________________
मर्म नर्म - कीर्तित्रयी
(१)
विश्वविद्यालयपरिसरात् सहैव निर्गतौ स्नातकनेपथ्यधारिणौ द्वौ स्नातकौ बहिरागत्य टैक्सीयानमारूढौ।
"किं भवन्तौ विश्वविद्यालयात् स्नातकीभूय निर्गतौ वा ?' यानचालकः पृष्टवान् ।
'आम् भ्रातर् ! आवां २०११तमवर्षस्य स्नातकौ !' द्वावपि सगर्वमुक्तवन्तौ । तदा यानचालकोऽपि स्वहस्तमग्रे कृत्वा कथितवान् – 'अहमस्मि २००५ तमवर्षस्य स्नातकः !' इति ।।
अरुणः कस्य राज्ञो मुकुट ह्यतिविशालमासीदिति त्वं जानासि वा ? वरुणः आम् अहं जानामि ! अरुणः तर्हि कथय, को वा सः ? वरुणः यस्य मस्तकमतिविशालमासीत् तस्य !!
७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org