः !!' 'तथा भवतः पुत्रः ?' मयोक्तम् । 'अरे ! स वराकः ! किं कथययेम् ? तेन परिणीता स्त्री तु सर्वथोद्वेजिन्यस्ति । मम प्रियपुत्रस्तस्यै काऱ्यानं, वस्त्रा-लङ्काराणां पेटिकाः महासैन्यं च सेवकानां प्रदत्तवानस्ति । एवं सत्यपि सा मध्याह्नं यावत् शय्याया नोत्तिष्ठति, प्रत्युत तस्याः प्रातराशोऽपि मे पुत्रेण प्रगुणीकर्तव्यः !!' किञ्चिदस्त्यत्र दुर्बोधम् ?' गुरुः पृष्टवान् । (चतुर्णामप्येषामाङ्ग्लमूलम् - "One Minute Nonsense" . लेखक: Anthonyde MelloS. J.) Page #68 -------------------------------------------------------------------------- ________________ कथा व्याय्यात् पथः प्रविचलन्ति पदं न धीराः मुनिरलकीर्तिविजयः बृहस्पतिर्देवतानां गुरुरासीत् । तस्य पुत्रः कचो मृतसञ्जीवनी विद्यां शिक्षितुं शुक्राचार्यस्य सान्निध्ये उषितवान् । गुरुः सदैव प्रसन्नो यथा स्यात् तथा स तं भक्त्योपासते स्म । ___ असुराणां गुरोः शुक्राचार्यस्य पुत्रीरासीद् देवयानी । साऽपि कचाय स्निह्यति स्म । अन्यदा कच: शुक्राचार्यस्य गाश्चारयितुं वनं गतवान् । राक्षसानां देवानां च परस्परं प्रबलो विरोध आसीत् । अतो राक्षसाः सम्भूय विचारितवन्तो यद् बृहस्पतेः पुत्रं कचं मारयेम चेत् स मृतसञ्जीवनी विद्यां शिक्षितुं न प्रभवेत् नाऽपि चाऽन्येभ्यः शिक्षयेदिति । एवं विचार्य ते वने स्थितं कचं हतवन्तः । ६१ Page #69 -------------------------------------------------------------------------- ________________ अथ रात्रौ विलम्बेनाऽपि यदा कच आश्रमे न प्रत्यागतवान् तदा देवयानी स्वपित्रे तन्निवेदितवती । कचस्य च शुद्ध्यर्थमनुनीतवती । शुक्राचार्यः समाधावुपविश्य दृष्टवान् यत् - कचस्तु मृतोऽस्ति । स तं वनाद् गृहमानीय सञ्जीवनीविद्यया जीवन्तं कृतवान् । अतो राक्षसाः पुनश्चिन्तातुरा जाताः । अवसरं लब्ध्वा च ते तं पुनर्हतवन्तः । नैतावदेव किन्तु शुक्राचार्यं भोजनायाऽऽमन्त्र्य मृतस्य कचस्य शरीरस्य मांसं सज्जीकृत्य मधुना सह सम्मिश्य तस्याऽभक्षयन् । अतस्तद्दिनेऽपि कचो गृहं न प्रत्यागतवान् । बहुकालो व्यतीतः किन्तु कच आश्रमं न प्राप्तवान् । एतेन च देवयानी चिन्तया व्याकुला जाता । कचस्य च शुद्ध्यर्थं पुनः स पितरं विज्ञप्तवती । शुक्राचार्योऽपि ध्यानस्थितो ज्ञातवान् यत् कचस्तु स्वकीये उदर एव विद्यते । अतः स देवयानीमुक्तवान् – 'वत्से ! कचस्तु ममोदर एव विद्यते । अथ कथं पुनस्तं सजीवं कुर्याम् ? कथं चोदराद् बहिरानेतव्यः सः? यदि तं सजीवं कुर्यां तहि मम मृत्युस्त्ववश्यंभावी । अतो नाऽस्त्यथ कोऽपि तं सजीवं कर्तुमुपायः' ।। देवयानी प्रोक्तवती - "पितर् ! प्रथमं तावत् तमुदर एव मृतसञ्जीवनी विद्यां शिक्षयतु । पश्चात् तमुदराद् बहिरानयतु । एवं कृते यदि भवतो मृत्युः स्यादपि तथाऽपि कचः सञ्जीवनीविद्यया भवन्तं सजीवं करिष्यति'। पुत्र्या निर्दिष्टमुपायमुपयुज्य शुक्राचार्यः प्राणदानेनाऽपि कचमुदराद् बहिरानीतवान्, कचश्चाऽपि मृतं स्वगुरुं विद्यया सजीवं कृतवान् । अथ यथाकालं विद्यासम्पादनकार्यं समाप्तं जातम् । कचस्तु स्वगृहं गन्तुं गुरोः शुक्राचार्यस्याऽऽज्ञां याचितवान् । गमनाय सज्जं च कचं दृष्ट्वा देवयानी विषण्णा जाता । विद्वान् नीतिमांश्च कचः स्वकीयः पतिर्भवितुं सर्वथा योग्योऽस्तीत्यवधार्य देवयानी तमुक्तवती - ‘भोः कच ! भवान् गच्छति खलु ! तर्हि भवतो धर्मपत्नीरूपेण स्वीकृत्य मामपि भवता सहैव नयतु' । देवयान्या एतद् वचनं श्रुत्वा कचोऽवदत् - 'आर्यभगिनि ! भवती मम गुरोर्दुहिता । अत: पत्नीरूपेण भवत्याः स्वीकारो न शक्यः । नीतिशास्त्रेऽप्युक्तमेव यद् - गुरुहि पिताऽस्ति गुरुपत्नीश्च माता। गुरोश्च परिवारो भ्रातृभगिनीरूप एव - इति । अतो नीतेरुल्लङ्घनाद् मृत्युरेव वर इति मम मतिः' । देवयानी साग्रहं बहुप्रकारेण विज्ञप्तवती किन्तु कचः स्वसिद्धान्तान्न च्युतः । न च नीतिविरुद्धं कर्तुं कथमप्यङ्गीकृतवान् । एतेन च देवयानी हताशा जाता । अभिशप्तश्च तया कचः - 'भो ! मम पित्रा शिक्षिता मृतसञ्जीवनीविद्या निष्फला भविष्यति' इति । किन्तु, अतिपरिश्रमेण प्राप्ताऽपि विद्या निष्फलैव भविष्यतीति शापमपि नीतिशाली कचः प्रसन्नहृदयेनैव स्वीकृतवान् । अत एवाऽविचलितपदा धीरा इत्युक्तिः । ६२ Page #70 -------------------------------------------------------------------------- ________________ कथा उपाय: मुनिरलकीर्तिविजयः कुत्रचिद् ग्रामे कृषीवलः कश्चिद् दिवं गतः । तस्य द्वौ पुत्रौ आस्ताम् । बृहदेकं क्षेत्रं तस्याऽऽसीत् । तदर्थं चोभयोरपि मध्ये कलहः सञ्जातः । कथं तस्य क्षेत्रस्य समानौ द्वौ भागौ कर्तव्याविति कथमपि निर्णेतुं तौ नाऽशक्नुताम् । कलहप्रियाः केचिज्जनास्तु - न्यायालय एवाऽस्य निर्णयो भवतु - इत्यपि सूचितवन्तः । किन्तु वृद्धः कश्चिदुक्तवान् - 'अस्माकं ग्रामे भक्त एकः प्रतिवसति । युवां द्वावपि तत्र गत्वा प्रश्नमेनं निवेदयताम् । समीचीन एष मार्ग इति मत्वा द्वावपि तत्र गतवन्तौ । द्वयोरपि कथनं सोऽपि सम्यक् सावधानो भूत्वा श्रुतवान् । पश्चादुक्तवान् - 'भ्रातरौ ! अस्य प्रश्नस्य निराकरणाय नैव न्यायालयः कदापि गन्तव्यः । कार्यमेकं युवां