________________
कथा
वृद्धोऽनुभवदीपः सा. शीलन्धराश्री:*
एकदैकस्य श्रेष्ठिनो गृहे कन्याया विवाहप्रसङ्ग आसीत् । तस्य मनसि नर्मकरणार्थं विचार आगतः । ततस्तदनुसारेण जामातरमुद्दिश्य तेन पत्रं लिखितम् ।
माननीयाः ! ___ विवाहदिने जन्ययात्रायां भवद्भिनिश्चयेनाऽऽगमनीयं, किन्तु विना वृद्धजनं केवलं युवभिरेवाऽऽगन्तव्यम् । यद्येकोऽपि वृद्धजन आगमिष्यति तर्हि विवाहं न करिष्यामो वयम्, इति ज्ञेयम् ।
पत्रं पठित्वा सर्वेऽपि युवानः प्रसन्नीभूताः । किन्तु वरस्य पितृव्यस्तत् पठित्वा चिन्तितवान् यद्, अत्र किमपि रहस्यमस्ति । अतः स यून उदितवान् - अहं युष्माभिः सह गुप्तरीत्याऽऽगमिष्यामि । सर्वेऽपि तद्वचनं स्वीकृतवन्तः ।
निश्चितदिने तद्ग्रामं गतवन्तः सर्वेऽपि । कन्याया ग्रामसमीपे यदा ते आगतास्तदा कन्यापिता मनोहरतूर्यनादेन सह तेषां स्वागतं कृतवान् ।
___कन्यापिता जामातरं कथितवान् - पश्य ! अत्रैकः कासारोऽस्ति । प्रथममेष कासारो घृतेन पूरणीयो भवद्भिः । तत्पश्चादेव विवाहो भविष्यति । एतच्छ्रुत्वा सर्वेऽपि युवानश्चिन्ताकुला जाता यत्, एष कासारः कथं घृतेन भ्रियेत ? एतावच्च घृतं कुत आनीयेत ? अथ किं करवाम ? इति ।
तदैको युवा पितृव्यस्याऽस्मरत् । तेन तस्य समीपं गत्वा वातॆषा निवेदिता ।
पितृव्य उवाच - मा मुह्यत । कथं यूयं भयविह्वला जाताः ? गच्छत । कन्यापितर कथयत यद्, घृतभृतशकटान्यागच्छन्ति, अतो भवान् झटिति जलभृतं कासारं रिक्तं करोतु - इति ।
प्रसन्नीभूतास्ते सर्वेऽपि कन्यापितुः समीपं गताः उक्तवन्तश्च - घृतशकटान्यागच्छन्ति, भवान् कासारं रिक्तं कारयतु । कन्यापिताऽपि प्रसन्नीभूय कथितवान् - निश्चयेन युष्माभिः सह कश्चन वृद्धजन आगतोऽस्ति । अन्यथैतादृशं प्रत्युत्तरं न शक्यम् । अतः सत्यं कथयत । तदैको युवा सर्वमपि गदितवान् ।
अन्ते तूर्यनादेन सह सस्वागतं वर-कन्ययोविवाहः संपन्नो जातः । तदा सर्वैरप्यनुभूतं यद्, वृद्धजनोऽनुभवदीपरूपोऽस्ति । अतः स कदाऽपि नाऽवगणनीयः ।
★ सागरजी-समुदायवर्तिनी
७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org