________________
गलज्जलिका
। गलज्जलिकापञ्चकम् प्रा. अभिराजराजेन्द्रमिश्रः
१. ननु कीदृशं जातं पुरम् ?
बधिर अभूवन् वीथिका अन्धाः पुनर्घण्टापथाः मूकाश्च जाता नागरा ननु कीदृशं जातं पुरम् ॥१॥ गृहचुल्लयः पातिव्रत्यं बिभ्रति नितान्तमुपोषिताः पामरकुटीषु प्रायशो ननु कीदृशं जातं पुरम् ॥२॥ कीचकनिभैर्जनघर्षणैः सन्दीपिताः स्वयमग्नयः दन्दह्यते येनाऽखिलं ननु कीदृशं जातं पुरम् ॥३॥ निर्वान्ति सन्तप्तानिलाः' परितोऽपि जनवार्तोद्गताः ज्वरपीडिताः सर्वेऽप्यहो ननु कीदृशं जातं पुरम् ॥४॥ ग्रीष्मे न धर्मस्तापयति शीते न शैत्यं बाधते सर्वंसहत्वमहोऽद्भुतं ननु कीदृशं जातं पुरम् ॥५॥ अपहाय भैक्ष्यं दस्युतस्करवञ्चका अपहारकाः भूत्वा समे सुखिनोऽधुना ननु कीदृशं जातं पुरम् ॥६॥ क्व नु नर्तनं गृहगीतय; क्य नु नर्महास्यकथानिकाः यत्राश्रितं मधुरस्मितं ननु कीदृशं जातं पुरम् ॥७॥ अहँ प्रवेष्टुं नाऽत्र सत्यं नो शिवं न च सुन्दरम् । अशुभं प्रनृत्यति सर्वतो ननु कीदृशं जातं पुरम् ॥८॥ तिष्ठन्ति केचन सज्जना अवकेशिनो नाट्यामिव बब्बूल-खदिरैय॑क्कृता ननु कीदृशं जातं पुरम् ॥॥
१. लू इति भाषायाम् । २. Folk Songs | ३. Television |
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org