कुरुतं - युवयोर्मध्यादेको भ्राता क्षेत्रस्य विभागं करोतु ततश्च भागमेकं ग्रहीतुं प्रथमोऽधिकारोऽन्यस्मै भ्रात्रे ददातु' इति । Page #71 -------------------------------------------------------------------------- ________________ कथा विवेक : मुनिरत्नकीर्तिविजयः सोक्रेटीस् महान् तत्त्वचिन्तक आसीत् । स च न सुरूपः किन्तु कुरूप एव । अतः प्रथममेव यः कोऽपि तं पश्येत् स तस्य सम्यक्परिचयं नैव प्राप्नुयात् । कदाचित् कतिपयमित्रैः सह वार्तयन् स उपविष्ट आसीत् । तदा कश्चिज्ज्यौतिषिकस्तत्र समागतवान् । मुखावलोकनमात्रेणैव स कस्याऽपि गुणदोषादिकं वर्णायितुं शक्त आसीत् । तस्य तादृशीं विद्याशक्तिमवगत्य मित्रैरुक्तं – “एषोऽस्माकं मित्रं सोक्रेटीस् । एनमधिकृत्य को भवतोऽभिप्रायः ?" स जनः सोक्रेटीस्-इत्येनं सम्यगवलोकितवान् । तस्य कुरूपं मुखं, स्थूलावौष्ठौ, दीर्घे नेत्रे, नतां विस्तृतां च नासिकां दृष्ट्वा स उक्तवान् - 'अतीव विषयासक्तोऽयं जनः । अपरं चाऽस्य चिबुकमेवं सूचयति यदेष आग्रही अप्यस्ति' । मित्राणि सोक्रेटीस् चैतच्छ्रुत्वोच्चैर्हसितवन्तः । स च जनः पुनः कथितवान् - 'अस्य नता विस्तृता च नासिका हि क्रोधातिरेकमस्मिन् दर्शयति' । 'अथ कृपया इतः प्रस्थानं करोतु । भवतो विद्याया मिथ्या मित्राणि त्वेवं श्रुत्वा प्रोक्तवन्तः प्रदर्शनं मा कुर्यात्' । - एतच्छ्रुत्वा गमनायोत्थितः सन्नुक्तवान् - 'अस्तु, यत् किमपि भवतां मतं स्यात् किन्त्वेतत् सत्यं यदसौ सर्वथा बुद्धिहीनोऽस्ति' इत्युक्त्वा स जनो निरगच्छत् । पश्चात् मित्राण्युक्तवन्त: - 'अहो ! ऽस्य विद्याचातुर्यम् ! मुखमस्तीति वक्तव्यमिति न्यायेन मनोगतं सर्वमपि यद्वा तद्वा प्रलपितं तेन' । सोक्रेटीस् किञ्चिद् गम्भीरो भूत्वा कथितवान् - 'वयस्याः ! यान् कानप्यवगुणान् स वर्णितवान् ते मयि विद्यन्त एव । किन्तु तेषां समेषामप्युपरि विवेक आरूढोऽस्ति । सर्वेऽपि दुर्गुणा विवेकवशवर्तिनः सन्ति - इत्येतदेव किल स द्रष्टुं नाऽशक्नोत्' इति । ६४ Page #72 -------------------------------------------------------------------------- ________________ कथा एष पारसमणि: मुनिधर्मकीर्तिविजयः अस्मदीये नगरे दातृषु कः श्रेष्ठः ? इति चर्चा प्रचलन्त्यासीत् । एक आह मगनलालः । यतस्तस्य गृहे यः कोऽपि याचितुं गच्छति, स न कदाऽपि ततो रिक्तहस्तः प्रत्यागच्छति । - ६५ Page #73 -------------------------------------------------------------------------- ________________ द्वितीय उवाच - कनकलालः । स तु कर्णराजस्याऽवतारोऽस्ति, इति मन्येऽहम् । यतः स्वसमीपे यत्किमप्यस्ति तत्सर्वमपि याचकाय दातुं शक्नोति । _तृतीयोऽवोचत् - भवद्भ्यां यदुक्तं तत् सत्यमस्ति । तथाऽपि श्रेष्ठो दाता तु धर्मवीरश्रेष्ठी एव । स पारसमणिसदृशोऽस्ति । तस्य श्रेष्ठिनः स्पर्शमात्रेणैव लोहखण्डोऽपि सुवर्णं भवति, एतादृशो महाप्रभावोऽस्ति श्रेष्ठिदेहस्य । एषा वार्तेकया वृद्धया श्रुता । साऽतीव दुःखिन्यासीत् । युवानौ द्वौ पुत्रौ मृतौ, तदाघातवशेन तयोः पिताऽपि मृत्युं प्राप्तवान् । अतः साऽतीव दुःखिनी जाता । इदानीमेको लघुवयस्कः पुत्रोऽस्ति, किन्तु सोऽपि मृत्युशय्यायां पतित आसीत् । तस्याः समीपे पुत्रचिकित्सार्थमावश्यकं धनमपि नाऽऽसीत् । अतः पुत्रस्य मुखं दर्शं दर्श निरन्तरमाक्रन्दति स्म । तदैनां वार्तां निशम्य तस्याश्चित्ते आशा सञ्जाता । दण्डस्य साहाय्येन शनैः शनैः सा वृद्धा लोहखण्डं गृहीत्वा धर्मवीरश्रेष्ठिनो गृहं गतवती । स श्रेष्ठी गृहाङ्गणे पल्यङ्के स्वपिति स्म । ततः सा वृद्धा श्रेष्ठिनः पादे यावद् लोहखण्डं स्पर्शयति तावत् श्रेष्ठी जागृतः । वृद्धाया एतादृशं कौतुकजनकं वर्तनं दृष्ट्वा श्रेष्ठी आश्चर्यं प्राप्तवान् पृष्टवाश्च - रे वृद्धे ! किं करोषि? वृद्धोवाच - श्रेष्ठिवर्य ! भवान् पारसमणिरस्ति, भवतः स्पर्शमात्रेणैव लोहमपि सुवर्णं भवति - इति जनश्रुतिरस्ति । श्रेष्ठिन् ! क्षमस्व । अहं दुर्भाग्यशिरोमणिः पापिनी चाऽस्मि । मयि जीवन्त्यां सत्यामपि धनाभावेन पति पुत्रौ च पञ्चत्वं प्राप्तवन्तः । अधुना मे आधाररूपोऽवशिष्ट एकाकी पुत्रोऽपि मृत्युशय्यायां पतितोऽस्ति । अतः केवलं धनप्राप्तेराशयैव भवतः समीपे आगतवत्यस्मि । यदि लघुर्लोहखण्डोऽपि सुवर्णखण्डो भवेत्तर्हि मदीयः पुत्र उचितौषधेन नूतनं जीवनं प्राप्नुयात् - इति । वृद्धाया वचनं निशम्य श्रेष्ठिनो हृदये करुणाऽजनिष्ट । मातर् ! लोहखण्डं मह्यं देहि, त्वमत्रोपविशेत्युक्तं श्रेष्ठिना । लोहखण्डं गृहीत्वा 'अस्य लोहखण्डस्य तुलां करोतु' इत्यादिष्टः सेवकः श्रेष्ठिना । श्रेष्ठिन् ! पञ्चविंशतितोलकप्रमाणो लोहखण्डोऽस्ति - इति तेन सेवकेनोक्तम् । एतच्छ्रुत्वा "जलेन भृते चषकेऽधिकं जलं पतेत् तत्सर्वं बहिर्निर्गच्छति, तत् किं दानमुच्यते ? नैव । जलभृतचषकमध्यादेव जलं तृषिताय दद्यात् तदेव दानमुच्यते'' इति चिन्तयता श्रेष्ठिना सेवक आदिष्टः - पञ्चविंशतितोलकप्रमाणं सुवर्णमेतस्यै वृद्धायै ददातु । तत्क्षणं सेवकेन तस्यै तावत् सुवर्णं दत्तम् । सुवर्णं गृहीत्वा गच्छन्ती सा गद्गद्स्वरेणोक्तवती - प्रभो ! अस्य श्रेष्ठिनः सदा रक्षणं कुरु, यत एष