________________
Jain Education International
श्रीदेववाणीस्तोत्रम्
डॉ. आचार्यरामकिशोरमिश्रः
(१)
यां भारत प्रथममत्र हि वेदवाणीं, ब्राह्मीं गिरां स्वहृदये मनसा स्मरामि । वन्दे वसन्ततिलकां च सरस्वतीं यां, सा शारदा जयताद् भुवि देववाणी ॥१॥ (२)
या वीणया कुरुते श्रुतिगायनं वै, वेदस्य पुस्तकमथ स्वकरे च धत्ते । यस्याः कृपा जडमतिं सुमतिं करोति, ज्ञानप्रदा जयतु सा दिवि देववाणी ॥२॥ (३) वेदैः सदा विविधभाषणबोधदात्री, सान्निध्यदा विपदि सम्पदि हर्षशून्या । ज्योतिष्मती जगति चन्द्रसमोज्ज्वला या, सा वाक्प्रदा विजयतां भुवि देववाणी ॥३॥ (४) दत्ते समस्तजगते व्यवहारशक्तिं, लेखादिभाषणगिरं विदुषे ददाति । जीवाय या स्वलपितं प्रददाति चाण्या, सा ज्ञानदाऽत्र जयताद् भुवि देववाणी ||४||
(५)
या जन्ममृत्युरहिताsत्र जरापहाच, वेदप्रिया सुफलदा च सुखप्रदा च ।
१०
For Private & Personal Use Only
www.jainelibrary.org