________________
३. सैव राजनेतृताऽस्माकम्
शासने सम्मता जाताऽस्त्यभद्रताऽस्माकम् अन्यथाऽन्यत्र विभो ! क्वाऽस्ति पात्रताऽस्माकम् ॥१॥ शिलीन्धवन्नु वयं कच्चरे वृथा जाताः श्रुता नु केन जगति कापि सार्थताऽरमाकम् ॥२॥ धनं विलोक्यतेऽरमाभिस्सदैव मलकल्पम् तदीयभक्षणे सिद्धाऽस्ति पोत्रिताडरमाकम् ॥३॥ समाजवेणुवने हन्त वयं सुमकल्पाः समाजनाशने तस्माच्च हेतुताऽस्माकम् ॥४॥ गुणेषु नैव रतिर्नाऽप्यहो चरित्रबलम् दुर्निवारा तथाऽपि लोकतन्त्रताडरमाकम् ॥५॥ घुणा वयं नु सौम्यराष्ट्रदारुसंलग्नाः भक्षयिष्याम इदं सिद्धशत्रुताऽस्माकम् ॥६॥ राजनीतौ स्थिता विहाय भो भयं लज्जाम् प्रत्यभिज्ञायते न केन षण्ढताडरमाकम् ॥७॥ अद्य कण्ठीरवाः श्व' एव शृगाला भूयः अलं भयेन, सैव राजनेतृताऽरमाकम् ॥८॥ तवाऽस्ति योगपथस्साधु योगमाराधय ममारित भोगपथरतर्हि भोक्तृताऽरमाकम् ॥७॥
५, फुल्ल वेणुचन नश्यतीति दिक् । २. निर्वाचिताः सन्तः । ३. निर्वाचनावसरे, मतयाचनावसरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org