________________
कथा
शुकद्वयम् सा. हर्षरेखाश्रीः
एकदा कस्यचिन्नृपस्य समीपे द्वौ शुकौ समागतौ । नृपो द्वयोरपि शुकयोर्मध्ये भाषाभेदं परिलक्षितवान् । यद्, एकस्य भाषा मधुरा प्रीतिकरा चाऽऽसीद्, अन्यस्य च कठोराऽप्रीतिकरा चाऽऽसीत् ।
अस्य भेदस्य कारणं नृपो मधुरभाष शुकं पृष्टवान् ।
शुकः कथितवान् यद्, यद्यपि सहोदरावेवाऽऽवां, किन्तु डयन्तौ झञ्झावातेनाऽऽवामेकदा वियुक्तौ जातौ । दैवाच्चाऽहं कस्यचिद् ऋषेराश्रमं प्राप्तवान् । तथैष च मम भ्राता किरातानां वासं प्राप्तवान् ।
ऋषिमुनीनां मधुरव्यवहारेण मम वाणी संस्कृता जाता, किन्तु किरातानां दुर्वचोभिर्दुर्व्यवहारेण च मे बन्धुः कठोरवाग् जातः ।
अतः संसर्गभेदजोऽयमावयोर्भाषाभेदोऽस्ति ।
७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org