________________
Jain Education International
आङ्ग्लादिभाषितविभिन्नगिरासवित्री, सा शोभते वचनदा भुवि देववाणी ॥५॥
(६)
बोधाग्रमूर्तिरिह छात्ररमा सुमेधा, विज्ञानदा च जडलोक विवेकदा च । देवासुरान्वयमुखार्चितसंस्कृता या, साऽलङ्कृताऽत्र रसदा भुवि देववाणी ॥ ६ ॥ (७)
यस्याः करे लसति गायनतन्त्रवीणा, भाषादिपुस्तक मिह स्फटिकाक्षमाला । हंसेन याति परितो भ्रमतीह विश्वं, सा शारदा सुफलदा भुवि देववाणी ॥७॥ (८)
दुःखे सुखे च सहयोग - सुबुद्धिदा या, छात्रान् प्रति प्रतिपलं हितसाधिका सा । सुज्ञे जडे च समभावक रीहलोके, सा निर्मला विजयतां भुवि देववाणी ॥८॥
(९)
शब्दार्थसिद्धिमवगन्तुमिमां सुभाषां, वाञ्छन्ति बोधफलदामिह बुद्धिमन्तः । या सर्वविश्वहितचिन्तनमादधाति, वाग्देवता जयति सा जन - देववाणी ॥९॥ (१०) वेदा हि यत्र लिखिता ऋषिभि: प्रसिद्धा, ग्रन्थाः कृता इह महाकविभिः प्रबन्धाः । नानाविधाश्च रचनाः प्रददाति या हि, सा शारदा जयताद् भुवि देववाणी ॥१०॥
११
For Private & Personal Use Only
२९५/१४, पट्टीसमपाद
खेकड़ा (बागपत) उ.प्र. २५०१०१
www.jainelibrary.org