अनेकेषां जीवानां रक्षकोऽस्ति, वस्तुत एष पारसमणिरस्ति । ६६ Page #74 -------------------------------------------------------------------------- ________________ कथा अनुल्लङ्घनीया मातुराज्ञा मुनिधर्मकीर्तिविजयः कोलकातान्यायालयस्य न्यायाधीशः कोलकाताविश्वविद्यालयस्य चोपकुलपतिः श्रीआशुतोषमुखरजीमहोदय आसीत् । प्रसङ्गवशेन विदेशं गन्तुं योग्यजनरूपेण स महोदय उच्चाधिकारिभिश्चित आसीत् । किन्तु स तत्र गन्तुं निषिद्धवान् । ततो 'भाग्यवान् जन एव विदेशं गन्तुं शक्नोति' - इति चाटुवाक्यैर्मित्रैर्बहुशो विज्ञप्तिः कृता । तथाऽपि सा विज्ञप्तिर्न स्वीकृता तेन महोदयेन । तत्कालीनो राजप्रतिनिधिः(वाइसरोय) लोर्डकर्झन्महोदयो 'मुखरजीमहोदयो विदेशं गन्तुं निषेधयति, तत्र कारणमस्ति तस्य माता' इति ज्ञातवान् । ततः कर्झन्-इत्यनेन स मुखरजीमहोदय आहूत आदिष्टश्च - कर्झन्-इत्यनेन विदेशं गन्तुमहमादिष्ट इति भवान् भवदीयमातरं कथयेत्, ततः सा निषेधं न करिष्यति, इति । मुखरजीमहोदय उक्तवान् - मातरमेवमाख्यातुं न शक्तोऽहम् । यतो मम कृते कर्झन्-इत्यस्याऽऽज्ञा न महत्त्वपूर्णा, अपि तु मम मातुराजैव अनुल्लङ्घनीयाऽऽदरणीया चाऽस्ति । Page #75 -------------------------------------------------------------------------- ________________ कथा धर्मनिष्ठा मुनिधर्मकीर्तिविजयः कस्मिंश्चिद् नगरे मुस्लिमज्ञातीयौ द्वौ भ्रातरौ वसतः स्म । तौ द्वौ अपि अल्लाहं प्रति दृढं समर्पितौ बभूवतुः । नियतकाले सदा तौ अल्लाहोपासना(नमाझ) कुरुतः स्म । एकदा तौ द्वौ आपणे उपविष्टौ आस्ताम् । उपासनासमयो जातः । तदैवैको वणिग् आपणं प्रत्यागच्छन् दृष्टस्ताभ्याम् । आगच्छन्तं तं वीक्ष्य 'शेतान आगच्छति' इत्युक्त्वा कार्यं विमुच्य तौ द्वौ उपासनां कर्तुं मग्नौ जातौ । __इतः ‘शेतान' इति निशम्य स वणिग् - किमहं शेतानोऽस्मि, अहमत्राऽनेकशो व्यवसायार्थमागतोऽस्मि । तथाऽप्यद्यैष कथमेवमुक्तवान् ? - इति चिन्ताकुलो जातः । उपासनानन्तरं द्वाभ्यां भ्रातृभ्यां व्यवसायकार्यं प्रारब्धम् । तदा वणिक् पृष्टवान् - 'शेतान आगच्छति' इति मामुद्दिश्य कथमुक्तं भवद्भ्याम् ? एकेनोक्तम् - भो ! त्वां दृष्ट्वा मनसि लोभो जागृयात्तर्हि उपासनायां विघ्नः स्यात् । अतः शेतान आगच्छति, इत्युक्तं मया, न तु त्वामुद्दिश्य ।। ६L Page #76 -------------------------------------------------------------------------- ________________ कथा बुद्धिर्यस्य बलं तस्य मुनिअक्षयरत्नविजय: [पू.युग.आ.श्रीविजयधर्मसूरीश्वरसमुदायवर्ती] बहुवर्षेभ्यः प्राक् कश्मीरराज्ये (अपरनाम्नि विकणिके) एको नृपो राज्यं कुर्वन्नासीत् । सोऽतिदयावानुदारमनाः प्रजाकल्याणतत्परश्चाऽऽसीत् । किन्तु कतिपयेभ्यो वर्षेभ्यः समुद्भूतैकेदृशी समस्या तस्य मनसि चिन्तां कारयति स्म, यदर्थं स यथा यथा विकल्पं करोति स्म तथा तथा भृशं मुह्यति स्म । समस्येयं नदीपूरस्याऽऽसीत् । __ कश्मीरमध्ये तदा सरिदेकाऽवहत् । साऽधुना 'जेलम' इति नाम्ना विद्यमानाऽस्ति । किन्तु तदा तस्या आख्या 'वितस्ता' इत्यासीत् । वितस्ता विकर्णिकस्य क्षेत्राण्युद्यानानि च सिञ्चन्त्यासीत् । लोकानां तृषमपि तर्पयन्त्यासीत् । किन्तु यदा वर्षर्तुरागच्छति स्म तदा वृद्धिंगता वितस्ता तटद्वयौ लङ्घित्वा मत्तमातङ्ग इव ग्रामाणामत्ययं कुर्वन्ती, पादपानुन्मूलयन्ती मनुष्यान्पशूश्च आत्मना सह सिन्धुं नयन्त्यासीत् । इत्थं तया प्रतिवर्ष ६९ Page #77 -------------------------------------------------------------------------- ________________ मनेकग्रामनगराणि धनधान्यैः परिपूरितान्यनेकशतानि क्षेत्राणि च नाशितान्यभवन् । अस्याः समस्यायाः किमपि निराकरणं नृपेण न प्राप्तम् । अथैकदा स मध्येसभं स्वकीयां समस्यां प्रधानानां मनीषिणां च पुरतः कथयाञ्चकार । तदा कश्चिज्जनोऽवादीत् - "राजन् ! इत्थं प्रतिभाति यत् केनचित् कारणेन जगदीशोऽस्मान् दण्डयति । अत एव मातृसमाना वितस्ताऽस्माकमत्ययं कर्तुं तत्परीभूताऽस्ति । तस्याः सन्तुष्ट्यर्थं वयमेकं महायज्ञं कुर्याम" । ततो नृपेण चिन्तितं यद् ‘स्यादेवं न वा, किन्तु ममैव कस्यचित् पापस्याऽयं निग्रहो मत्प्रजायाः पीडाकारको भवति । अन्यथा मत्पितृशासने कथमीदृश्यापत्तिर्नाऽऽगता?' इति विचिन्त्य स सुदूराद् विप्रान् कोविदाँश्चाऽऽहूय वितस्ताया तटे विशिष्टमहामखमकारयत् । किन्तु तत्पश्चादपि वितस्ता पूर्ववदेव दारुणमत्ययं कुरुते स्म । ततः केनचिज्जनेन पुनरुक्तम् - "नद्यम्बायै बलिर्दीयताम्" । अतो नृपतिर्बहूनां पशूनां बलीनयच्छत् । किन्त्वनेनाऽकार्येणाऽतिरुष्टेव वितस्ताऽन्तिमवर्षादप्यधिकं दारुणं विनाशमकरोत् । अथ सभायामेकदा नृपः "किं कर्तव्यमिति चिन्तातुरो भूत्वोपविष्टवान्, तदा द्वारपालेनाऽऽगत्याऽकथ्यत यदेको युवा राज्ञो दर्शनं कर्तुमिच्छति । स कथयति यदहं वितस्तायाः सन्तुष्टेः कलां वेद्मि । राजा व्यस्मयत । 