________________
२. कौशेयवासोभिरुयते
अद्य सन्दृश्यते हन्त शुष्का नदी नौकया तीर्यते स्मेति संश्रूयते ॥१॥ भारतेऽतः परं किन्तु चित्रं भवेत् यत् त्रिरङ्गध्वजोऽद्याऽत्र दोधूयते ॥२॥ घोषितो यस्य राज्याभिषेकोत्सवः प्रेक्ष्य निर्वासनं तस्य, हृद् दूयते ॥३॥ मा शुचं गा अहल्ये ! त्वदुद्धारकः । कौशिकेनाऽऽश्रमे राम आहूयते ॥४॥ बुद्धिगर्वं वृथा, मां न सन्दर्शय दूर्वयाऽप्यश्मगर्भाल किं सूयते ॥५॥ सात्त्विको रागबन्धापहारी हरिः किं मुधैश्वर्यहेतोः स संस्तूयते ॥६॥ नेत्रयोस्तन्दि ! ते सर्वमुट्टङ्गितम् किं रहस्यं नु मतोऽत्र नितूयते ॥७॥ हन्त वीचीषु लीनो भुजङ्गः क्वचित् व्यर्थमेवाऽधुना किं जलं धूयते ॥८॥ जीवितः प्रीतवाग्भिर्न सम्भावितः सोऽद्य कौशेयवासोभिरुणूयते ॥९॥
१. जीवितः पितेति शेषः । २. रेशमी कफन इति भाषायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org