________________
कथा
कुलीनत्वम् सा. पुण्यधराश्रीः
एकस्मिन्नगरे प्रतिवेशितयैका ब्राह्मणी एका च शाकविक्रेत्री वसतः स्म । तयोः परस्परं परात्मीयताऽऽसीत् । कदाचित् केनाऽपि कारणेन परस्परं यदि विवादो भवेत्तर्हि अप्यल्पेनैव कालेन समाधानं विधाय ते द्वे सानन्दं व्यवहारमपि कुरुतः स्म ।
एकदा ब्राह्मणी गर्भिणी जाता। प्रायो गर्भभृतां योषितां दोहदानि भवेयुः । ब्राह्मण्या यानि दोहदानि जातानि तानि सर्वाण्यपि परिपूर्णीकर्तुं सर्वेऽपि प्रयतन्ते स्म । तदैकदा तस्या मांसभक्षणे दोहदं जातम् । सा अस्य दुष्टदोहदस्य वार्ता कस्याऽप्यग्रे कथयितुं सोढुं वाऽपि न शक्ताऽऽसीत् । तस्मात् तस्या देहोऽतीव कृशो जातः । तस्यास्तादृशीं स्थितिं दृष्ट्वा शाकविक्रेत्री पृष्टवती - हले ! किं ते मनसि बाधते येन ते देहः कृशतरो जातः ? ।
ब्राह्मणी उवाच - किं करवाणि ? अहं न कथयितुं न च सोढुमपि शक्ताऽस्मि ।
शाकविक्रेत्री उक्तवती - कथं त्वं चिन्तां करोषि ? चिन्तायाः कारणं मे कथय । अहं तद् दूरीकर्तुं प्रयतिष्ये।
ब्राह्मणी स्वदोहदं तस्यै अकथयत् ।
शाकविक्रेत्री प्रोवाच - हले ! त्वं चिन्तां मा कुरु । मम गृहे यदा कदाऽपि मांसं पच्यते एव। ततस्तव दोहदं निर्विघ्नं पूर्णीभविष्यति, एषा च वार्ता न केनाऽपि ज्ञातुं शक्येत । अवसरे तया तस्या दोहदं पूर्णीकृतम् ।
एकस्मिन् दिने तयोर्द्वयोर्मध्ये केनाऽपि कारणेन कलह: सञ्जातः । द्वे अपि परस्परमपशब्दान् प्रयुक्तः स्म । तदा सहसैव मांसभक्षणं स्मृत्वा सा ब्राह्मणी तूष्णीं जाता । यतो यदि एषा क्रोधाध्माता वृत्तं प्रकटीकुर्यात् तहि मृत्युरेव शरणम् ।
अथ सहसैव ब्राह्मणी तूष्णीं जातां वीक्ष्य शाकविक्रेत्री चिन्तितवती यद्, दोहदवार्तयैवैषा शान्ता जाता । ततः सोक्तवती - हले ! त्वं यान्यपि वचनानि वक्तुमिच्छसि तानि वचनानि वद, चिन्तां मा कुरु । अस्माद् मुखात् मया यानि वचनानि वदितव्यानि तान्येवाऽहं वदिष्यामि, किन्तु यान्यवक्तव्यानि वचनानि तानि नैव वदिष्यामि – इति । एतच्छ्रुत्वा ब्राह्मणी चिन्तितवती - यद्, नूनं ममैषा सखी कुलीनाऽस्ति ।
७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org