'पूर्वागतानामन्येषां सदृशोऽयमपि कश्चन धूर्तः सम्भवेत्, तथाऽपि तस्य मिलने का हानिः ?' इति विचिन्त्य नृपेण द्वारपालस्तं युवानं समज्यायामानेतुमादिश्यत । ___ आगन्तुको युवा राज्ञा पृष्टः - "अये युवन् । त्वया या वार्ता कृता सा सत्याऽस्ति न वा ?" युवा गम्भीरघोषेण प्राह - "ओम् राजन् ! नूनमहं वितस्तायाः कोपं निवारयितुं शक्नोमि । तदर्थं मम यज्ञादेर्न, किन्तु केवलं दशसहस्राणां रूप्यकाणामावश्यकताऽस्ति" । तपसा बलिना पूजया यज्ञेन च विनैव वितस्तां वशीकर्तुं सन्नद्धं तं युवानं निरीक्ष्य सभासदोऽत्याश्चर्यमन्वभूवन्नविश्वासं चाऽदधत । प्रधान-राजपुरोहिताभ्यां तु राजा निवेदितः - "राजन् ! धूर्तमानवस्याऽस्य काऽपि वार्ता न माननीया । स धनं गृहीत्वा देशान्तरं पलायिष्यते । तस्य चित्तं दुष्टमस्ति । यत्र महान्तः पण्डिताः किञ्चिदपि कर्तुं नाऽशक्नुवन्, तत्राऽयं भ्रान्तचित्तः साधारणो जनः किं करिष्यति ?" श्रुत्वेदं यूना कथितं - "भोः पृथ्वीपाल ! भवान् भवद्राजवैद्यनाऽहं भ्रान्तचित्तोऽस्मि न वा तद् गवेषयतु, पश्चाच्च मम समन्तात् सैनिकान् स्थापयतु, येनाऽहं देशं त्यक्त्वा पलायितुं न शक्नुयाम् । अहं साधारणजनोऽसाधारणजनो वा, तत्तु मत्कार्यमेव कथयिष्यतीत्यलमतिचर्चया । एकस्मिन्नेव सप्ताहे यदि वितस्ता स्वमर्यादायां न वहेत्तर्हि भवशिक्षा सोढुमहं प्रवणोऽस्मि' । एवमपि राजपुरुषाः सम्मता नाऽभवन् । किन्तु 'यज्ञादिकर्मण्यनेकसहस्राणां सुवर्णमुद्राणां व्ययः सञ्जातोऽस्ति तडॅकस्मिन्नधिके प्रयत्नकरणे को बाधः ?' इति विचार्य नृपोऽनुज्ञामयच्छत् । राजनगरे श्रीनगरे वृत्तान्तोऽयं वायुरिव प्रसृतो 'यदेको भ्रान्तचितः श्वो वितस्तां वशीकरिष्यती'ति । ७० Page #78 -------------------------------------------------------------------------- ________________ द्वितीयदिने प्रभाते निश्चितसमये सहस्राधिका लोका नद्या द्वयोस्तटयोरिदं नाटकं द्रष्टुमेकत्र मिलिताः । सर्वेषां समक्षं तरीमुपविश्य युवा निर्गतः । तेन सहाऽनेके घटा आसन् । सर्वे जनास्तं पश्यन्ति स्म । तावदेव युवा स्वहस्तेनैकघटाद् मुष्टिं भृत्वा मुद्रा बहिरानीय नद्यामक्षिपत् । नद्या द्वयोस्तटयोरेकत्र संमीलिता लोका यून ईदृग् भ्रान्तचित्तत्वं दृष्ट्वा व्यस्मयन्त । तत्पश्चात्तु हस्तेन घटाद् मुद्रा गृहीत्वा बहिरानयनं लोकानां दर्शयित्वा क्षेत्रेऽन्नानां वपनस्येव नदीजले मुद्राणां क्षेपणस्योपक्रमोऽचलद् । सर्वेऽपीत्थमन्वभवन् यद् यूनो मनसि ते रायो, रायो न सन्ति, किन्तु कर्करा एव । एतावत्येव परस्मिन् तटे सहसा कश्चन ध्वनिर्जातः । कतिपये च साहसवीरास्तटिन्यां प्लुत्वा बुडित्वा च मुद्रानिष्काशनोद्यमे लग्नाः । प्रथमं तु लोकास्तेषामीदृशं दुःसाहसमहसन्, किन्तु कतिपयेषां यूनां किल नद्यास्तलाद् मुद्रा मिलितास्ततस्तेषां हास्यं तिरोभूतम् । अन्येऽपि जना मुद्रा निष्कासयितुमुत्सुका अभवन् । लोका जलवाहिन्यां प्लवमाना आसन् । केचित् स्वीयहस्तद्वयाभ्यां तलाद् कर्दमं निष्काशन्ते स्म । इतश्च केचिल्लोका आत्मना सह लघुकरण्डकं गृहीत्वा तलं गच्छन्ति स्म । तस्मिन् करण्डके कर्दमं भृत्वा ते तीरमानीय तस्मिन् मुद्रा मृगयमाणा आसन् । कतिपयेषां लोकानां मनस्यतोऽप्यतिशोभना युक्तिर्जागृता । एकं वृन्दं नद्यास्तलात् कर्दममानीय तट उत्करं व्यरचयत् । द्वितीयं तु तस्मिन् मुद्रा अगवेषयत् । असौ युवा तु घटेभ्यो मुद्रा निष्काश्य लोकान् दर्शयित्वा च नद्यां क्षिपति स्म । इत्थं कृत्वा जाने स लोकान् मुद्रा ग्रहीतुमधिकमधिकं समाह्वयत इति प्रत्यभात् । नदीमध्यं गत्वा स मुद्राभिर्भूतमेकं सम्पूर्णं घटमेव जले पराङ्मुखमकरोत् । यथा यथा तस्य तर्यग्रतो वर्धमाना जाता तथा तथा मुद्रागवेषयितारोऽपि वर्धमाना आसन् । नृपस्य कर्मचारिणो यून ईदशी चेष्टां निरीक्ष्याऽतिमुह्यन्ति स्म यदमुना यूना त्वशेषं नगरं भ्रान्तचित्तं कृतम् । स्तोकमुद्राप्राप्तिलोभेन लोका अनेकशतपलमितकर्दमं तटमानयन्त आसन् । __परस्मिन् दिने सूर्योदयात् प्रागेव लोकाः पुनः सरितं प्रति निरगच्छन् । द्वितीयस्मिन् दिनेप्ययं क्रमोऽचलद् । द्वयोश्च तटयोर्मृत्तिकाया उत्करा अभवन् तीपि लोकानामुत्साहोऽमन्द आसीत् । तृतीये दिने प्रातस्समये लोका एकां चमत्कृतिमपश्यन् । वितस्तायास्सलिलं बहुहस्तमितमधोऽगच्छत्, तटाश्चाऽनेकहस्तमिता उच्चैरगच्छन् । राजाऽपि 'बुद्धिर्यस्य बलं तस्य' इत्युक्तेश्चरितार्थताकारकेण यूना कृता चमत्कृतिमिमामपश्यत् । तदा तेन ज्ञातं यद् नदी किमर्थं क्रुध्यन्त्यासीत् । वर्षेभ्यो नगरस्य कचवरस्तस्यां गच्छन्नासीत् । येन कारणेन तस्यास्तलमनगाधमभूत्, जलस्य च गमने विघ्न उदपद्यत । अस्य सत्यस्य ज्ञानाय यज्ञबल्योर्न, किन्तु प्रकृतिस्वभावस्य ज्ञानमावश्यकमासीत् । एतद्घटनानन्तरमनेकवर्षेभ्यः पश्चादपि वितस्तायां पूरो नाऽऽगतः । नद्यास्तटे नगरमेकमवसत् । तदद्य 'सोदार' इत्यभिधानेन विख्यातमस्ति । तदा तस्याऽभिधानं सूयापुरमासीत् । यतस्तत् किल लोकानां पूरसङ्कटाद् रक्षकस्य 'सूया' इत्यभिधानस्य यूनः स्मृतौ न्यवात्सीत् । Page #79 -------------------------------------------------------------------------- ________________ कथा भाग्यं फलति सर्वत्र सा. दीप्रयशाश्रीः एको ब्राह्मणः पत्न्या पुत्रेण च सह नदीतटेऽवसत् । अतिदीनावस्थायां जीवनं यापयन् स भगवतो नामस्मरणं करोति स्म । एकदा व्योममार्गेण गतवता नारदेनैष दृष्टस्तेन च तस्य हृदये करुणा सञ्जाता । ततो विष्णोः समीपं गतवानुक्तवाँश्च नारदः युष्माकं सेवकः किमर्थं दुःख्यस्ति ? भगवानुवाच तस्य भाग्ये सुखमेव नास्ति । नारदः कथितवान् – नैतद् योग्यमस्ति । भवान् किमपि करोतु येन स सुखीभवेत् । 