________________
(३)
न्यायाधीशः (कोपेन) अस्य स्यूतं चोरयता त्वया किमपि नैव विचारितम् ? चौरः महोदय ! विचारितमासीत् । न्यायाधीशः (उच्चैः) किं तत् ? चौरः मया विचारितं यत् - कदाचिदयं स्यूतो रिक्तस्तु नैव स्यात् !!
(४)
प्रातिवेशिकी-१ हले ! किं करोषि ? प्रातिवेशिकी-२ गृहसम्मार्जनं करोमि । प्रातिवेशिकी-१ तर्हि अत्राऽऽगत्य कुरु येन कार्यं संलापोऽपि च स्यात् ।
वयं भगवति किमिति श्रद्दधामः । यतोऽद्याऽपि बहवः प्रश्ना अनुत्तरितास्तिष्ठन्ति !!
रमणः भोः ! ह्यो रात्रौ निद्रैव नाऽऽगता मम ! गमनः किमर्थं भोः ? रमणः ह्य आरात्रि मया स्वप्ने 'अहं जागर्मि' इत्येव दृष्टम् !!
७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org