'तथाऽस्तु' इत्युक्तवान् भगवान् । त्वं तं निवेदय यदागामिनि पूर्णिमादिने नद्यां त्रयोऽप्येकमेकं वरं याचेरन्, इति । नारदेन ब्राह्मणाय सर्वमपि कथितम् । पूर्णिमादिवस आगतः । प्रभाते जागृता ब्राह्मणी चिन्तितवती यत् प्रथमं वरमहं याचेय । ततो नद्यां स्नात्वा तया याचितं यत् 'भगवन् ! राजमहिष्याः सौन्दर्यं प्राप्नुयाम्' इति । तत्क्षणं ब्राह्मणी राजमहिषीसदृशी मनोहरा जाता । तदैव तन्मार्गेण गच्छता राज्ञा सा दृष्टा । एषा तु मम योग्याऽस्ति, इति चिन्तयन् यावत्तामपहरति तावदेव पितापुत्रौ च द्वौ अपि बहिरागत्य तद् दृष्टवन्तौ । तेन तौ द्वौ क्रुद्धौ व्याकुलौ च जातौ । - ततश्च ब्राह्मणेन वरो याचितो यद् - भगवन् ! मम पत्नी अजा भवतु, इति । तत्क्षणं राज्ञी अजा सञ्जाता । ततो राजसेवकैर्हक्किता सा नदीतटे पुनरागता । ततस्तस्याः दयया पुत्रेण याचितं यद् - भगवन् ! अजारूपं त्यक्त्वा मम माता मे लभताम्, इति । तत्क्षणं सा ब्राह्मणी सञ्जाता । एवं त्रयोऽपि वरा निरर्थका जाता: । सन्ध्याकाले नारदस्तत्राऽऽगतवान् । तेन सर्वमपि ज्ञातम् । तदा विष्णु भगवतो वाक्यं स्मृतिपथमागतम् - भाग्यं विना भगवानपि न दातुं शक्तः, इति । ७२ Page #80 -------------------------------------------------------------------------- ________________ कथा शुकद्वयम् सा. हर्षरेखाश्रीः एकदा कस्यचिन्नृपस्य समीपे द्वौ शुकौ समागतौ । नृपो द्वयोरपि शुकयोर्मध्ये भाषाभेदं परिलक्षितवान् । यद्, एकस्य भाषा मधुरा प्रीतिकरा चाऽऽसीद्, अन्यस्य च कठोराऽप्रीतिकरा चाऽऽसीत् । अस्य भेदस्य कारणं नृपो मधुरभाष शुकं पृष्टवान् । शुकः कथितवान् यद्, यद्यपि सहोदरावेवाऽऽवां, किन्तु डयन्तौ झञ्झावातेनाऽऽवामेकदा वियुक्तौ जातौ । दैवाच्चाऽहं कस्यचिद् ऋषेराश्रमं प्राप्तवान् । तथैष च मम भ्राता किरातानां वासं प्राप्तवान् । ऋषिमुनीनां मधुरव्यवहारेण मम वाणी संस्कृता जाता, किन्तु किरातानां दुर्वचोभिर्दुर्व्यवहारेण च मे बन्धुः कठोरवाग् जातः । अतः संसर्गभेदजोऽयमावयोर्भाषाभेदोऽस्ति । ७३ Page #81 -------------------------------------------------------------------------- ________________ कथा वृद्धोऽनुभवदीपः सा. शीलन्धराश्री:* एकदैकस्य श्रेष्ठिनो गृहे कन्याया विवाहप्रसङ्ग आसीत् । तस्य मनसि नर्मकरणार्थं विचार आगतः । ततस्तदनुसारेण जामातरमुद्दिश्य तेन पत्रं लिखितम् । माननीयाः ! ___ विवाहदिने जन्ययात्रायां भवद्भिनिश्चयेनाऽऽगमनीयं, किन्तु विना वृद्धजनं केवलं युवभिरेवाऽऽगन्तव्यम् । यद्येकोऽपि वृद्धजन आगमिष्यति तर्हि विवाहं न करिष्यामो वयम्, इति ज्ञेयम् । पत्रं पठित्वा सर्वेऽपि युवानः प्रसन्नीभूताः । किन्तु वरस्य पितृव्यस्तत् पठित्वा चिन्तितवान् यद्, अत्र किमपि रहस्यमस्ति । अतः स यून उदितवान् - अहं युष्माभिः सह गुप्तरीत्याऽऽगमिष्यामि । सर्वेऽपि तद्वचनं स्वीकृतवन्तः । निश्चितदिने तद्ग्रामं गतवन्तः सर्वेऽपि । कन्याया ग्रामसमीपे यदा ते आगतास्तदा कन्यापिता मनोहरतूर्यनादेन सह तेषां स्वागतं कृतवान् । ___कन्यापिता जामातरं कथितवान् - पश्य ! अत्रैकः कासारोऽस्ति । प्रथममेष कासारो घृतेन पूरणीयो भवद्भिः । तत्पश्चादेव विवाहो भविष्यति । एतच्छ्रुत्वा सर्वेऽपि युवानश्चिन्ताकुला जाता यत्, एष कासारः कथं घृतेन भ्रियेत ? एतावच्च घृतं कुत आनीयेत ? अथ किं करवाम ? इति । तदैको युवा पितृव्यस्याऽस्मरत् । तेन तस्य समीपं गत्वा वातॆषा निवेदिता । पितृव्य उवाच - मा मुह्यत । कथं यूयं भयविह्वला जाताः ? गच्छत । कन्यापितर कथयत यद्, घृतभृतशकटान्यागच्छन्ति, अतो भवान् झटिति जलभृतं कासारं रिक्तं करोतु - इति । प्रसन्नीभूतास्ते सर्वेऽपि कन्यापितुः समीपं गताः उक्तवन्तश्च - घृतशकटान्यागच्छन्ति, भवान् कासारं रिक्तं कारयतु । कन्यापिताऽपि प्रसन्नीभूय कथितवान् - निश्चयेन युष्माभिः सह कश्चन वृद्धजन आगतोऽस्ति । अन्यथैतादृशं प्रत्युत्तरं न शक्यम् । अतः सत्यं कथयत । तदैको युवा सर्वमपि गदितवान् । अन्ते तूर्यनादेन सह सस्वागतं वर-कन्ययोविवाहः संपन्नो जातः । तदा सर्वैरप्यनुभूतं यद्, वृद्धजनोऽनुभवदीपरूपोऽस्ति । अतः स कदाऽपि नाऽवगणनीयः । ★ सागरजी-समुदायवर्तिनी ७४ Page #82 -------------------------------------------------------------------------- ________________ कथा कुलीनत्वम् सा. पुण्यधराश्रीः एकस्मिन्नगरे प्रतिवेशितयैका ब्राह्मणी एका च शाकविक्रेत्री वसतः स्म । तयोः परस्परं परात्मीयताऽऽसीत् । कदाचित् केनाऽपि कारणेन परस्परं यदि विवादो भवेत्तर्हि अप्यल्पेनैव कालेन समाधानं विधाय ते द्वे सानन्दं व्यवहारमपि कुरुतः स्म । एकदा ब्राह्मणी गर्भिणी जाता। प्रायो गर्भभृतां योषितां दोहदानि भवेयुः । ब्राह्मण्या यानि दोहदानि जातानि तानि सर्वाण्यपि परिपूर्णीकर्तुं सर्वेऽपि प्रयतन्ते स्म । तदैकदा तस्या मांसभक्षणे दोहदं जातम् । सा अस्य दुष्टदोहदस्य वार्ता कस्याऽप्यग्रे कथयितुं सोढुं वाऽपि न शक्ताऽऽसीत् । तस्मात् तस्या देहोऽतीव कृशो जातः । तस्यास्तादृशीं स्थितिं दृष्ट्वा शाकविक्रेत्री पृष्टवती - हले ! किं ते मनसि बाधते येन ते देहः कृशतरो जातः ? । ब्राह्मणी उवाच - किं करवाणि ? अहं न कथयितुं न च सोढुमपि शक्ताऽस्मि । शाकविक्रेत्री उक्तवती - कथं त्वं चिन्तां करोषि ? चिन्तायाः कारणं मे कथय । अहं तद् दूरीकर्तुं प्रयतिष्ये। ब्राह्मणी स्वदोहदं तस्यै अकथयत् । शाकविक्रेत्री प्रोवाच - हले ! त्वं चिन्तां मा कुरु । मम गृहे यदा कदाऽपि मांसं पच्यते एव। ततस्तव दोहदं निर्विघ्नं पूर्णीभविष्यति, एषा च वार्ता न केनाऽपि ज्ञातुं शक्येत । अवसरे तया तस्या दोहदं पूर्णीकृतम् । एकस्मिन् दिने तयोर्द्वयोर्मध्ये केनाऽपि कारणेन कलह: सञ्जातः । द्वे अपि परस्परमपशब्दान् प्रयुक्तः स्म । तदा सहसैव मांसभक्षणं स्मृत्वा सा ब्राह्मणी तूष्णीं जाता । यतो यदि एषा क्रोधाध्माता वृत्तं प्रकटीकुर्यात् तहि मृत्युरेव शरणम् । अथ सहसैव ब्राह्मणी तूष्णीं जातां वीक्ष्य शाकविक्रेत्री चिन्तितवती यद्, दोहदवार्तयैवैषा शान्ता जाता । ततः सोक्तवती - हले ! त्वं यान्यपि वचनानि वक्तुमिच्छसि तानि वचनानि वद, चिन्तां मा कुरु । अस्माद् मुखात् मया यानि वचनानि वदितव्यानि तान्येवाऽहं वदिष्यामि, किन्तु यान्यवक्तव्यानि वचनानि तानि नैव वदिष्यामि – इति । एतच्छ्रुत्वा ब्राह्मणी चिन्तितवती - यद्, नूनं ममैषा सखी कुलीनाऽस्ति । ७५ Page #83 -------------------------------------------------------------------------- ________________ मर्म नर्म - कीर्तित्रयी (१) विश्वविद्यालयपरिसरात् सहैव निर्गतौ स्नातकनेपथ्यधारिणौ द्वौ स्नातकौ बहिरागत्य टैक्सीयानमारूढौ। "किं भवन्तौ विश्वविद्यालयात् स्नातकीभूय निर्गतौ वा ?' यानचालकः पृष्टवान् । 'आम् भ्रातर् ! आवां २०११तमवर्षस्य स्नातकौ !' द्वावपि सगर्वमुक्तवन्तौ । तदा यानचालकोऽपि स्वहस्तमग्रे कृत्वा कथितवान् – 'अहमस्मि २००५ तमवर्षस्य स्नातकः !' इति ।। अरुणः कस्य राज्ञो मुकुट ह्यतिविशालमासीदिति त्वं जानासि वा ? वरुणः आम् अहं जानामि ! अरुणः तर्हि कथय, को वा सः ? वरुणः यस्य मस्तकमतिविशालमासीत् तस्य !! ७६ Page #84 -------------------------------------------------------------------------- ________________ (३) न्यायाधीशः (कोपेन) अस्य स्यूतं चोरयता त्वया किमपि नैव विचारितम् ? चौरः महोदय ! विचारितमासीत् । न्यायाधीशः (उच्चैः) किं तत् ? चौरः मया विचारितं यत् - कदाचिदयं स्यूतो रिक्तस्तु नैव स्यात् !! (४) प्रातिवेशिकी-१ हले ! किं करोषि ? प्रातिवेशिकी-२ गृहसम्मार्जनं करोमि । प्रातिवेशिकी-१ तर्हि अत्राऽऽगत्य कुरु येन कार्यं संलापोऽपि च स्यात् । वयं भगवति किमिति श्रद्दधामः । यतोऽद्याऽपि बहवः प्रश्ना अनुत्तरितास्तिष्ठन्ति !! रमणः भोः ! ह्यो रात्रौ निद्रैव नाऽऽगता मम ! गमनः किमर्थं भोः ? रमणः ह्य आरात्रि मया स्वप्ने 'अहं जागर्मि' इत्येव दृष्टम् !! ७७ Page #85 -------------------------------------------------------------------------- ________________ प्राकृतविभागः पाइय-विन्नाणकहा आ. विजयकस्तूरसूरिमहाराज: (१) पुत्तेहिं पराभविअस्स पिउस्स कहा जाव दव्वं विइण्णं न, पुत्ता ताव वसंवया । 'पत्ते दव्वे य सच्छंदा' हवंति दुक्खदायगा ॥१॥ कंमिवि नयरे एगवुड्ढस्स चउरो पुत्ता संति । सो थविरो सव्वे पुत्ते परिणाविऊण नियवित्तस्स चउब्भागं किच्चा पुत्ताणं अप्पेइ । सो धम्माराहणतप्परो निच्चितो कालं नएइ । कालंतरे ते पुत्ता इत्थीणं वेमणस्सभावेण भिन्नघरा संजाया । वुड्ढस्स पइदिणं पइघरं भोयणाय वारगो निबद्धो । पढमदिणंमि जेटुस्स पुत्तस्स गेहे भोयणाय गओ । बीयदिणे बीयपुत्तस्स घरे जाव चउत्थदिणे कणिट्ठस्स पुत्तस्स घरे गओ । एवं तस्स सुहेण कालो गच्छइ । कालंतरे थेराओ धणस्स अपत्तीए पुत्तवहूहिं सो थेरो अवाणिज्जइ । पुत्तवहूओ कहिंति - " हे ससुर ! अहिलं दिणं घरंमि किं चिट्ठसि ?, अम्हाणं मुहाई पासिउं किं ठिओ सि ?, थीणं समीवे वसणं पुरिसाणं न जुत्तं, तव लज्जा वि न आगच्छेज्जा, पुत्ताणं हट्टे गच्छिज्जसु " एवं पुत्तवहूहिं अवमाणिओ सो पुत्ताणं हट्टे गच्छइ । तया पुत्तावि कर्हिति - " हे वुड्ढ ! किमत्थं एत्थ आगओ ?, वुढत्तणे घरे वसणमेव सेयं, तुम्ह दंता वि पडिआ, अक्खितेयं पि गयं, सरीरं पि कंपिरमत्थि, अत्थ ते किंपि पओयणं नत्थि, तम्हा घरे गच्छाहि" एवं पुत्तेहिं तिरक्कारिओ सो घरं गच्छेइ, तत्थ पुत्तवहूओ वि तं तिरक्करंति । पुत्तपुत्ता वि तस्स थेरस्स कच्छुट्टियं निक्कासेइरे, कयाई मंसुं दाढियं च करिसन्ति । एवं सव्वे विविहप्पगारेहिं तं वुड्डुं उवहसिंति । पुत्तवहूओ भोयणे वि रुक्खं अपक्कं च रोट्टगं दिति । एवं पराभविज्जमाणो वुड्डो चिंतेइ - 'किं करोमि, कहं जीवणं निव्वहिस्सं ?' एवं दुहमणुभवतो सो नियमित्तसुवण्णगारस्स समीवे गओ । अप्पणो पराभवदुहं तस्स कहेइ, नित्थरणुवायं च पुच्छइ । सुवणगारो बोल्ले "भो मित्त ! पुत्ताणं वीसासं करिऊण सव्वं धणमप्पिअं, तेण दुहिओ जाओ, तत्थ किं चोज्जं ? । सहत्थेण कम्मं कयं तं अप्पणा भोत्तव्वं चिअ " । तह वि मित्ततेण हं एगं उवायं दंसेमि तुम पुत्ताणं एवं कहिअव्वं " मम मित्तसुवण्णगारस्स गेहे रूवग- दीणारभूसणेहिं भरिआ एगा मंजूसा मए मुक्का अत्थि, अज्ज जाव तुम्हाणं न कहिअं, अहुणा जराजिण्णो हं, तेण सद्धम्मकम्मणा सत्तक्खेत्ताईसुं लच्छीए विणिओगं काऊण परलोगपाहेयं गिहिस्सं" एवं ७८ Page #86 -------------------------------------------------------------------------- ________________ कहिऊण पुत्तेहिं एसा मंजूसा गेहे आणावियव्वा । मंजूसाए मझे हं रूवगसयं मोइस्सं, तं तु मज्झरत्तीए पुणो पुणो तुम सयं च सहस्सं च रणरणयारपुव्वं गणेयव्वं, जेण पुत्ता मन्निस्संति- 'अज्जाऽवि बहुधणं पिउणो समीवे अत्थि', तओ धणासाए ते पुव्वमिव भत्तिं करिस्संते । पुत्तवहूओ वि तहेव सक्कारं काहिन्ति । तुमए सव्वेसिं कहियव्वं - 'इमीए मंजूसाए बहुधणमत्थि । पुत्तपुत्तवहूणं नामाई लिहिऊण ठवियमत्थि । तं तु मम मरणंते तुम्हेहिं नियनियनामेण गहिअव्वं' । धम्मकरणत्थं पुत्तेर्हितो धणं गिण्हिऊण सद्धम्मकरणे वावरियव्वं । मम रूवगसयं पि तुमए न विस्सारियव्वं, एयं अवसरे दायव्वं" । सो थेरो बुद्धीए तुट्ठो गेहं गच्चा पुत्तेहिं मंजूसं आणाविऊण रत्तीए तं रूवगसयं सय-सहस्सदससहस्साइगुणणेण पुणो पुणो गणेइ । पुत्ता वि विआरिंति पिउस्स पासे बहुधणमत्थि त्ति, तओ वहूणं पि कर्हिति । सव्वे ते थेरं बहुं सक्कारिति सम्माणिति य । अईवनिब्बंधेण तं पुत्तवहूआ वि अहमहमिगयाए भोयणाय निंति, साउं सरसं भोयणं दिति, तस्स वत्थाई पि सएव पक्खालिंति, परिहाणाय धुविआई वत्थाई अप्पिति, एवं वुड्ढस्स सुहेण कालो गच्छइ । एगया आसन्नमरणो सो पुत्ताणं कहेइ - "मज्झ धम्मकरेणच्छा वट्टइ, तेण सत्तखेत्तेसुं किंचि वि धणं दाउमिच्छामि'' । पुत्ता वि मंजूसागयधणासाए अप्पिति । सो वुड्डो जिण्णमंदिरुवस्सय-सुपत्ताईसु जहसत्तिं दव्वं देइ । अप्पणो परममित्तसुवण्णगारस्स वि नियहत्थेण रूवगसयं पच्चप्पइ । एवं सद्धम्मकम्मंमि धणव्वयं किच्चा, ‘मरणकालंमि पुत्ताणं पुत्तवहूणं च बोल्लाविऊण कहेइ - "इमीए मंजूसाए सव्वेसिं नामग्गहणपुव्वयं मए धणं मुत्तमत्थि । तं तु मम मरणकिच्चं काऊण पच्छा जहनामं तुम्हेहिं गहिअव्वं " ति कहिऊण समाहिणा सो वुड्डो कालं पत्तो । I — पुत्तावि तस्स मच्चुकिच्चं किच्चा नाइजणं पि जेमाविऊण बहुधणासाइ जया सव्वे मिलिऊण मंजू उघाडिति, तया तम्मज्झमि नियनियनामजुत्तपत्तेहिं वेढिए पाहाणखंडे तं च रूवगस पासित्ता अहो वुड्ढेण अम्हे वंचिआ वंचिअ त्ति जंपंति किल अम्हाणं पिउभत्तिपरंमुहाणं अविणयस्स फलं संपत्तं । एवं सव्वे ते दुहिणो जाया । उवएसो पुत्तेहिं पत्तवित्तहिं, पिअरस्स पराभवं । सोच्चा 'तहा पयट्टेज्जा, सुहं वुड्डत्तणे जह' ॥२॥ पुत्तपराभविअवुड्डस्स कहा सम्मत्ता ७९ जणपरंपराओ Page #87 -------------------------------------------------------------------------- ________________ (२) निब्भग्गनिद्धणस्स कहा भग्गहीणा न पेक्खते, पुरं पि पडियं धणं । अंधाइओ सत्तो वि, गमित्था कुंडलं जहा ॥१॥ कम्म विगामे निद्धणो निब्भग्गो कवि जणो अहेसि । सो कट्ठेण जीवणं निव्वइ । एगया सो वर्णमि गओ, तत्थ एगो विज्जाहरो विज्जाहरी अ विमाणेण गच्छंति । सो निद्धणो तेहिं दंपईहिं दिट्ठो । विज्जाहरी तं निद्धणं दट्ठूणं नियभत्तारं कहेइ - "हे पिअ ! एसो निद्धणो अम्हाणं दिट्ठिपहंमि जइ समागओ तया एसो अवस्सं सुहं पावियव्वो" । विज्जाहरो कहेइ - "एसो निद्धणो निब्भग्गो अत्थि । दिण्णधणो वि निब्भग्गयाए सो निद्धणो होज्जा" । विज्जाहरी कहे "पिय ! तुमं किवणो असि, तेण एवं कहेसि” ! विज्जाहरो कहेइ - "हं सच्चं वएमि, हे पिए! तुम्ह वीसासो न होज्जा, तया एयस्स परिक्खं कुम । जंमि पहे एसो गच्छइ, तयग्गओ किंचि दूरे पहंमि कोडिमुल्लं एयं कुण्डलं ठविस्सामि, जइ सो तं गिण्हेज्जा तया तस्स इमं कुण्डलं " । एवं कहिऊण सो विज्जाहरो तस्स निद्धणस्स नाइदूरे नच्चासण्णे तं कुंडलं मग्गे ठवीअ । गच्छंतस्स तस्स तं कुंडलं जया समीवमागयं, तया सो भग्गहीणयाए एवं चिंतेइ - "अंधो कहं चलेज्ज" एवं चिंतित्ता सो अंधो भविऊण मग्गे ताव चलिओ, जाव तं कुंडलं पच्छा ठिअं । सो निद्धणो सम्मुहत्थं पि कुंडलं निब्भग्गयाए न पावीअ । तं च कुंडलं विज्जाहरेण गहीअं । एवं भग्गहीणा पुरिसा सम्मुहत्थं पि दव्वं न पासिंति । उवएसो निब्भग्गस्स कहं एयं, सुणिऊण जणा सया । 'सोहग्गकारणे धम्मे, उज्जमेज्जा हियद्विणो ॥ २ ॥ (३) अमंगलियपुरिसस्स कहा 1 दिव्वकुंडलपत्तीए निब्भग्गस्स कहा समत्ता ॥ अमंगलहो लोगो, नेव कोवीह भूले । वहाइडेण भूमीसो, अमंगल हो कओ ॥१॥ ८० एगंमि नयरे एगो अमंगलिओ मुद्धो पुरिसो आसि । सो एरिसो अत्थि, जो को वि पभायंमि तस्स मुहं पासेइ, सो भोयणं पि न लहेज्जा । पउरा वि पच्चूसे कया वि तस्स मुहं न पेक्खति । नरवइणावि अमंगलियपुरिसस्स वट्टा सुणिआ । परिक्खत्थं नरिंदेण एगया पभायकाले सो आहूओ, तस्स मुहं दिट्ठे । १. अन्धायितः ॥ - सूरीसरमुहाओ Page #88 -------------------------------------------------------------------------- ________________ जया राया भोयणत्थमुवविसइ, कवलं च मुहे पक्खिवइ, तया अहिलंमि नयरे अकम्हा परचक्कभएणं हलबोलो जाओ । तया नरवई वि भोयणं चिच्चा सहसा उत्थाय ससेण्णो नयराओ बाहिं निग्गओ । भयकारणमदट्ठण पुणो पच्छा आगओ समाणो नरिंदो चिंतेइ - "अस्स अमंगलिअस्स सरूवं मए पच्चक्खं दिटुं, तओ एसो हंतव्वो" । एवं चिंतिऊण अमंगलियं बोल्लाविऊण वहत्थं चंडालस्स अप्पेइ । जया एसो रुयंतो, सकम्मं निदंतो चंडालेण सह गच्छेइ तया एगो कारुणिओ बुद्धिनिहाणो वहाइ नेइज्जमाणं तं दट्ठणं कारणं णच्चा तस्स रक्खणाय कण्णे किंपि कहिऊण उवायं दंसेइ । हरिसंतो जया वहत्थंभे ठविओ, तया चंडालेण सो पुच्छिओ - 'जीवणं विणा तव कावि इच्छा सिया, ता मग्गसु त्ति' । सो कहेइ – 'मज्झ नरिंदमुहदंसणेच्छा अत्थि' । जया सो नरिंदसमीवमाणीओ तया नरिंदो तं पुच्छइ - "किमेत्थ आगमणपओयणं ?" । सो कहेइ - "हे नरिंद ! पच्चूसे मम मुहस्स दंसणेण भोयणं न लब्भइ, परंतु तुम्हाणं मुहपेक्खणेण मम वहो भविस्सइ, तया पउरा किं कहिस्संति ? । मम मुहाओ सिरिमंताणं मुहदंसणं केरिसफलयं संजायं, नायरा वि पभाए तुम्हाणं मुहं कहं पासिहिरे ?" । एवं तस्स वयणजुत्तीए संतुट्ठो नरिंदो वहाएसं निसेहिऊण पारितोसिअं च दच्चा तं अमंगलिअं संतोसीअ ॥ उवएसो- अमंगलमुहस्सेवं, रक्खणं धीमया कयं । सोच्चा तुम्हे तहा 'होह, मईए कज्जसाहगा' ॥२॥ अमंगलियपुरिसस्स कहा समत्ता ॥ - गुज्जरभासाकहाए (४) बुद्धीए मुल्लंकदंसणे कहा मईए सयलकज्जेसु, मुल्लं दससहस्सगं । रूवगं किंकरस्सिक्कं जंतालयनियंसणं ॥१॥ एगंमि जंतालए दससहस्सं जणा कज्जं कुणंति । एगया सो जंतालओ सहसा निस्संचारेण थिरो जाओ । कहंपि न चलेइ, तया जंतालयसंचालगो जंतालयचालणनिण्हायं सिप्प सिग्धं बोल्लावेइ । सो आगओ जंतालयं पासेइ, पासित्ता कहेइ - 'दससहस्सं रूवगं गिण्हिऊण एअं जंतालयं संचालिस्सं' । अंगीकुणते समाणे सिप्पिणा बुद्धीए जत्थ थले, जेण कारणेण खलिओ अहेसि, तं कारणं णच्चा तट्ठाणं मोग्गरेण पहरिअं । तओ, सो जंतालओ चलिउं लग्गो । तेण सिप्पिणा दससहस्सरूवगं मग्गिअं, तया जंतालयाहिवो कहेइ मोग्गरेण ताडणस्स उ एगं चिअ रूवगं, दससहस्सं अजुत्तं मम भाइ, ताडणं तु मम किंकरो वि कुणेज्जा" । सो सिप्पी कहेइ - "सच्चं, मए मोग्गरप्पहारस्स रूवगमेक्कमेव गहिअं, १. कोलाहलः ॥ ८१ Page #89 -------------------------------------------------------------------------- ________________ किंतु एगोणं दससहस्सं तु सो मोग्गरप्पहारो कत्थ कीइ जुत्तीए दायव्वो?, तं बुद्धीए जाणिऊण गहिअं, नन्नहा" ॥ उवएसो बुद्धि-किंकरकम्माणं, मुल्लमाणनियंसगं । अक्खाणगं सुणित्तेवं 'होह पण्णाविहूसिआ' ॥२॥ बुद्धीए मुल्लकदंसणे कहा समत्ता ॥ - गुज्जरभासाकहाए (५) धम्मसवणे मिलिच्छस्स कहा 'धम्मस्सवणयाणंदो, सावहाणस्स जायइ' । मिलिच्छस्स पमाइस्स, खारो हरिकहारसो ॥१॥ कंमिवि नयरे एगा माहणी सएव धम्मसवणसीला अहेसि । सा सया भट्टस्स समीवं गंतूणं धम्म हरिकहारसं सुणेइ, सुणिऊण जणाणमग्गओ पसंसेइ - "अहो ! केरिसो हरिकहारसो किल अईव साऊ मणोहरो अत्थि" । तीए वयणं घरपासवासिणा एगेण मोग्गलिएण मिलिच्छेण सुअं। बीअदिणे सो वि हरिकहारससवणत्थं भट्टस्स समीवे गओ । तत्थ बहवो जणा भट्टाओ हरिकहारसं सुणंति । सो वि मिलिच्छो एगमि कोणंमि उववेसिअ हरिकहारसं सुणेइ । तया तस्स आणंदो न जाओ, पमाएण निदं पत्तो । तया तत्थ एगो कुक्कुरो समागओ । सो निहायंतस्स तस्स विआरिअमुहे जाइसहावेण एगं पाअं उद्धं काऊण मुत्तिऊण भग्गो । सो जागरमाणो चिंतेइ - "तीए माहणीए उत्तं हरिरसो महुरो साऊ अत्थि, इमो उ खारो किं?" । तओ सो उत्थाय माहणीसमीवे गच्चा कहेइ - "तं तु सया कहेसि जं हरिरसो अईव साऊ मणोहरो अस्थि, परंतु मज्झ हरिरसो खारो आगओ" । तीए तस्स सरूवं जाणिऊण उत्तं"तुमं तत्थ निद्दमुवगओ, तेण तव खारो रसो समागओ" । एवं पमाइणो धम्मपत्ती न सिया, अओ अपमत्तेण धम्मो सोयव्वो । उवएसो पमाइणो मिलिच्छस्स, सोच्चा एयं कहं जणा । 'सद्धम्मस्सवणे तुम्हे, पमायं परिवज्जह' ॥२॥ धम्मसवणे मिलिच्छस्स कहा समत्ता ॥ - सूरीसरमुहाओ १. विदारितमुखे उद्घाटितमुखे ॥ ८२ Page #90 -------------------------------------------------------------------------- ________________ कस्यचिद् बालकस्य पद्यायां क्रीडतो नाणकमेकं लब्धम् / एवमेव तद् लब्धमित्यतः सोऽतीव हृष्टोऽभवत् / तेन निश्चितं स्वमनसि यदतः परं यदाऽपि वीथ्यां गच्छेयं तदा नीचैर्दृष्ट्वैव चलेयमिति / यदा स वयस्को जातस्तदाऽपि तस्याऽयमभ्यासः प्रवृत्त एव, आजीवनम् ! ततश्च सम्पूर्णेऽपि स्वीयायुषि तेन 296 नाणकमुद्राः, 48 पञ्चनाणकमुद्राः, 19 दशनाणकमुद्राः, 16 पञ्चविंशतिनाणकमुद्राः, 2 पञ्चाशन्नाणकमुद्रे, एकं च पूर्ण रूप्यकमिति सर्वमाहत्य 13 रूप्यकाणि 96 नाणकानि च लब्धानि विनैव परिश्रमम्! किन्तु तस्य हानिरपि जाता काचित् ! तेन स्वजीवने 31,369 चेतोहराः सूर्यास्ता न दृष्टाः कदाचिदपि; एवं 157 मोहकानि मेघधषि, शिशिरर्तुषु पत्राणां विस्मयजनकं वर्णपरावर्तनं, प्रत्यर्तु सङ्ख्यातीतानां सौन्दर्यातिशयशोभितानां पुष्पाणां प्रफुल्लनं, सन्ध्यासमयेऽनन्ताकाशे खेलन्ति विविधाकारवर्णाद्युल्लसन्ति अभ्रपटलानि, नभसि निश्चिन्ततया डयमानं विहगकुलं, जगज्जीवनाय प्रकाशमानस्य दिनकरस्य स्वर्णवर्णिता नित्यनूतना रश्मयस्तथा मार्गेषु विहरता-मसङ्ख्यानां जनानामुत्साहप्रेरकानि स्मितानि दृष्टानि नवेत्येतत् तु सर्वथा न स्मरति सः!!